यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकभक्त¦ न॰ एकं भक्तं भोजनं यत्र। स्मृत्युक्ते व्रतभेदे तत्स्व-रूपकालादिनिरूपणं कालमाधवीये यथा
“अथैभक्तनिर्णयः। ब्रह्मपुराणे वैश्वानरव्रते पठ्यते
“प्रतिपद्येकभक्ताशी समाप्ते कपिलाप्रदः” इति। तत्रादा-[Page1476-b+ 38] वेकभक्तव्रतं त्रिविधम स्वतन्त्रमन्याङ्गमुपवासप्रतिनिधि-रूपं चेति। तेष्विदानीमुदाहृतं स्वतन्त्रम्। तत्रेदंचिन्त्यते। किमुपवासवत् तिथिरस्मिन् ग्रहीतव्या? उतप्रकारान्तरेणेति?। उपवासवदिति तावत् प्राप्तम्
“दैवंपित्र्यं तथा कार्य्यम्” इति वचनेन उपवासैकभक्तादिकृत्-स्नदैवस्य विवक्षितत्वात्। न च कर्मकालव्याप्त्या तन्निर्ण-यैति शङ्कनीयम्। तत्कालस्य व्याप्त्यनिर्णीतत्वात्। किञ्च तन्निर्णये कर्मकालव्याप्तिवचनस्य पित्राविषय-त्वेनीपपत्तेः। तस्मादुपवासवत्तन्निर्णय इति प्राप्ते ब्रू-मः। कर्मकालव्याप्तिरेवात्र निर्णयहेतुः। कर्मकालस्त-त्कर्मस्वरूपं चेत्युभयं स्कन्दपुराणे दर्शितम्।
“दिनार्द्ध-समवेऽतीते भुज्यते नियमेन यत्। एकभक्तमिति प्रोक्तमतस्तत् स्यद्दिवैव हीति”। देवलीऽपि
“दिनार्द्धसमये-ऽतीते भुज्यते नियमेन यत्। एकभक्तं तु तत् प्रोक्तं न्यूनंग्रासत्रयेण त्विति”। अत्र च दिनार्द्ध स्योपरि सार्द्धमुहूर्त्त-परिमितीमुख्यः कालः पञ्चधा विभागे मध्याह्नस्यापरभागएकभक्तस्य कालः दिनार्द्धेऽतीते सति समनन्तरत्वात्। अस्तमयात् प्राचीनीऽवशिष्टोगौणः कालः दिवेत्यभ्यनुज्ञानात् एवंस्थिते सति मुख्यकालव्यापिनी तिथि-र्ग्रहीतव्या अतएव पद्मपुराणम्।
“मध्याह्नव्यापिनीग्राह्या एकभक्ते सदा तिथिरिति”। बौधायनोऽपि
“उदये तूपवासस्य नक्तस्यास्तमये तिथिः। मध्याह्नव्यापिनीग्राह्या एकभक्तव्रते तिथिरिति” नचात्रोपवासन्यायोयुक्तः तत्र पूर्वविद्वायामेव विशेषशास्त्रपर्य्यवसानात्। द्विविधं हि विशेषशास्त्रं तिथिप्रयुक्तमेकं कर्नप्रयुक्तमपरम्। तत्र
“पौर्वाह्लिकास्तु तिथयोदैव” इत्यनेन कर्मविषयेण सा-मान्यशास्त्रेणोत्तरविद्वायां प्राप्तायाम्
“उपोष्याः परसंयुक्ताःपराः पूर्ब्बेण संयुताः” इत्यनेन कर्मविषयेण विशेषशास्त्रेणपूर्वविहिततिथिविषये अपि सामान्यविशेषशास्त्रे उदास्येते
“पूर्वाह्णिकास्तु तिथय” इति तिथिमात्रमुपजीव्य प्रवृत्तत्वात्सामान्यशास्त्रम्
“प्रतिपत् सम्मुस्वी कार्येति” तिथिविशेषमुप-जीव्य प्रवृत्तत्वाद्विशेषशास्त्रम्। तथा सति द्विविधेनापिविशेषशास्त्रेण पूर्वविद्धायामेवोपवासः सुस्थितः। अत्र तु-मध्याह्नव्यापिनीत्येतत्कर्मविषयं विशेषशास्त्रम्। अत-स्तदनुसारेण निर्णयो युज्यते! ननु प्रतिपत्सम्मुखी का-र्य्येत्यनेन तिथिविषयेण विशेषशास्त्रेण कुतो न निर्णयइति चेत् उपवासविषयत्वेनापि तस्योपपत्तेरिति ब्रूमः। ननु मध्याह्नव्याप्तिवचनमपि तिथ्यन्तरैकभक्तविषयत्वेनोप-[Page1477-a+ 38] पादयितुं शक्यम् अतः कर्मविशेषशास्त्रतिथिविशेषशा-स्त्रयोः समानबलत्वमिति चेत् अस्तु नाम किं नश्छि-न्नं मध्याह्नव्यापित्वसंसुखत्वयोः पूर्वविद्वायामापादयितुंशक्यत्वेन