यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकशफः, पुं, (एकः शफः खुरो यस्य । अखण्ड- खुरत्वात् तथात्वम् ।) घोटकः । इति त्रिकाण्ड- शेषः ॥ एकखुरजन्तुमात्रम् । यथा । “खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा । एते चैकशफाः क्षत्तः शृणु पञ्चनखान् पशून्” ॥ इति श्रीभागवतम् ॥ ३ । १० । २२ ॥ (अस्य दुग्ध- दधि-मूत्र-मांसादिगुणा अश्वशब्दे ऐकशफशब्दे च ज्ञातव्याः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकशफ¦ पु॰ एकं शफं खुरो यस्य। एकखुरयुक्ते खरादौते च
“खरोऽश्वोऽश्वतरो गारः शरभश्चमरी तथा। एते चै-कशफाः क्षत्तः! शृणु पञ्चनखान् पशून्” भा॰

३ ,

१० ,

२२ उक्ताः।
“अजाविकं चैकशफं न जातु विषमं भजेत्” मनुःअविक्रेयमध्ये
“मद्यं नीलीञ्च लाक्षाञ्च सर्वांश्चैकशफां-स्तथः” मनुः अभक्ष्यमध्ये
“अनिर्दिष्टांश्चैकशफान् टिट्टि-[Page1483-b+ 38] भञ्च विवर्जयेत्” मनुः
“कार्पासकीटजोर्ण्णानां द्विशफैकशफस्यच”
“एकशफो वा एष पशुर्यदश्वः” शत॰ ब्रा॰

७ ,

५ ,

२ ,

२३ ।
“इमं मा हिंसीरेकशफं पशुं कनिक्रदं वाजिनंवाजिनेषु” यजु॰



१३ ,

४८
“एकविंशत्यास्तुवतेकशफाः पश-वोऽसृज्यन्त वरुणोऽधिपतिरासीत्” यजु॰

१४ ,

३० ।
“एकबिंशत्यास्तुवतैभिः। दशहस्त्या अङ्गुल्यः दश पाद्याःआत्मैकविंशस्तेनैतदस्तुवतैकशफाः पशवोऽसृजनैकश-फाः पशवोऽत्रासृज्यन्त वरुणोऽधिपतिरासीत्” शत॰ ब्रा॰

८ ,

४ ,

१३ । एकशफमांसगुणाः
“वृंहणं मांस मौरभ्रंपित्तश्लेष्मावहं गुरु। मेदः पुच्छोद्भवं वृष्यमौरभ्र सदृशं गुणैः। औरभ्रवत्स लवणं मांसमेकशफोद्भवम्” सुश्रुते उक्ताः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकशफ¦ m. (-फः)
1. A horse.
2. Any animal whose hoof is not cloven. E. एक one, uniform, and शफ a hoof.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकशफ/ एक--शफ mfn. whole-hoofed , not cloven-hoofed , solidungulate VS. TS. etc.

एकशफ/ एक--शफ m. a whole-hoofed animal (as a horse etc. )

एकशफ/ एक--शफ n. the race of solidungulate animals AV. v , 31 , 3 S3Br. Mn. etc.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकशफ पु.
(एक.शफः यस्य सः) एक खुरवाला पशु, शां.श्रौ.सू. 7.18.4।

"https://sa.wiktionary.org/w/index.php?title=एकशफ&oldid=493953" इत्यस्माद् प्रतिप्राप्तम्