ऊष्मन्
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऊष्मन्¦ पु॰ ऊष--मनिन्।
१ ग्रीष्मे
२ तेजोद्रव्यस्य सूक्ष्मावयवे(भाप)
“भुवा सहोष्माणममुञ्चदूर्द्ध्वगम्” कुमा॰
“यथाग्नेर्धूमउदयते एवमेषामूष्मोदयते” शत॰ ब्रा॰
१ ,
६ ,
२ ,
१ ,
५ । व्यारणोक्तेषु सोष्मवायुनोच्चार्य्यमाणेषु शषसहरूपेषु वर्णेषु।
“स्वराणामूष्मणाञ्चैव विवृतं करणं मतम्” शिक्षा।
“शष-सहा ऊष्माणः” सि॰ कौ॰।
“सर्वे स्वरा घोषवन्तोबलवन्तो वक्तव्याः इन्द्रे बलं ददानीति। सर्व्वऊ-ष्माणोऽग्रस्ता अनिरस्ता विवृता वक्तव्याः प्रजापतेरात्मानंपरिददानीति” छा॰ उ॰।
“सर्व्व ऊष्माणोऽग्रस्ताअन्तरप्रवेशिता अनिरस्ता अबहिराक्षिप्ता विवृता वि-वृतप्रयत्नोच्चारिताः प्रजापतेरात्मानं परिददानि प्रय-च्छामि” शा॰ भा॰।
“अथ यद्येनमूष्मसूपालभेत प्रजापतेःशरणोऽभूवं स त्वा प्रतिपेक्ष्यतोत्येनं ब्रूयात्” छा॰ उ॰।
“स्पर्शस्तस्याभवज्जीवः स्वरोदेह उदाहृतः। उष्माणमि-न्द्रियाण्याहुरन्तस्था बलमात्मनः। स्वराः सप्त विहारेणभवन्ति स्म प्रजापतेः” भाग॰
३ ,
१२ ,
३० , ऊष्माणं शषसहइति चतुष्टयम् अन्तः स्था यरलवाः सप्त स्वराः षड्जादयःविहारेण क्रीडया” श्रीधरः।
“खे खानि वायौ निश्वासांस्तेजःसूष्माणमात्मवान्। अप्स्वसृक्श्लेष्मशुक्राणिक्षितौशेषं यथोद्भवम्” भाग॰
७ ,
१२ ,
२४ ,। अत्र तेज रूष्माणमिति स्वकारणे लयाभिधानात् तस्य तेज कार्य्यता गम्यते। सुश्रुते च तस्य तेजः कार्य्यत्वदुक्तं तच्च उष्णशब्दे दर्शितम्। देहस्योष्मां च ब्रह्माभिन्न कौक्षेयानलोपाधिकजीवसंयोगेनैव-भवति यथोक्तं छा॰ उ॰ भाष्ययोः।
“अथ यदतः परोदिवो-ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्व्वतः पृष्ठेषु अनुत्तमेषूत्तमेषुलोकेष्विदः वाव तद्यदिद मस्मिन्नन्तः पुरुषे ज्योतिस्तस्यैषादृष्टिः विजानाति” उप॰।
“इदं वावेदमेव तद्यदिदमस्मिन्पुरुषेऽन्तर्मध्ये ज्योतिः चक्षुःश्रोत्रग्राह्येन लिङ्गेनोष्णि-म्रा शब्देन वावगम्यते। यत्त्वचा स्पर्शरूपेण गृह्यतेतच्चक्षुषैव। दृढप्रतीतिकरत्वात्त्वचोऽविनामूतत्वाच्च रूप-[Page1395-a+ 38] स्पर्शयोः। कथं पुनस्तस्य ज्योतिषो लिङ्गं त्वग्दृष्टिगोच-रत्वमापद्यते? इत्याह यत्र यस्मिन् काले एतदिति क्रिया-विशेषणं अस्मिन् शरीरे हस्तेनालभ्य संस्पर्शेनोष्णिमानंरूपसहभाविनमुष्णस्पर्शभावं विजानाति स ह्युष्णिमानामरूपव्याकरणाय देहमनुप्रविष्टस्य चैतन्यात्मज्योतिषोलिङ्गमव्यभिचारात्। न हि जीवन्तमात्मानमूष्णिमा व्यभि-चरति।
“उष्ण एव जीविष्यन् शीतो मरिष्यन्निति” हि वि-ज्ञायते। मरणकाले च
