एकपाद्
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एकपात्, [द्] पुं, (एकः पादो यस्य । संख्यासु पूर्ब्ब- स्येति अन्त्यलोपः ।) शिवः । इति त्रिकाण्डशेषः ॥ (रुद्रः । यथा, महाभारते सम्भवपर्ब्बणि १ । १२३ । ६५ । “अजैकपादहिव्रध्रः पिनाकी च परन्तपः” ॥ विष्णुः । यथा, विष्णुसंहितायाम् । “चतुरात्मा चतुर्भावश्चतुर्व्वेदविदेकपात्” ॥ एकः पादो यस्य इति विग्रहे वाच्यलिङ्गः ॥)
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एकपाद्¦ त्रि॰ एकः पादोऽस्य अन्त्यलोपः समा॰।
१ विष्णौ
“चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात्” विष्णु-सं॰।
“एकः पादोऽस्येत्येकपात् पादोऽस्य विश्वाभूतानीति” श्रुतेः
“विष्टभ्याहमिदं कृत्स्नकेकांशेन स्थितो जगत्” गीतोक्तेश्च” भा॰। परमेश्वराभिन्नत्वेन एकपादयुक्तत्वेन वा
२ शिवे च। स च रुद्रभेदः।
“अजैकपादहिर्बुध्नोविरू-पाक्षश्च रेवतः। हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः। रुद्राएकादश प्रोक्ता जयन्तश्चापराजितः” विष्णुध॰ अ-न्यनामानोऽपि रुद्राः सन्ति तुलादानादौत्वेत एव पूज्याः। अजेतिनामान्तरं तेन एकादशसं ख्यापूर्त्तिः अतएव वि-ष्णुध॰
“अजनामा महारुद्रः” इत्यादिना तद्ध्यानमु-क्तम्
“एकपादभिधो विप्र! क्ष्वेडादः स्याद्वहन् शरम्। चक्रं डमरुकं शूलं मुद्गरं तदधोवरम्। अक्षं सूत्रंमेखलावान् खट्वाङ्गवांश्च मस्तके। धनुर्घण्टां कपालञ्चकौमुदीं तर्ज्जनीघटम्। परशुं चक्रमाधत्ते क्रमा-द्वामाष्टके करे। अनेकभोगसम्पत्तिं कुरुते यज्वनःसदा” इति तत्रैव एकपदोध्यानान्तरमुक्तम्।
३ एकपादयुक्तेत्रि॰ स्त्रियां ङीषि पद्भावः एकपदीति भेदः एक-पदीशब्दे उदा॰।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एकपाद्¦ m. (-त्) A name of SIVA. E. एक best, and पाद् a ray.