यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशीरः, पुं, क्ली, (वश कान्तौ + “वशः कित्” । ४ । ३१ इति उणादिसूत्रण ईरन् । सम्प्रसारणम् ।) वीरणमूलम् । वेनार मूल् खस् इत्यादि भाषा । तत्पर्य्यायः । अभयम् २ नलदम् ३ सेव्यम् ४ अमृ- णालम् ५ जलाशयम् ६ लामज्जकम् ७ लघुलयम् ८ अवदाहम् ९ इष्टकापथम् १० । इत्यमरः ॥ उषीरम् ११ मृणालम् १२ लघु १३ लयम् १४ अवदानम् १५ इष्टम् १६ कापथम् १७ अवदाहेष्टकापथम् १८ इन्द्रगुप्तम् १९ । इति तट्टीकायां भरतादयः ॥ जलवासम् २० हरिप्रियम् २१ वीरम् २२ वीरणम् २३ समगन्धिकम् २४ रणप्रियम् २५ वीरतरु २६ शिशिरम् २७ शीतमूलकम् २८ वितानमूलकम् २९ जलमेदम् ३० सुगन्धिकम् ३१ सुगन्धिमूलकम् ३२ कम्भु ३३ । इति राजनिर्घण्टः ॥ अस्य गुणाः । घर्म्मदार्गन्ध्यदाहपित्तरक्तरोगनाशित्वम् । इति राजवल्लभः ॥ अपिच । शीतलत्वम् । तिक्तत्वम् । मोहभ्रमापहत्वम् । ज्वरार्त्तिपित्तशमनकारित्वम् । जलसौगन्ध्यदायकत्वञ्च । इति राजनिर्घण्टः ॥ (यथा, शाकुन्तले ३ अङ्के । “प्रियंवदे ! कस्येद- मुशीरानुलेपनं मृणालवन्ति च नलिनीदलानि नीयन्ते” । अस्य पर्य्यायगुणाः यथा, “वीरणस्य तु मूलं स्यादुशीरं नलदञ्च तत् । अमृणालञ्च सेव्यञ्च समगन्धिकमित्यपि ॥ उशीरम्पाचनं शीतं स्तम्भनं लघु तिक्तकम् । मधुरं ज्वरहृद्वान्तिमदनुत्कफपित्तहृत् ॥ तृष्णास्रविषवीसर्पदाहकृच्छ्रव्रणापहम्” । इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशीर पुं-नपुं।

वीरणमूलम्

समानार्थक:उशीर,अभय,नलद,सेव्य,अमृणाल,जलाशय,लामज्जक,लघुलय,अवदाह,इष्टकापथ

2।4।164।1।3

स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम्. अभयं नलदं सेव्यममृणालं जलाशयम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशीर¦ पु॰ न॰ वश--ईरन् किच्च। वीरणमूले (खसखस्)तस्य गुणाः
“उशीरं पाचनं शीतं स्तम्भनं लघु तिक्तकम्। मधुरं ज्वरहृद्वान्तिमलनुत् कफपित्तनुत्। तृष्णार्त्तिविषवीस-र्पदाहकृच्छ्रव्रणापहम्” भावप्र॰
“अगरुपृक्कोशीरभद्रदारुकुङ्कुमानि पुन्नागकेशरञ्चेति”
“चन्दनकुचन्दनह्रीवेरोशी-रमञ्जिष्ठापयस्याविदारीशतावरीहिङ्गुभिः” सुश्रु॰स्वार्थे कन् तत्रैव। उशीरं पण्यमस्य किशरादि ष्ठन्। उशोरिक तद्विक्रेतरि स्त्रियां षित्त्वात् ङीष्। उशीनर-स्यापत्यम् अण्। औशीनर तदपत्ये शिविप्रभूतौ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशीर¦ mn. (-रः-रं) The root of a fragrant grass, (Androdogon muricatum.) f. (-री) A sort of grass, a small sort of Saccharum. E. वश् ta desire, ईरन् Una4di affix; also with कन् added उशीरक।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशीर mn. ( Un2. iv , 31 ) , the fragrant root of the plant Andropogon Muricatus Sus3r. S3ak. Hcat. etc.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशीर पु.
सुगन्धित चूर्ण; द्रष्टव्य-संभार।

"https://sa.wiktionary.org/w/index.php?title=उशीर&oldid=493579" इत्यस्माद् प्रतिप्राप्तम्