यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वः, पुं, दण्डवत्स्थिंतः । यथा, -- “आसीन ऊर्द्ध्वः प्रह्वो वा नियमो यत्र नेदृशः । तदासीनेन कर्त्तव्यं न प्रह्वेन न तिष्ठता” ॥ इत्यादि छन्दोगपरिशिष्टात् ॥ आसीनः उपविष्टः । “ऊर्द्ध्वो दण्डवत् स्थितः प्रह्वोऽवनतपूर्ब्बकायः” । इति श्राद्धतत्त्वम् ॥

ऊर्द्ध्वः, त्रि, (उत् + हा + ड । आदिवर्गस्य ऊरा- देशः ।) उच्छ्रितः । तुङ्गः । उपरिष्टात् । इति मेदिनी ॥ ऊर्द्ध्वशब्दो दीर्घादिः सवकारो निर्व्व- कारश्च । तथाच उपरि ध्वन्यते इति कृतनिरुक्ति- रुर्द्ध्वशब्दो वकारवानिति सुभूत्यादयः ॥ “कुर्व्वतीरुपलैस्तुङ्गैर्भुवनं नीचमूर्द्ध्वजैः । तस्या चलालीवान्वेति चित्रानागचमूर्द्ध्वजैः” ॥ इति कीचकबधयमकम् ॥ (यथा, कुमारे १ । १६ ।) “पद्मानि यस्याग्रसरोरुहाणि प्रवोधयत्यूर्द्ध्वमुखैर्मयूखैः” । ऊर्द्ध्वं शब्दो मकारान्तोऽव्ययो दीर्घादिर्वकारवान् तथा अदन्तोऽनव्ययोऽपीति जयादित्यादयः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्व¦ mfn. (-र्द्ध्वः-र्द्ध्वा-र्द्ध्वं)
1. Above, superior, upper.
2. High.
3. Aban- doned.
4. After, subsequent. E. ऊर् substituted for उद् above, हा to leave, and ड्व affix, or with ड only ऊर्द्ध।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्व&oldid=493679" इत्यस्माद् प्रतिप्राप्तम्