यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकचक्रम्, क्ली, (एकं चक्रं यस्य ।) पुरीविशेषः । तत्प- र्य्यायः । हरिगृहम् २ शुम्भपुरी ३ । इति त्रिकाण्ड- शेषः ॥ सूर्य्यरथः । त्रि, असहायचारी । यथा, ऋग्वेदे १ । १६४ । २ । “सप्त युञ्जन्ति रथमेकचक्र- मेकोऽश्वो वहति सप्तनामा । त्रिनाभिचक्रमजरमनर्व्वं यत्रेमा विश्वा भुवनाधितस्थुः” ॥ अत्र भाष्यकृता यद्व्याख्यातन्तदाह ।

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकचक्र¦ न॰ एकं श्रेष्ठं वा चक्रं यत्र।

१ हरिगृहे

२ सूर्य्यरथेपु॰।

३ पुरीभेदे स्त्री यत्र वकासुरस्य बधो भीमेन कृतः।
“एकचक्रोरथो यस्य” सूर्यस्तुतिः
“पृथुवर्त्तुलतन्नितम्बकृन्-मिहिरस्यन्दनशिल्पशिक्षया। विधिरेककचक्रचारिणं किमुनिर्मित्सति मान्मथं रथम्” नैष॰ सूर्यरथस्यैकचक्रचा-[Page1462-a+ 38] रित्वमुकम्”।