“तेजः परस्यां देवतायामिति” परेणाविभागत्वोपगमादतोऽसाधारणं लिङ्गमौष्ण्यमग्ने-रिव धूमः। अतस्तस्य परस्यैषा दृष्टिः साक्षादिव दर्शनंदर्शनोपाय इत्यर्थः”। एतद्वाक्यञ्च कौक्षेयानलोपाघिकजीवाभिन्नब्रह्मपरं तस्यैवज्योतिःशब्दाभिधेयत्वेन तत्सम्पर्कादेव देहस्यौष्ण्यसम्भवःतदेतत् शा॰ सू॰ भाष्ययोः समर्थितं यथा
“ज्योतिश्चरणा-भिधानात्” शा॰ सू॰
“इदमामनन्ति अथ यदतः परोदिवोज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषुलोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिरिति” तत्रसंशयः किमिह ज्योतिःशब्देनादित्यादिकं ज्योतिरभिधी-यते? किं वा पर आत्मेति?। अर्थान्तरविषयस्यापि शब्दस्यतल्लिङ्गाद्ब्रह्मविषयत्वमुक्तम् इह तल्लिङ्गमेवास्ति नास्ति वेतिविचार्यते किन्तावत् प्राप्तं आदित्यादिकमेव ज्योतिःश-ब्देन परिगृह्यते इति। कुत? प्रसिद्धेः तमो ज्योति-रिति हीमौ शब्दौ परस्परप्रतिद्वन्द्विविषयौ प्रसिद्धौ। चक्षुर्वृत्तेर्निरोघकं शार्वरादिकन्तम उच्यते। तस्याएवानु-ग्राहकमादित्यादिकं ज्योतिः। तथा दीप्यते इतीयमपिश्रुतिरादित्यादिविषया प्रसिद्धा न हि रूपादिहीनं ब्र-ह्म दीप्यत इति मुख्यां श्रुतिमर्हति। किञ्च द्युमर्यादत्व-श्रुतेश्च। न हि चराचरवीजस्य ब्रह्मणः सर्बात्मकस्य द्यौर्म-र्य्यादा युक्ता कार्यस्य तु ज्योतिषः परिच्छिन्नस्य द्यौर्मर्या-दा स्यात्
“परोदिवो ज्योतिरिति” च ब्राह्मणम् ननु का-र्यस्यापि ज्योतिषः सर्व्वत्र गम्यमानत्वात् मर्यादावत्त्व-मसमञ्जसं अस्तु तर्ह्यत्रिवृत्कृतन्तेजः प्रथमजम्। नअत्रिवृत्कृतस्य तेजसः प्रयोजनाभावादिति। इदमेवप्रयोजनं यदुपास्यत्वमिति चेन्न प्रयोजनान्तरप्रयुक्तस्यैवा-दित्यादेरुपास्यत्वदर्शनात्।
“तासां त्रिवृतं त्रिवृतमेकैकांकरवाणीति” चाविशेषश्रुतेः। नचात्रिवृत्कृतस्यापि ते-जसोद्युमर्यादत्वं प्रसिद्धम्। अस्तु तर्हि त्रिवृत्कृतमेवतेजो ज्योतिः शब्दम्। ननूक्तमर्वागपि दिवो गम्यतेऽग्न्या-[Page1395-b+ 38] दिकं ज्योतिरिति नैष दोषः सर्वत्रापि गम्यमानस्य ज्यो-तिपः परोदिव इत्युपासनार्थः प्रदेशविशेषपरिग्रहो नविरुध्यते न तु निःप्रदेशस्य ब्रह्मणः प्रदेशविशेषकल्पना-भागिनी। सर्व्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्वितिचाधारबहुत्वश्रुतिः कार्ये ज्योतिष्युपपद्यतेतराम्।
“इदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिरिति” च कौ-क्षेये ज्योतिषि परं ज्योतिरध्यस्यमानं दृश्यते सारूप्यनि-मित्ताश्चाध्यासा भवन्ति यथा
“तस्य भूरिति शिरः एकं शिरएकमेतदक्षरमिति” कौक्षेयस्य तु ज्योतिषः प्रसिद्धमब्रह्मत्वंतस्यैषा दृष्टिस्तस्यैषा श्रुतिरिति चौष्ण्यघोषविशिष्टत्वश्रव-णात्
“तदेतद्दृष्टञ्च श्रुतञ्चेत्युपासीतेति” च श्रुतेः।
