यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओडवः, पुं, पञ्चस्वरयुक्तरागः । स तु ऋ-प-वर्ज्जितः । ष-ग-म-ध-नि-युक्तः । यथा मल्लारादयः । इति सं- गीतदामोदरः ॥ (यदुक्तं संगीतरत्नाकरे स्वरा- ध्याये जातिप्रकरणे । “वान्ति यान्त्युडवोऽत्रेति व्योमोक्तमुडवं बुधैः । पञ्चमं तच्च भूतेषु पञ्चसंख्या तदुद्भवा । ओडवी सास्ति येषाञ्च स्वरास्तेत्वोडवा मताः” ॥ “औडवा मताः” इति क्वचित् पाठः ॥ “उडवः नक्षत्राणि वान्ति यान्ति यस्मिन् इत्युडवं व्योम, तच्च भूतेषु पञ्चमम् । तेन पञ्चसङ्ख्या लक्ष्यन्ते । औडवी सङ्ख्या विद्यते येषां स्वराणां ते औडवाः पञ्चस्वराः” इत्यादिसिंहभूपालटीका ॥)

"https://sa.wiktionary.org/w/index.php?title=ओडवः&oldid=121442" इत्यस्माद् प्रतिप्राप्तम्