यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐश्वर्य्यम्, क्ली, (ईश्वरस्य भावः । ईश्वर + ष्यञ् ।) ईश्वरधर्म्मः । तत्पर्य्यायः । विभूतिः २ भूतिः ३ । स चाष्टविधो यथा । अणिमा १ लघिमा २ प्राप्तिः ३ प्राकाम्यम् ४ महिमा ५ ईशित्वम् ६ वशित्वम् ७ कामावशायिता ८ । इत्यमरः ॥ (“ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना” ॥ इति पुराणम् । “ऐश्वर्य्यमपि बुद्धिधर्म्मः यतो- ऽणिमादिप्रादुर्भावः” । इति वाचस्पतिमिश्रः । सम्पत्तिः । प्रभुत्वम् । नियन्तृत्वम् । यथा रघुवंशे । १२ । ६९ ॥ “तस्मै निशाचरैश्वर्य्यं प्रतिशुश्राव राघवः” ॥) इति ॥)

"https://sa.wiktionary.org/w/index.php?title=ऐश्वर्य्यम्&oldid=121374" इत्यस्माद् प्रतिप्राप्तम्