ओजस्
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ओजः, [स्] क्ली, (उब्जत्यनेन । उब्ज आर्जवे उब्जेर्बले “बलोपञ्च” ४ । १९१ । उणादिः असुन् । बलोपश्च । गुणः ।) दीप्तिः । अवष्टम्भः । प्रकाशः । बलम् । इति मेदिनी ॥ (यथा रघौ २ । ५४ । “रुद्रौजसा तु प्रहृतं त्वयास्याम्” । यथा च मा- नवे १ । १९ । “तेषामिदन्तु सप्तानां पुरुषाणां महौजसाम्” ॥) प्रथमतृतीयपञ्चमसप्तमनवमैकादशराशयः । इति ज्योविषम् ॥ गौडी रीतिः काव्यगुणः । तस्य लक्षणम् । बहुसमाससंयुक्तवर्णपदाडम्बरः । यथा, “ओजःप्रसादमाधुर्य्यगुणत्रितयभेदतः । गौडवैदर्भपञ्चालीरीतयः परिकीर्त्तिताः ॥ ओजः समासभूयस्त्वं मांसलं पदडम्बरम्” । तस्योदाहरणम् यथा, -- “गङ्गोत्तुङ्गतरङ्गसङ्गतजटाजूटाग्रजाग्रत्फणि- स्फुर्जत्स्फुत्कृतिभीतिसम्भृतचमत्कारस्फुरत्सम्भ्रमा । आनन्दामृतवापिकां विदधती चित्तं गिरीशप्रभो- स्त्वां पायान्नवसङ्गमे भगवती लज्जावती पार्ब्बती” ॥ इति काव्यचन्द्रिका ॥ * ॥ रसादिसप्तधातुसार- भागजधातुविशेषः । तस्य गुणाः । सर्व्वशरीरस्थि- तत्वम् । स्निग्धत्वम् । शीतलत्वम् । स्थिरत्वम् । शुक्लवर्णत्वम् । कफात्मकत्वम् । शरीरस्य बलपुष्टि- कारित्वञ्च ॥ “हृदि तिष्ठति यच्छुद्धं रक्तमीषत् सपीतकम् । ओजः शरीरे संजातं तन्नाशान्नाशमृच्छति ॥ भ्रमरैः फलपुष्पेभ्यो यथा संभ्रियते मधु । तद्वदोजः शरीरेभ्यो धातुः संभ्रियते नृणाम्” ॥ इति वैद्यकम् ॥ ओजोऽदन्तोऽपि । इति भरतः ॥ “हृदयं चेतनास्थानमोजसश्चाश्रयं मतम्” । इति पूर्ब्बखण्डे । ५ अ । शार्ड्गधरेणोक्तम् ॥ “तत्परस्यौजसः स्थानं तत्र चैतन्यसंग्रहः” ॥ “ओजोवहाः शरीरे वा विधम्यन्ते समन्ततः । येनौजसा वर्त्तयन्ति प्रीणिताः सर्व्वदेहिनः ॥ यदृते सर्व्वभूतानां जीवितं नावतिष्ठते । यत्सारमादौ गर्भस्य योऽसौ गर्भरसाद्रसः ॥ संवर्त्तमानं हृदयं समाविशति यत्पुरा । यस्य नाशान्न नाशोऽस्ति धारि यद्धदयाश्रितम् ॥ यच्छरीरबलं देहः प्राणा यत्र प्रतिष्ठिताः । तत्फला विविधा वाताः फलन्तीति महाफलाः ॥ ध्मानाद्धमन्यः स्रवणात् स्रोतांसि सरणात्सिराः ॥ तन्महत्ता महामूलास्तच्चौजः परिरक्षता । परिहार्य्या विशेषेण मनसा दुःखहेतवः ॥ हृद्यं यत्स्याद्यदौजस्यं स्रोतसां यत्प्रसादजम् । तत्तत्सेव्यं प्रयत्नेन प्रशमो ज्ञानमेव च” ॥ इति सूत्रस्थाने त्रिंशेऽध्याये चरकेणोक्तम् ॥ “गुरु शीतं मृदु श्लक्ष्णं बहुलं मधुरं स्थिरम् । प्रसन्नं पिच्छिलं स्निग्धं ओजो दशगुणं तथा” ॥ मद्यसेवनतोऽस्य ये गुणा नश्यन्ति तद्यथा ॥ “गुरुत्वं लाघवाच्छैत्यं चौष्ण्यमम्लस्वभावतः । माधुर्य्यं मार्द्दवं तैक्ष्ण्यात् प्रसादञ्चाशुभावनात् ॥ रौक्ष्यात् स्नेहं व्यवायित्वात् स्थिरत्वं श्लक्ष्णतामपि । विकासिभावात् पैच्छिल्यं वैशद्यं सान्द्रतान्तथा ॥ सौक्ष्म्यान्मद्यं विहन्त्येवमोजसः स्वगुणैर्गुणान्” । “रसधात्वादिमार्गाणां सत्त्ववद्ध्वीन्द्रियात्मनाम् । प्रधानस्यौजसश्चैव हृदयस्थानमुच्यते” ॥ “नैवं विघातं जनयेन्मद्यं पैष्टिकमोजसः । विकाश-रूक्ष-विशदा गुणास्तत्र हि नोल्वणाः” ॥ इति च चरके चिकित्सास्थाने । १२ अः ॥ “ओजः सोमात्मकं स्निग्धं शुक्लं शीतंस्थिरं सरम् । विविक्तं मृदु मृत्स्नञ्च प्राणायतनमुत्तमम् ॥ देहस्यावयवस्तेन व्याप्तो भवति देहिनाम् । तदभावाच्च शीर्य्यन्ते शरीराणि शरीरिणाम् ॥ अभिघातात् क्षयात्कोपाच्छोकाद्ध्यानाच्छ्रयात् क्षुधः । ओजः संक्षीयते ह्येभ्यो धातुग्रहणनिःसृतम् । तेजः समीरितं तस्माद्विभ्रंशयति देहिनः” ॥ इति सूत्रस्थाने । १५ अः । सुश्रुतेनोक्तम् ॥)
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ओजस् नपुं।
प्रभा
समानार्थक:प्रभा,रुच्,रुचि,त्विष्,भा,भास्,छवि,द्युति,दीप्ति,रोचिस्,शोचिस्,वर्च,महस्,ओजस्,तेजस्
3।3।234।2।1
ओकः सद्माश्रयश्चौकाः पय: क्षीरं पयोम्बु च। ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये॥
वैशिष्ट्य : सूर्यः
: तडित्, किरणः, आतपः, ज्योत्स्ना
पदार्थ-विभागः : , द्रव्यम्, तेजः
ओजस् नपुं।
बलम्
समानार्थक:द्रविण,वीर्य,सार,सहस्,ओजस्,तेजस्
3।3।234।2।1
ओकः सद्माश्रयश्चौकाः पय: क्षीरं पयोम्बु च। ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये॥
वैशिष्ट्य : बलवान्
पदार्थ-विभागः : , गुणः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ओजस्¦ न॰ उब्ज--असुन् बलोपे गुणः।
१ दीप्तौ
२ अवष्टम्भे,
३ प्राणबले,
४ प्रकाशे,
५ सामर्थ्ये
६ ज्योतिबोक्ते प्रथमतृती-यादौ विषमराशौ,
७ शस्त्रादिकौशले
८ धातुतेजसिं,{??}वने-न्द्रिया{??}
९ पाटवे,
१० काव्यगुणभेदे,
११ गौ गा॰ रीत्याम्,[Page1556-a+ 38] वैद्यकोक्ते,
“भ्रमरैः फलपुष्पेभ्यो यथा सम्भ्रियते मधु। तद्वदोजः शरीरेभ्यो धातुभिर्भ्रियते नृणाम्” इति
१२ लक्षणेधातुरसपोषके वस्तुभेदे च। अच्। ओजशब्दोऽप्यत्र। ओजःस्वरूपं मिता॰ स्मृत्यन्तरे दर्शितं यथा।
“हृदि तिष्ठतियत् शुद्ध्वमीषदुष्णं सपीतकम्। ओजः शरीरे संख्यातंतन्नाशान्नाशमृच्छति”।
“पुनर्द्धात्रीं पुनर्गर्भमोजस्तस्य प्रधा-वति। अष्टमेमास्यतोगर्भोजातः प्राणैर्वियुज्यते” या॰ स्मृतिःसुश्रुते तु बलपर्य्यायत्वमस्वोक्त्वा तत्फलान्युक्तानि यथा
