ऋणोद्ग्राहणम्
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ऋणोद्ग्राहणम्, क्ली, (ऋणस्य उद्ग्राहणं ।) अधमर्ण- गृहीतर्णग्रहणं । यत्र ऋणं प्रार्थनकाले प्रार्थितो- ऽपि ऋणी न ददाति तत्र धनिकेन यत् कर्त्तव्यं तदाह मनुः । ८ । ४८ -- ४९ । “यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः । तैस्तैरुपायैः संगृह्य साधयेदधमर्णिकम्” ॥ धर्म्मेण व्यवहारेण छलेनाचरितेन च । प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च” ॥ अयमर्थः । पूर्ब्बपूर्ब्बसामर्थ्याभावे उत्तरोत्तरम् संगृह्य वशीकृत्य । धर्म्मे वृहस्पतिराह । “सुहृत्सम्बन्धिसन्दिष्टैः सामोक्तानुगमेन च । प्रायेण वा ऋणी दाप्यो धर्म्म एष उदाहृतः” ॥ अस्यार्थः । ऋणिकस्य ये सुहृत्सम्बन्धिनस्तेषु न राज्ञा निवर्त्तनीय इत्याह मनुः । “यः स्वयं साधयेदर्थमुत्तमर्णोऽधमर्णिकात् । स राज्ञा नाभियोक्तव्यः स्वकं संसाधयन् धनम्” ॥ * ॥ धनवता ऋणिकेनादत्ते ऋणे राजा स्वयं विंशति- तमभागं गृहीत्वा उत्तमर्णाय दापयेत् इत्याह नारदः ॥ “ऋणिकः सधनो यस्तु दौरात्म्यान्न प्रयच्छति । राज्ञा दापयितव्यः स्यातगृहीत्वांशन्तु विंशकम्” ॥ * ॥ यदा अधमर्णिकः सकलमृणं दातुमसमर्थः शक्त्यनु- सारेण दत्त्वा पूर्ब्बकृतस्य लेख्यस्य पृष्ठेऽभिलिखेत् एतावद्दत्तं उत्तमर्णेन उपगतं प्राप्तमिति धनी तस्यैव लेख्यस्य पृष्ठे दद्यादभिलिखेत् इत्याह याज्ञवल्क्यः । “लेख्यस्य पृष्ठेऽभिलिखेत् दत्त्वा दत्त्वाधनं ऋणी । धनी चोपगतं दद्यात् स्वहस्तपरिचिह्नितम्” ॥ इति विवादार्णवसेतुः ॥