यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्धकः, पुं, (ऊर्द्धः सन् कायतीति । ऊर्द्ध + कै शब्दे + क ।) ऊर्द्ध्वकः । मृदङ्गविशेषः । इत्यमरटीकायां भरतमुकुटौ । (यथा शब्दार्णवे । “ऊर्द्धको गोपुच्छवत् सत्रितालोऽष्टाङ्गुलो मुखे । धृत्वोर्द्ध्वं वाद्यते तेषां वादनं दुर्जनं न वा” ॥ तथाच चिन्तामणौ । “हरीतक्याकृतिस्त्वङ्क्यस्तथालिङ्ग्यो यवाकृतिः । ऊर्द्धको दण्डतुल्यः स्यात् मुरजा भेदतो मताः” ॥)

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धकः&oldid=120420" इत्यस्माद् प्रतिप्राप्तम्