“चक्षुष्यश्चश्रुतो भवतीति य एवं वेदेति” चाल्पफलश्रवणादब्रह्मत्वंमहते हि फलाय ब्रह्मोपासनमिष्यते। नचान्यदपि कि-ञ्चित् स्ववाक्ये प्राणाकाशवत् ज्योतिषोस्ति ब्रह्मलिङ्गम्। न च पूर्वस्मिन्नपि वाक्ये व्रह्म निर्दिष्टमस्ति।
“गायत्री वाइदं सर्वं भूतमिति” छन्दोनिर्देशात्। अथापि कथञ्चित्पूर्व्वस्मिन् वाक्ये व्रह्म निर्दिष्टं स्यात् एवमपि न तस्येहप्रत्यभिज्ञानमस्ति। तत्र हि त्रिपादस्यामृतं दिवीतिद्यौरधिकरणत्वेन श्रूयते। अत्र पुनः परोदिवो ज्योति-रिति द्यौर्मर्यादात्वेन। तस्मात् प्राकृतं ज्योतिरिह ग्रा-ह्यमित्येवं पाप्ते ब्रूमः। ज्योतिरिह ब्रह्मग्राह्यं कुतः?चरणाभिघानात् पादाभिधानादित्यर्थः। पूर्व्वस्मिन्ह वाक्ये चतुष्पाद् ब्रह्म निर्दिष्टं
“तावानस्य महिमाततोज्यायांश्च पुरुषः पादोऽस्य सर्वाभूतानि त्रिपादस्यामृतंदिविं” इत्यनेन मन्त्रेण। तत्र यत् चतुषपदो ब्रह्मणःत्रिपादमृतं द्युसम्बन्धिरूपं निर्दिष्टं तदेवेह द्युसम्बन्धा-न्निर्दिष्टमिति प्रत्यभिज्ञायते तत् परित्यज्य प्राकृतं ज्योतिःकल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येतायाम्। न के-वलं ज्योतिर्वाक्य एव ब्रह्मानुवृत्तिः परस्यामपि हि शा-ण्डिल्य विद्यायामनुवर्त्तिष्यते ब्रह्म। तस्मादिह ज्योति-रिति ब्रह्म प्रतिपत्तव्यम्। यत्तूक्तं ज्योतिर्दीप्यते इतिचैतौ शब्दौ कार्ये ज्योतिषि प्रसिद्धाविति, नायन्दोषः प्रक-रणाद्ब्रह्मावगमे सत्यनयोः शब्दयोरविशेषकत्वात् दीप्यमानकार्यज्योतिरुपलक्षिते ब्रह्मण्यपि प्रयोगसम्भवात्
“येनसूर्यस्तपति तेजसेद्धः” इति च मन्त्रवर्ण्णात्। यद्वा नायज्योतिःशब्दश्चक्षुर्वृत्तेरेवानुग्राहके तेजसि वर्त्तते। अन्य-त्रापि प्रयोगदर्दनात्
“वाचैवायं ज्योतिषास्ते” मनोज्यो-तिर्जुषतामिति” च। तस्माद्यद्यत्कस्य चिदवभासकन्तत्तत्[Page1396-a+ 38] ज्योतिःशब्देनाभिवीयते। तथा सति ब्रह्मणोपि चैत-न्यस्वरूपस्य समस्तजगदवभासहेतुत्वादुपपन्नो ज्योतिशब्दः
“तमेव भान्तमनुभाति सर्वं तस्य भासा सर्व्वमिदं विभाति”।
“तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्” इत्यादिश्रु-तिभ्यश्च। यदप्युक्तंद्युमर्यादत्वंसर्व्वगतस्य ब्रह्मणोनोपपद्यतेइति। अत्रोच्यते सर्व्वगतस्यापि ब्रह्मणौपासनार्थः प्रदेशविशेषपरिग्रहो न विरुध्यते। ननूक्तं निःप्रदेशस्य ब्र-ह्मणः प्रदेशविशेषकल्पना नोपपद्यत इति। नायंदोषः निष्प्रदेशस्यापि ब्रह्मण उपाधिविशेषसम्बन्धात्प्रदेशविशेषकल्पनोपपत्तेः। तथार्हि आदिव्ये चक्षुषिहृदय इति प्रदेशविशेषसम्बन्धीनि ब्रह्मण उपासनानि-श्रूयन्ते। एतेन
“विश्वतः पृष्ठेष्वित्याघारबहुत्वमुपपादि-तम्। यदप्येतदुक्तं औष्ण्यघोषाभ्यामनुमिते कौक्षेयेकार्ये ज्योतिष्यध्यस्यमानत्वात् परमपि दिवः कार्य्यंज्योतिरेवेति। तदप्ययुक्तं परस्यापि ब्रह्मणोनामादिप्रतीकत्ववत् कौक्षेयज्योतिःप्रतीकत्वोपपत्तेः।