४ असहायचरे त्रि॰
“सूर्यरथवर्णनञ्च” ऋ॰

१ ,

१६

४ ,

२ ।
“सप्त युञ्चन्ति रथमेकचक्रमेकोऽश्वो वहतिसप्तनामा। त्रिनाभि चक्रमजरमनर्व्वं यत्रेमा विश्वाभुवनाधितस्थुः”। व्याख्यातैषा भाष्यकृता यथा(
“एकचक्रमेकरथाङ्गोपेतम्। यद्यपि त्रीणि चक्राणितथापि तेषामेकरूपत्वादेकचक्रमित्युच्यते रथं रंहणस्वभावंसृर्यस्य सम्बन्धिनं सप्तैतत्संख्यका अश्वा युञ्जन्ति अनु-बध्नन्ति वहन्त्यहोरात्रनिर्वाहाय किं वस्तुतः सप्त नेत्याह। एकोऽश्वः सप्तनामा। एक एव सप्ताभिधानः सप्तधा न-मनप्रकारो वा एक एव वायुः सप्तरूपं धृत्वा वहती-त्यर्थः वाय्वधीनत्वादन्तरिक्षसञ्चारस्य एकचक्रमित्युक्तंकीदृशं तदित्यत आह। त्रिनाभि बलयत्रयमध्यस्थि-तनाभिस्थानीयच्छिद्रत्रयोपेतम्। अजरम् अमरणधर्मा-कम्। अनर्वम् अशिथिलं पुनस्तदेव विशेष्यते। यत्रयस्मिंश्चक्रे इमा विश्वा भुवना इमानि प्रसिद्धानि सर्वाणिभूतजातान्यधि आश्रित्य तस्थुः तिष्ठन्ति। यद्वा एकचक्रमे-कचारिणमसाहाय्येन सञ्चरन्तं रथमादित्यमण्डलं सप्तयुञ्जन्ति सर्पणस्वभावाः सप्तसंख्या वा रश्मयः सप्तप्रकार-कार्य्या असाधारणाह् परस्परविलक्षणाः षडृतवः एकः-साधारण इत्येवं रूपाः अथवा मासद्वयात्मकाः षट् अपरोऽधिमासात्मक एक इत्येवं सप्तर्त्तवो युञ्जन्ति। एतस्य कार्यंनिर्वहन्तीत्यर्थः। स चैकोऽसहायोऽश्वो व्यापनशील आ-दित्यः सप्तनामा सप्तरसानां सन्नमयितारोरश्मयो यस्यतादृशः। सप्त ऋषिभिः स्तूयमानो वादित्यो वहति धार-यति भ्रमयतीत्यर्थः। किं भूतं? त्रिनाभि चक्रम्। तिस्रोनाभिस्थानीया सन्ध्यासम्बद्धा वा एव ऋतवो यस्य तत्तादृशंके ते ग्रीष्मवर्षाहेमन्ताख्याः यद्वा भूतभविष्यद्वर्त्तमाना-ख्यास्त्रयः कालास्त्रिनाभयः। तद्विशिष्टं चक्रं चक्रवत्पुनःपुनः परिभ्रममाणं संवत्सराख्यचक्रमजरममरणं नहि कदाचिदपि कालोम्रियते
“अनादिनिधनः कालः” इतिस्मृतेः। अर्नवमप्रतिहतम्। ईदृशं संवत्सराख्यं चक्रंनानाकालावयवोपेतमयमादित्यः पुनः पुनरावर्त्तयति सं-वत्सरादर्वाचीनानां तत्र वान्तर्भावात् युगादीनां तदावृत्तिसाध्यत्वात् संवत्सरस्य चक्रत्वेन रूपणम्। पुनः कीदृशंतत्। यत्र यस्मिंश्चक्र इमा विश्वा भुवना इमानि सर्वाणिभूतान्यधितस्थुः। आश्रित्य तिष्ठन्ति कालाधीनत्वात् सर्वस्याःस्थितेः। ईदृशस्य कालस्य कारणभूतपरमेश्वरपरिज्ञा-नेन मोक्षसद्भावात् ज्ञानमोक्षाक्षरप्रशंसा चेत्यनुक्रम-[Page1462-b+ 38] ण्यामुक्तम्। अयमपि मन्त्रो यास्कैन सप्त युञ्चन्ति रथ-मेकचक्रमेकचारिणमित्यादिना व्याख्यातः तदत्राप्यनु-सन्धेयम्” भा॰। भाष्येऽनुसन्धेयतयोक्तं यास्कवाक्यमुदाह्रियते
“सप्त युञ्ज-न्ति रथमेकचक्रमित्यादि” श्रुतिमधिकृत्योक्तम् सप्त युञ्जन्तिरथमेकचक्रमेकचारिणम्। चक्रं चकतेर्वा चरतेर्वा क्रा-मतेर्वा। एकोऽश्वो वहति सप्तनामादित्यः सप्तास्य र-श्मयो रसानभि संनामयन्ति सप्तैनमृषयः स्तुव-न्तीति वा। इदमपीतरं नामेतस्मादेवाभिसंनामात्। संवत्सरप्रधान उत्तरोऽर्धर्चः। त्रिनाभि चक्रं त्र्यृतुः सं-वत्सरो ग्रोष्मो वर्षा हेमन्त इति। संवत्सरः संवसन्तेऽस्मिन् भूतानि। ग्रीष्मोग्रस्यन्तेऽस्मिन्रसाः, वर्षा वर्षत्यासुपर्जन्यो हेमन्तो हिमवान् हिमं पुनर्हन्तेर्वा हिनोतेर्वा। अजरममरणधर्माणमनर्वमप्रत्यृतमन्यस्मिन् यत्रेमानिसर्वाणि भूतान्यभि संतिष्ठन्ते तं संवत्सरं सर्वमात्राभिःस्तौति।
“पञ्चारे चक्रे परिवर्त्तमानः” श्रुतिःपञ्चर्तु-तया।
“पञ्चर्तवः संवत्सरस्येति” इति च ब्राह्मणं हेमन्तशिशिरयोः समासेन।
“षडर आहुरर्पितमिति” श्रुतिःषडृतुतया। अराः प्रत्यृता नाभौ। षट्पुनः सहतेः।
“द्वादशारं नहि तज्जराय द्वादशप्रधयश्चक्रमेकम्” इतिश्रुतिः मासानाम्। मासा मानात्। प्रधिः प्रहितोभवति
“तस्मिन्त् साकं त्रिंशता न शङ्कवोऽर्पिताः षष्टिर्न चला-चलासः” श्रुतिः।
“षष्टिश्च हवै त्रोणि च शतानि संवत्-सरस्याहोरात्रा इति च” ब्राह्मणं समासेन।
“सप्त-शतानि विंशतिश्च तस्थुः” श्रुतिः।
“सप्त च वै शतानि विं-शतिश्च संवत्सरस्याहोरात्रा इति च” ब्राह्मणं विभागेन”