“बललक्षणं बलक्षयलक्षणमत ऊर्द्ध्वं वक्ष्यामः। तत्र रसा-दोनां शुक्रान्तानां धातूनां यत्परं तेजस्तत्स्वल्वोजस्तदेवबलमित्युच्यते स्वशास्त्रसिद्धान्तात्। तत्र बलेन स्थितीप-चितमांसता सर्व्वचेष्टास्वप्रतिघातः स्वरर्ण्णप्रसादो बाह्या-नामाभ्यन्तराणाञ्च करणानामात्मकार्य्यप्रतिपत्तिर्भवति। भवन्ति चात्र।
“ओजः सोमात्मकं स्निग्धं शुक्लं शीतंस्थिरं सरम्। विविक्तं मृदु मृत्स्नञ्च प्राणायतनमुत्त-म्। देहस्यावयवस्तेन व्याप्तो भवति देहिनान्। तदभा-वाच्च शीर्य्यन्ते शरीराणि शरीरिणाम्। अभिघातात्क्ष-यात्कोपाच्छोकाद्ध्यानात् श्रमात् क्षुधः। ओजः सङ्क्षीयतेह्मेभ्यो धातुग्रहणनिःसृतम्। तेजः समीरितं तस्माद्वि-स्रंसयति देहिनः। तस्य विस्रंसो व्यापत् क्षय इति लि-ङ्गानि व्यापन्नस्य भवन्ति। सन्धिविश्लेषो गात्राणां स-दनं दोषच्यबनं क्रियासन्निरोधश्च विस्रंसे। स्तब्धगुरुगा-त्रता वातशोथोवर्ण्णभेदो ग्लानिस्तन्द्रा निद्रा च व्यापन्ने। मूर्च्छा मांसक्षयो मोहः प्रलापो मरणमिति क्षये। भवन्ति चात्र।
“एते दोषा बलस्योक्ता व्यापद्विस्रंसन-क्षयाः। विश्लेषसादौ गात्राणां दोषविस्रंसनक्षयाः। अप्राचुर्य्यं क्रियाणाञ्च बलविस्रंसलक्षणम्। गुसत्वं स्त-ब्धताङ्गेषु ग्लानिर्व्वर्ण्णस्य भेदनम्। तन्द्रा निद्रा वातशोथौ बलव्यापदि लक्षणम्। मूर्च्छा मांसक्षयो मोहःप्रलापोऽज्ञानमेव च। पूर्व्वोक्तानि च लिङ्गानि मरणञ्चबलक्षये। तत्र विस्रंसे व्यापन्ने च क्रियाविशेषैरविरुद्धै-र्बलमास्थापयेत्। नष्टसंज्ञमितरञ्च वर्जयेत्”। (
“ओजः समाभूयस्त्वं मांसलं पदडम्बर” मित्युक्तलक्षणःकाव्य गुणभेदः। सा॰ द॰ तु
“रसस्याङ्गित्वमाप्तस्य धर्म्माःशौर्य्यादयो यथा। एवं माधुर्य्यमोजोऽथ प्रसाद इति ते” त्रिधा इति गुणान् विभज्य तत्तल्लक्षणमुक्तम्
“ओज-श्चित्तस्य विस्ताररूपं दीप्तत्वमुच्यते। वीरबीभत् स रौद्रेषुक्रमेणाधिक्य मस्य तु” इति। तद्व्यञ्जकवर्णादयश्च तत्रोक्ताः। [Page1556-b+ 38]
“वगस्याद्यतृतीयाभ्यां युक्तौ वर्ण्णौ तदन्तिमौ। उपर्य्यधोद्बयार्वा स्यात् रेफः टठडढैः सह शकारश्च षकारश्च तस्यव्यञ्जकताङ्गताः तथा समासबहुला घटनौद्धत्यशालिनी”
“रुद्रौजसा तु प्रहृतं त्वयाऽस्याम्” रघुः।
“महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुद”
“पुरुषाणां महौजसाम्”
“महात्मानो महौजसः” इति मनुः। अतस्तृतीयायाःकृतादौ अलुक्। ओजसाकृतम् तस्यापत्यम् इञ्। औज-साकृतिः तदपत्ये।
५ तद्विशिष्टे त्रि॰ ततः भृशा॰ अभू-ततद्भावे क्यङ् सलोपश्च।
“ओजायते औजायमानातस्यार्घ्यं प्रणीय जनकात्मजा” भट्टिः।
“ओजायमान-स्तन्वस्य शुम्भते” ऋ॰
१ ,
१४
० ,
