यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडवः, पुं, (औड्वी संख्या विद्यते यस्य स औडवः । यद्वा ओडव एव + स्वार्थे अण् ।) ओडवस्वरः । स च रागस्य जातिविशेषः । पञ्चस्वरमिश्रित- रागरागिण्य इति यावत् । यथा, -- “औडवः पञ्चभिः प्रोक्तः स्वरैः षड्भिस्तु षाडवः । सम्पूर्णा सप्तभिः प्रोक्ता रागजातिस्त्रिधा मता” ॥ इति सङ्गीतरत्नाकरः ॥ अपि च । सम्पूर्णस्वराः ष ऋ ग म प ध नि ॥ षाडवस्वराः निषादो- ञ्झिताः ष ऋ ग म प ध ॥ ओडवस्वराः ऋ-प- वर्जिताः ष ग म ध नि ॥ सम्पूर्णरागाः सप्तभिः स्वरैर्यथा । नटवसन्तादयः । षाडवरागाः षड्भिः स्वरैर्यथा । सैरिन्ध्रीप्रभृतयः । ओडवरागाः पञ्चभिः स्वरैर्यथा मल्लारादयः । इति सङ्गीत- दामोदरः ॥ (तथा च संङ्गीतरत्नाकरे स्वराध्याये जातिप्रकरणे । ५३ -- ५४ ॥ “वान्ति यान्त्युडवोऽत्रेति व्योमोक्तमुडवं बुधैः । पञ्चमं तच्च भूतेषु पञ्चसंख्या तदुद्भवा ॥ ओडवी सास्ति येषाञ्च स्वरास्ते त्वोडवा मताः । ते संजाता यत्र गीते तदौडवितमुच्यते ॥ तत्सम्बन्धादौडवञ्च पञ्चस्वरमिद विदुः” । “क्रमादल्पाल्पतरते षाडवौडवकारिणोः” ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडव¦ पु॰ ओडव + स्वार्थेऽण्।
“औडवः पञ्चभिः प्रोक्तःस्वरैः षड्डिस्तु षाडवः। सम्पूर्ण्णा सप्तभिः प्रोक्ता रागजातिस्तिधा मता” सङ्गीतरत्ना॰ उक्ते रागभेदे। स चभल्लारादिः इति संगीतदामोदरः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडव [auḍava], a. (-वी f.) [उडु-अण्] Belonging to stars; K.178. -वः A kind of Rāga (in Music). -वा A particular Rāgiṇī

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडव mf( ई)n. (fr. उडु) , relating to a constellation Ka1d.

औडव m. (in mus.) a mode which consists of five notes only

"https://sa.wiktionary.org/w/index.php?title=औडव&oldid=494196" इत्यस्माद् प्रतिप्राप्तम्