“दृष्टञ्चश्रुतञ्चेत्युपासीतेति” तु प्रतीकद्वारकं दृष्टत्वं श्रुतत्वञ्च भ-विष्यति। यदप्यल्पफलश्रवणान्न ब्रह्मेति तदप्यनुपपन्नम्। न हि इयते फलाय ब्रह्माश्रयणीयमियते नेति नियमेहेतुरस्ति। तत्र हि निरस्तसर्वविशेषसम्बन्धं परं ब्रह्मा-त्मत्वेनोपदिश्यते तत्रैवंरूपमेव फलं मोक्ष इत्यवगम्यतेयत्र तु गुणविशेषसम्बन्धं प्रतीकविशेषसम्बन्धं वा ब्रह्मो-पदिश्यते तत्र संसारगोचराण्येवोच्चावचानि फलानिदृश्यन्ते
“अन्नादो वसुदानोविन्दते वसु य एवंवेद” इत्याद्या-सु श्रुतिषु। यद्यपि न स्ववाक्ये किञ्चित् ज्योतिषो ब्रह्म-लिङ्गमस्ति तथापि पूर्वस्मिन् वाक्ये दृश्यमानं ग्रहीतव्यंभवति। तदुक्तं सूत्रकारेण ज्योतिश्चरणाभिधानादिति। कथं पुनर्वाक्यान्तरगतेन ब्रह्मसन्निधानेन ज्योतिःश्रुतिःस्वविषयात् प्रच्याव्य शक्या व्यावर्त्तयितुम्। नैषदोषः।
“यदतः परोदिवो ज्योतिरिति” प्रथमतरपठितेनयच्छब्देन सर्व्वनाम्नाद्युसम्बन्धात् प्रत्यभिज्ञायमाने पूर्व्व-वाक्यनिर्दिष्टे ब्रह्मणि स्वसामर्थ्येन परामृष्टे सत्यर्थात्ज्योतिःशब्दस्यापि तद्विषयत्वोपपत्तेः। तस्मादिहज्योतिरिति ब्रह्म प्रतिपत्तव्यम्” भा॰। श्रुत्यन्तरे तुकौक्षेयाग्निसंबन्धात् देहस्यौष्ण्यमुक्तम्। तत्रापि कौक्षेयाग्नेरपि जीवस्थितिनियतत्वात् जीवाधीनत्वं कल्प्य-मित्याकरे प्रपञ्चः
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऊष्मन् [ūṣman], m.
Heat, warmth.
The hot season, summer.
Steam, vapour, exhalation.
Ardour, passion, violence.
(In gram.) The sounds श्, ष्, स् and ह्; applied also to ष्क्, ष्प्, अं and अः. -Comp. -अन्त ending in an Ūṣman. -अन्तस्थाः (m. pl.) the sounds called Ūṣman and semivowels. -उपगमः approach of summer. -पः a. drinking the steam of hot food; Mb.12.284.8.
(पः) fire; गुणारणिच्छन्न- चिदुष्मपाय Bhāg.8.3.16.
a class of manes (pl.). Bg.11.22; अत्रोष्मपाणां देवानां निवासः श्रुयते द्विज Mb.5.19. 2. ('ऊष्मपाणां उष्णान्नभोजिनाम्' इति भाष्यकारः.)
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऊष्मन् m. ( उष्See. उष्मन्) , heat , glow , ardour , hot vapour , steam , vapour AV. vi , 18 , 3 VS. S3Br. Ka1tyS3r. BhP. (also figuratively said of passion or of money etc. )
ऊष्मन् m. the hot season L.
ऊष्मन् m. (in Gr. )N. applied to certain sounds (viz. the three sibilants , ह्, विसर्ग, जिह्वामूलीय, उपध्मानीय, and अनुस्वार) RPra1t. 11 , etc. APra1t. VPra1t. Ka1s3. etc. (the TPra1t. omits विसर्गand अनुस्वार).