६ ।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ओजस्¦ n. (-जः)
1. Light, splendor.
2. Manifestaion, appearance.
3. Strength.
4. Support, stay.
5. Metallic lustre.
6. Vitality, the principle of vital warmth and action diffused throughout the body.
7. Virility, the generative faculty.
8. A form of style, elabo- rate style, abounding with compounds.
9. (In astrology,) Each alternate sign of the zodiac, first, third, fifth, &c. E. ओज to live, and असुन् affix; or with अच् affix ओज।
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ओजस् [ōjas], n.
Bodily strength, vigour; energy, ability.
Vitality; Ms.1.16.
Virility, the generative faculty. The writers on Āyurveda, however, disstinguish between ओजस् and शुक्रम्; cf. क्षीरस्थघृतमिव भिन्न- मोजः शुक्रेण Ḍalhaṇa. रसादीनां शुक्रान्तानां धातूनां यत् परं तेजस्तत् खलु ओजः Sruśr. ओजोविवृद्धौ देहस्य तुष्टि-पुष्टिबलोदयाः Aṣṭāṅga.
Splendour, light; Bhāg.7.3.23.
(In Rhet.) An elaborate form of style, abundance of compounds; (considered by Daṇḍin to be the 'soul of prose'); ओजः समासभूयस्त्वमेतद्गद्यस्य जीवितम् Kāv.1.8; see K. P.8 also; said to be of 5 kinds in R. G.
(In Astr.) Each alternate sign of the zodiac (as the first, third &c.).
Water.
Metallic lustre.
Manifestation, appearance.
Skill in the use of weapons.
Speed; एष ह्यतिबलः सैन्ये रथेन पवनौजसा Rām.7.29.12.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ओजस् n. ( वज्, or उज्; See. उग्र) , bodily strength , vigour , energy , ability , power RV. AV. TS. AitBr. MBh. etc.
ओजस् n. vitality (the principle of vital warmth and action throughout the body) Sus3r. etc.
ओजस् n. (in rhet. )elaborate style (abounding with compounds)
ओजस् n. vigorous or emphatic expression Sa1h. Va1m.
ओजस् n. water L.
ओजस् n. light , splendour , lustre L.
ओजस् n. manifestation , appearance L.
ओजस् n. support L.
ओजस् m. N. of a यक्षBhP. ; ([ cf. Zd. avjan3h , " power " ; Gk. ? , ? , ? ; Lat. vige1re , augere , augur , augus-tus , auxilium ; Goth. aukan , Eng. eke.])
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--created by ब्रह्मा from his mouth. Vi. I. 5. ४८.
(II)--the यक्ष presiding over the month of माधव। भा. XII. ११. ३४.