यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधिः, स्त्री, (ओषो धीयतेऽत्र । ओष + धा + कि ।) फलपाकान्तवृक्षादिः । कदली धान्यमि- त्यादिः । इत्यमरः ॥ (यदाह मनुः । १ । ४६ । “उद्भिज्जाः स्थावरा ज्ञेया वीजकाण्डाप्ररोहिणः । ओषध्यः फलपाकान्ताः बहुपुष्पफलोपगाः” ॥ तथा, कुमारे १ । १० । “भवन्ति यत्रौषधयो रजन्याम्” । तथा ७ । १ “अथौषधीनामधिपस्य वृद्धौ” । “ओषधयः प्रशुष्यन्ति गवादीनां पयां- सिच । इति हारीते प्रथमस्थाने ॥ ४ अध्याये ॥ “ओषधीर्नामरूपाभ्यां जानते ह्यजपा वने । अविपाश्चैव गोपाश्च ये चान्ये वनवासिनः ॥ न नामज्ञानमात्रेण रूपज्ञानेन वा पुनः । ओषधीनाम्पराम्प्राप्तिं कश्चिद्वेदितुमर्हति ॥ योगविन्नामरूपज्ञस्तासां तत्त्वविदुच्यते । किं पुनर्यो विजानीयादोषधीः सर्व्वथा भिषक् ॥ योगमासान्तु यो विद्याद्देशकालोपपादितम् । पुरुषं पुरुषं वीक्ष्य स विज्ञेयो भिषक्तमः” ॥ इति चरके सूत्रस्याने ॥ १ अध्याये ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओषधिः [ōṣadhiḥ] धी [dhī], धी f. [ओषः पाको धीयते अत्र-धा-कि Tv.]

A herb, plant (in general); ओषध्यः फलपाकान्ताः Ms.1.46; cf. संजीवन˚.

A medicinal plant or drug.

An annual plant or herb which dies after becoming ripe.-Comp. -ईशः, -गर्भः, -नाथः the moon (as presiding over and feeding plants); cf. पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः Bg.15.13; R.2.73; Ku.7.1; Ś.4.2.-ज a. produced from plants. (-जः) fire; ज्वलयतौषधिजेन कृशानना Ki.5.14.

धरः, पतिः a dealer in medicinal drugs.

a physician.

the moon; अमृतद्रवैर्विदधदब्ज- दृशामपमार्गमोषधिपतिः स्म करैः Śi.9.36 (where it means 'physician' also).

The Soma plant.

Camphor.-प्रस्थः the capital of Himālaya; तत्प्रयातौषधिप्रस्थं स्थितये हिमवत्पुरम् Ku.6.33,36. -वनस्पतिम् Herbs and trees.

"https://sa.wiktionary.org/w/index.php?title=ओषधिः&oldid=253414" इत्यस्माद् प्रतिप्राप्तम्