ऋजीषम्
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऋजीषम्, क्ली, (अर्जते रसोऽस्मादिति । ऋज् + “अर्जे- रृजश्च” इत्युणादिसूत्रेण ईषन् ।) पिष्टपचनम् । पिष्टकभर्जनपात्रम् । इति हेमचन्द्रामरौ ॥ नरक- विशेषः । अत्र पिष्टपचनप्रक्षेपः । (यथा, मनुः ४ । ९० । “लोहशङ्कुमृजीषञ्च पन्थानं शाल्मलीं नदीम्” ॥ धनम् । सोमलताया उद्धृतो रसः । यथा, ऋग्वेदे ३ । ४३ । ५ । “कुविद्राजानं मघवन्नृजीषिन्” । “ऋजीषिन् सोमवन्” । इति भाष्यम्” ॥)