यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओजः, [स्] क्ली, (उब्जत्यनेन । उब्ज आर्जवे उब्जेर्बले “बलोपञ्च” ४ । १९१ । उणादिः असुन् । बलोपश्च । गुणः ।) दीप्तिः । अवष्टम्भः । प्रकाशः । बलम् । इति मेदिनी ॥ (यथा रघौ २ । ५४ । “रुद्रौजसा तु प्रहृतं त्वयास्याम्” । यथा च मा- नवे १ । १९ । “तेषामिदन्तु सप्तानां पुरुषाणां महौजसाम्” ॥) प्रथमतृतीयपञ्चमसप्तमनवमैकादशराशयः । इति ज्योविषम् ॥ गौडी रीतिः काव्यगुणः । तस्य लक्षणम् । बहुसमाससंयुक्तवर्णपदाडम्बरः । यथा, “ओजःप्रसादमाधुर्य्यगुणत्रितयभेदतः । गौडवैदर्भपञ्चालीरीतयः परिकीर्त्तिताः ॥ ओजः समासभूयस्त्वं मांसलं पदडम्बरम्” । तस्योदाहरणम् यथा, -- “गङ्गोत्तुङ्गतरङ्गसङ्गतजटाजूटाग्रजाग्रत्फणि- स्फुर्जत्स्फुत्कृतिभीतिसम्भृतचमत्कारस्फुरत्सम्भ्रमा । आनन्दामृतवापिकां विदधती चित्तं गिरीशप्रभो- स्त्वां पायान्नवसङ्गमे भगवती लज्जावती पार्ब्बती” ॥ इति काव्यचन्द्रिका ॥ * ॥ रसादिसप्तधातुसार- भागजधातुविशेषः । तस्य गुणाः । सर्व्वशरीरस्थि- तत्वम् । स्निग्धत्वम् । शीतलत्वम् । स्थिरत्वम् । शुक्लवर्णत्वम् । कफात्मकत्वम् । शरीरस्य बलपुष्टि- कारित्वञ्च ॥ “हृदि तिष्ठति यच्छुद्धं रक्तमीषत् सपीतकम् । ओजः शरीरे संजातं तन्नाशान्नाशमृच्छति ॥ भ्रमरैः फलपुष्पेभ्यो यथा संभ्रियते मधु । तद्वदोजः शरीरेभ्यो धातुः संभ्रियते नृणाम्” ॥ इति वैद्यकम् ॥ ओजोऽदन्तोऽपि । इति भरतः ॥ “हृदयं चेतनास्थानमोजसश्चाश्रयं मतम्” । इति पूर्ब्बखण्डे । ५ अ । शार्ड्गधरेणोक्तम् ॥ “तत्परस्यौजसः स्थानं तत्र चैतन्यसंग्रहः” ॥ “ओजोवहाः शरीरे वा विधम्यन्ते समन्ततः । येनौजसा वर्त्तयन्ति प्रीणिताः सर्व्वदेहिनः ॥ यदृते सर्व्वभूतानां जीवितं नावतिष्ठते । यत्सारमादौ गर्भस्य योऽसौ गर्भरसाद्रसः ॥ संवर्त्तमानं हृदयं समाविशति यत्पुरा । यस्य नाशान्न नाशोऽस्ति धारि यद्धदयाश्रितम् ॥ यच्छरीरबलं देहः प्राणा यत्र प्रतिष्ठिताः । तत्फला विविधा वाताः फलन्तीति महाफलाः ॥ ध्मानाद्धमन्यः स्रवणात् स्रोतांसि सरणात्सिराः ॥ तन्महत्ता महामूलास्तच्चौजः परिरक्षता । परिहार्य्या विशेषेण मनसा दुःखहेतवः ॥ हृद्यं यत्स्याद्यदौजस्यं स्रोतसां यत्प्रसादजम् । तत्तत्सेव्यं प्रयत्नेन प्रशमो ज्ञानमेव च” ॥ इति सूत्रस्थाने त्रिंशेऽध्याये चरकेणोक्तम् ॥ “गुरु शीतं मृदु श्लक्ष्णं बहुलं मधुरं स्थिरम् । प्रसन्नं पिच्छिलं स्निग्धं ओजो दशगुणं तथा” ॥ मद्यसेवनतोऽस्य ये गुणा नश्यन्ति तद्यथा ॥ “गुरुत्वं लाघवाच्छैत्यं चौष्ण्यमम्लस्वभावतः । माधुर्य्यं मार्द्दवं तैक्ष्ण्यात् प्रसादञ्चाशुभावनात् ॥ रौक्ष्यात् स्नेहं व्यवायित्वात् स्थिरत्वं श्लक्ष्णतामपि । विकासिभावात् पैच्छिल्यं वैशद्यं सान्द्रतान्तथा ॥ सौक्ष्म्यान्मद्यं विहन्त्येवमोजसः स्वगुणैर्गुणान्” । “रसधात्वादिमार्गाणां सत्त्ववद्ध्वीन्द्रियात्मनाम् । प्रधानस्यौजसश्चैव हृदयस्थानमुच्यते” ॥ “नैवं विघातं जनयेन्मद्यं पैष्टिकमोजसः । विकाश-रूक्ष-विशदा गुणास्तत्र हि नोल्वणाः” ॥ इति च चरके चिकित्सास्थाने । १२ अः ॥ “ओजः सोमात्मकं स्निग्धं शुक्लं शीतंस्थिरं सरम् । विविक्तं मृदु मृत्स्नञ्च प्राणायतनमुत्तमम् ॥ देहस्यावयवस्तेन व्याप्तो भवति देहिनाम् । तदभावाच्च शीर्य्यन्ते शरीराणि शरीरिणाम् ॥ अभिघातात् क्षयात्कोपाच्छोकाद्ध्यानाच्छ्रयात् क्षुधः । ओजः संक्षीयते ह्येभ्यो धातुग्रहणनिःसृतम् । तेजः समीरितं तस्माद्विभ्रंशयति देहिनः” ॥ इति सूत्रस्थाने । १५ अः । सुश्रुतेनोक्तम् ॥)

"https://sa.wiktionary.org/w/index.php?title=ओजः&oldid=121436" इत्यस्माद् प्रतिप्राप्तम्