विरोधाभावात्। यदा तूत्तरविद्वायामेव म-ध्याह्नव्यापित्व तदा विरोध इति चेत्। वाढम्। तथापि तिथिविषयविशेषशास्त्रात् कर्मविषयविशेषशास्त्रं प्रबलंमध्याह्नतिथेर्गुणत्वात् कर्मणश्च प्रधानत्वात्। तस्मादे-वंविधैर्विषयैः कर्मकालव्याप्त्यैव निर्णेतव्यम्। अत्र नि-र्णेतव्योविषयोभिद्यते। पूर्वेद्युरेव मध्याह्नव्यापि-त्वम् परेद्यरेव तद्व्यापित्वम्। उभयत्र तद्व्यापित्वम्उभयत्र तदव्यापित्वम् उभयत्र साम्येन तदेकदेशव्यापि-त्वम्। उभयत्र वैषम्येण तदेकदेशव्यापित्वं चेति। तत्रप्रथमद्वितीययोर्मध्याह्नव्यापित्वस्य निर्णायकत्वम्। तृती-ये पूर्वविद्वा ग्राह्या मुख्यकालव्याप्त्योः समत्वेऽपिगौणकालव्याप्नेरधिकत्वात्। अनेनैव न्यायेनोभयत्र मु-ख्यकालव्याप्त्यभावेऽपि गौणकालव्याप्तिलाभात्पूर्व्ववि-द्वैव। पञ्चमेऽप्ययमेव न्यायो योज्यः। षष्ठे तु यदा पूर्व्वे-द्युर्मध्याह्नैकदेशमधिकं व्याप्नोति तदाधिकगौणकाल-व्याप्तेश्च पूर्व्वेद्युर्ग्राह्या। यदा परेद्युर्मध्याह्नैकदेशम-धिकं व्याप्नोति तदा गौणकालव्याप्त्यभावेऽपि मुख्य-कालव्याप्त्याधिक्यानुसारेण परेद्युर्ग्राह्या! नन्वस्त्वेवंस्वतन्त्रैकभक्ते निर्णयः अन्याङ्गे तु कथम्?। तत्र का-नुपपत्तिः? इति चेत्।
“पूजाब्रतेषु सर्वत्र मध्याह्नव्यापिनीतिथि”।
“मध्याह्ने पूजयेन्नृपेत्यादि” शास्त्रैरङ्गिनः पूजा-देर्मध्याह्ने विहितत्वेनाङ्गस्यैकभक्तस्यापराह्णादौ मुख्य-कालासम्भवः। मा भूदीदृशविषये मुख्यःकालः। प्र-धानानुसारेण गुणस्य नेतव्यत्वात्। यदा स्वतन्त्रैकमक्तेऽपिकेनचिन्निमित्तेन मुख्यकालासम्भये गौणकालोऽभ्यनु-ज्ञायते तदा किमु वक्तव्यम् अन्याङ्गे। यत्तूपवासप्रतिनिधिरूपमेकभक्तं तदुपवासतिथौ कार्य्यं तस्य गौणेऽभ्यनुज्ञातत्वात्। अतएव सुमन्तुः
“तिथौ यत्रोपवासः स्यादेकमक्तेऽपि सा तथेति” नच तादृशमेव नास्तीति शङ्कनीयम्। उपवासब्रतं प्रक्रम्य रोगादिना तदशक्तौ गुर्व्वनुज्ञया-तस्यैकभक्तस्य सम्भावितत्वात्।
“अष्टौ तान्यव्रतघ्नानिआपोमूलं फलम्पयः! हविर्ब्राह्मणकाम्या च गुरोर्ववन-मौषधमिति” शास्त्रात्”।
“एकभक्तं न नक्तेन तथैवाया-चितेन च” या॰ एकस्मिन् नान्यस्मिन् भक्तः।

२ नि-तान्तभक्ते

३ अन्यस्मिन्नभक्ते च त्रि॰
“प्रौष्याम चैकभ-[Page1477-b+ 38] क्तासु” मनुः। एकभक्तासु अन्यानासक्तास्वारुद्धासु।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकभक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Attached to a common master.
2. Wor- shipping one deity.
3. Eating together.
4. Eating but one meal, (a day.) E. एक and भक्त attached to, or भक्त food.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकभक्त/ एक--भक्त mf( आ)n. devoted or faithful to only one (husband) , faithful Mn. viii , 363

एकभक्त/ एक--भक्त n. the eating only one meal (a day) Kaus3. Ya1jn5. iii , 319 MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=एकभक्त&oldid=250094" इत्यस्माद् प्रतिप्राप्तम्