५ दनोः पुत्रभेदे पु॰
“चत्वारिंशद्दनोः पुत्राः” इत्युपक्रम्य
“एकपादेकचक्रश्च विरूपाक्षमहोदरौ” भा॰ अ॰

६५ । स एव प्रतिविन्ध्यतया जातः यथाह भा॰ आ॰

६७ ।
“एकचक्र इति ख्यात आसीद् यस्त महासुरः। प्रति-विन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ” भा॰ पुरीभेदस्तु
“एकचक्रां ततो गत्वा पाण्डवाः संशितव्रताः” इत्युपक्रम्य
“मात्रा सहैकचक्रायां ब्राह्मणस्य नि-वेशने। तत्राससाद क्षुधितं पुरुषादं वृकोदरः। भीम-सेनो महाबाहुर्वकं नाम महाबलम्” भा॰ आ॰

६१ अ॰उक्तः। एकमेव चक्रं सैन्यसंघो यत्र।

६ एकराजचिह्नेत्रि॰।
“तावत् शशास क्षितिमेकचक्रामेकातपत्रामजि-तेन पार्थः” भाग॰

३ ,

१ ,

६० ।
“एकस्यैव चक्रं सैन्यं[Page1463-a+ 38] यत्र” श्रीधरः।
“वकराक्षसमिव गृहीतैकचक्राम्” काद॰। वकस्य तत्पुरीग्रहणभीमकर्त्तृकबधकथा च” भा॰ आ॰

१५

७ अध्यायादौ।
“एकचक्रां गतास्ते तु कुन्तीपुत्राः महा-बला” इत्यादिना
“भज्यमानस्य भीमेन तस्य घोरस्यरक्षस” इत्यन्तन

१६

३ अ॰ वर्णिता।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकचक्र¦ m. (-क्रः) The name of a city: see हरिगृह। E. एक, चक्र a circle.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकचक्र/ एक--चक्र mf( आ)n. having one wheel (said of the sun's chariot) RV. i , 164 , 2 AV. ix , 9 , 2 ; x , 8 , 7

एकचक्र/ एक--चक्र mf( आ)n. possessing only one army , governed by one king (as the earth) BhP.

एकचक्र/ एक--चक्र m. N. of a दानवMBh. VP. etc.

एकचक्र/ एक--चक्र m. the state of being sole master , supremacy (of a king) Katha1s. xviii , 70.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Danu. भा. VI. 6. ३१; Br. III. 6. 7; M. 6. १९; वा. ६८. 7; Vi. I. २१. 5.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


EKACAKRA : A village where the Pāṇḍavas lived for some time during their exile. Bhīma killed Baka during their stay in a brahmin-house in the village. (See under Baka).


_______________________________
*5th word in left half of page 267 (+offset) in original book.

EKACAKRA : A famous demon born to Kaśyapaprajā- pati of his wife Danu. Demons Śaṁbara, Vipracitti, Namuci, Pulomā, Viśruta, Durjaya, Ayaśśiras, Aśvaśi- ras, Ketu, Vṛṣaparvā, Aśvagrīva, Virūpākṣa, Nikuṁbha, Kapaṭa and Ekapāt are brothers of Ekacakra and are equally famous. (Chapter 65, Ādi Parva, M.B.).


_______________________________
*6th word in left half of page 267 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=एकचक्र&oldid=493884" इत्यस्माद् प्रतिप्राप्तम्