यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एला, स्त्री, (इल् + अच् + टाप् ।) फलवृक्षविशेषः । एलाचि इति भाषा । तत्पर्य्यायः । बहुलगन्धा २ ऐन्द्री ३ द्राविडी ४ कपोतपर्णी ५ बाला ६ बल- वती ७ हिमा ८ चन्द्रिका ९ सागरगामिनी १० गन्धालीगर्भः ११ एलीका १२ कायस्था १३ । इति राजनिर्घण्टः ॥ सा द्विविधा सूक्ष्मा । गुजराटी एलाचि इति भाषा । स्थूला च । वड एलाचि इति भाषा । आद्यायाः पर्य्यायः । उपकुञ्चिका १ तुत्था २ कोरङ्गी ३ त्रिपुटा ४ त्रुटिः ५ । इत्यमरः ॥ वयस्था ६ तीक्ष्णगन्धा ७ सूक्ष्मैला ८ त्रिपुटी ९ । इति रत्नमाला ॥ द्वितीयायाः पर्य्यायः । पृथ्वीका २ चन्द्रबाला ३ निष्कुटिः ४ बहुला ५ । इत्यमरः ॥ स्थूला ६ मालेया ७ ताडका- फलम् ८ । इति रत्नमाला ॥ एलाद्वयगुणाः । शीतलत्वम् । तिक्तत्वम् । उष्णत्वम् । सुगन्धित्वम् । पित्तरोगकफनाशित्वम् । हृद्रोगकारित्वम् । मला- र्त्तिवान्तिपुंस्त्वघ्नत्वम् । स्थविरस्य गुणाढ्यत्वञ्च । इति राजनिर्घण्टः ॥ अपिच । शूलकोष्ठबद्ध- तृष्णाच्छर्द्दिवायुनाशित्वम् । इति राजवल्लभः ॥ सूक्ष्मैलाविशेषगुणाः । कफश्वासकासार्शोमूत्र- कृच्छ्रनाशित्वम् । इति राजनिर्घण्टः ॥ (“एला स्थूला च बहुला पृथ्वीका त्रिपुटापि च” । इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एला स्त्री।

एला

समानार्थक:पृथ्वीका,चन्द्रबाला,एला,निष्कुटी,बहुला

2।4।125।1।3

पृथ्वीका चन्द्रवालैला निष्कुटिर्बहिलाथ सा। सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एला¦ स्त्री इल--अच्।

१ स्वनामख्यातलतायाम्। (एलाची)तद्भेदगुणादि भावप्र॰ उक्तम्।
“एला स्थूला च बहुलापृथ्वीका त्रिपुटापि च। भद्रैला वृहदेला च चन्द्रबाला चनिष्कुटी। स्थूलैला कटुका पाके रसे वानाहकृल्लघुः। [Page1540-b+ 38] रूक्षोष्णा श्लेष्मपित्तास्रकफश्वासतृषापहा। हृल्लासविषवस्त्यास्यशिरोरुग्वमिकासनुत्। सूक्ष्मैला कुञ्चिका तुच्छा कोरङ्गी द्राविडी गुटिः। एला सूक्ष्मा कफश्वासकासार्शोमूत्रकृच्छ्रहृत्। रसे तु कटुका शीता लघ्वी वातहरी मता”
“एलालतालिङ्गितचन्दनासु” रघुः। तस्याः फलम्अण् तस्य लुप् लुपि प्रकृतिलिङ्गत्वेन तत्फलेऽपि स्त्री।
“ससञ्जुरश्वक्षुण्णानामेलानामुत्पतिष्णवः” रघुः।
“सजनानयौ शरदशयतिरियमेला” वृ॰ र॰ उक्ते

२ पञ्चदशा-क्षरपादके छन्दोभेदे।

एला¦ विलासे कण्ड्वा॰ प॰ अक॰ सेट्। एलायति ऐलायीत्। एलायां बभूव आस चकार।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एला¦ f. (-ला) Cardamoms, the seed of the Eletteria cardamomum, or Alpinia Cardamomum: it applies to both the large and small cardamom, but most commonly to the former. E. इल् to send, &c. अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एला [ēlā], 1 Cardamom plant; एलानां फलरेणवः R.4.47, 6.64.

Cardamoms (the seed of the plant). -Comp. -पर्णी the plant Mimosa Octandra. (Mar. रास्ना, कोळिंजन).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एला f. any species of Cardamom Sus3r. Katha1s.

एला f. N. of a metre (consisting of four lines of fifteen syllables each)

एला f. N. of a river Hariv.

एला f. ( v.l. अर्ला.)

एला f. sport , pastime , merriness g. कण्ड्व्-आदिPa1n2. 3-1 , 27.

"https://sa.wiktionary.org/w/index.php?title=एला&oldid=251830" इत्यस्माद् प्रतिप्राप्तम्