यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊरुजः पुं, (ऊरोर्जायते इति । ऊरु + जन् + ड ।) बैश्यः । स तु ब्रह्मण ऊरुभ्यां जातः । इत्यमरः ॥ (यथा, विष्णुपुराणे । १ । ६ । ४ । रजसा तमसा चैव समुद्रिक्तास्तथोरुजाः” । भृगुवंशीय ऋषिभेदः । स च और्व्व इति नाम्ना ख्यातः । तस्य जन्मकथा और्व्वशब्दे द्रष्टव्या ॥)

"https://sa.wiktionary.org/w/index.php?title=ऊरुजः&oldid=120366" इत्यस्माद् प्रतिप्राप्तम्