यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐन्द्रियकम्, त्रि, (इन्द्रियेणानुभूयते । इन्द्रिय + वुञ् ।) प्रत्यक्षम् । इन्द्रियग्राह्यम् । इत्यमरः ॥ (व्याधिविशेषः । यथा, -- “मिथ्याभियोगहीनेभ्यो यो व्याधिरुपजायते । शब्दादीनां स विज्ञेयो व्याधिरैन्द्रियको बुधैः ॥ वेदनानामशान्तानामित्येते हेतवः स्मृताः । सुखहेतुर्मतस्त्वेकः समयोगः सुदुर्ल्लभः ॥ नेन्द्रियाणि न चैवार्थाः सुखदुःखस्य हेतवः । हेतुस्तु सुखदुःखस्य योगो दृष्टश्चतुर्व्विधः ॥ सन्तीन्द्रियाणि सन्त्यर्था योगो न च न चास्ति रुक् । न सुखं कारणं तस्मात् योगएव चतुर्व्विधः ॥ नात्मेन्द्रियमनोबुद्धिगोचरं कर्म्म वा विना । सुखं दुःखं यथा यच्च बोद्धव्यं तत्तथोच्यते ॥ स्पर्शनेन्द्रियसंस्पर्शः स्पर्शो मानस एव च । द्विविधः सुखदुःखानां वेदनानां प्रवर्त्तकः । इच्छा द्वेषात्मिका तृष्णा सुखदुःखात् प्रवर्त्तते ॥ तृष्णा च सुखदुःखानां कारणं पुनरुच्यते । उपादत्ते हि सा भावान् वेदनाश्रयसंज्ञकान् ॥ स्पृश्यते नानुपादाने न स्पृष्टो वेत्ति वेदनाः । वेदनानामधिष्ठानं मनो देहश्च सेन्द्रियः ॥ केशलोमनखाग्रान्नमलद्रवगुणैर्विना” । इति चरके शारीरे १ अः ॥)

"https://sa.wiktionary.org/w/index.php?title=ऐन्द्रियकम्&oldid=121320" इत्यस्माद् प्रतिप्राप्तम्