यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदेश¦ पु॰ कर्म्म॰।

१ अवयवे, प्रतीके। अवयवश्च समु-दायस्यांशरूपः स च वास्तवोबुद्धिकल्पितश्च सावयवानांघटादीनामं शविशेषः ग्रीवामूलादिः वास्तवः, कालवियदा-दीनां निरयवानां तु बुद्धिकल्पितः यथा पूर्वाह्नः पूर्वरात्रइत्यादि। तथा गुणविशेषाणामपि शब्दादीनां वुद्धिकल्पितस्तथा
“एकदेशविकृतमनन्यवद्भवतीति” व्या॰ परिभाषा
“एकदेशन्तु वेदस्य वेदाङ्गान्यपि वा पुनः” मनुः शब्द-समूहात्मकवेदस्य बौद्धमेव तथात्वम्।
“सम्भोगहीनसम्पद्विटस्तु धूर्त्तः कलैकदेशज्ञः” सा॰ द॰। विद्याविशेषरूपक-[Page1472-a+ 38] लानां तथात्वम्।
“उदाहृतः सर्वथा ते गुणानां मयैकदेशःप्रसमीक्ष्यबुद्ध्या” भा॰ अनु॰

२६ अ॰ अत्रापि तथा।
“तान्ये-कदेशान्निभृतं पयोधेः” माघः
“शामित्रैकदेशमाहवनीये प्रा-स्यति” कात्या॰

२ ,

६ ,



४ । एकदेशशब्दश्च पूर्वापरमध्योत्तरादि-शब्दः तेन सहैकदेशिना षष्ठीसमासापवादकः रकदेशिस-मासः।
“पूर्वापरावरोत्तरमेकदेशिनैकाधिकरणे” पा॰
“सर्वो-ऽप्येकदेशः कालेन सह समस्यते” सि॰ कौ॰।
“उपारताःपश्चिमरात्रगोचरात्” किरा॰। एवं मध्यरात्र इत्या-दि। एकाधिकरणे इत्युक्तेः पूर्वश्छात्राणामित्यादौ न। तत्रार्द्धशब्दस्यैकदेशवाचकत्वेऽपि समांशवाचिन एवएकदेशिसमा॰ अर्द्धं पिप्पल्या इति वाक्ये अर्द्धपि-प्पलीत्यादि। असमांशवाचित्वे तु षष्ठीसमासः
“क्रोशार्द्धंस्तिमितजवेन गत्वा” रघुः। द्रव्यैक्य एव तेन पिप्पली-नामर्द्धमित्यादौ न किन्तु

६ त॰। एकदेशोऽस्त्यस्य इति। एकदेशिन् उक्तांशयुक्ते त्रि॰ स्त्रियां ङीप्।
“अमुमेव शब्द-माश्रित्य प्रवृत्तसमासस्य एकदेशिसमाससंज्ञा तत्र प्रमा-णम्।
“पूर्वापरेत्यादि” पा॰ सू॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदेश¦ m. (-शः) A part, a portion, a division. E. एक and देश place.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदेश/ एक--देश m. one spot or place , one passage , a certain spot or passage , some place MBh. Pan5cat. Sa1h. etc.

एकदेश/ एक--देश m. a part , portion or division of the whole Ka1tyS3r. Mn. etc.

एकदेश/ एक--देश m. one and the same place Kap.

एकदेश/ एक--देश mfn. being in the same place Ka1tyS3r. xvi , 7 , 17

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदेश पु.
(एकः देशः) भाग या अंश, क्षेत्र, स्थल, का.श्रौ.सू. 14.2.14 (तद्गुणाभावे सर्वेषाम् एकदेशोऽपि)।

"https://sa.wiktionary.org/w/index.php?title=एकदेश&oldid=477721" इत्यस्माद् प्रतिप्राप्तम्