यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औडुम्बरः, पुं, चतुर्द्दशयमान्तर्गतयमविशेषः । इति मेदिनी ॥ मुनिविशेषः । यथा, -- “वैखानसा बालिखिल्यौडुम्बराः फेनपा वने । न्यासे कुटीचकः पूर्ब्बं बह्वोदो हंसनिष्क्रियौ” ॥ इति श्रीभागवते ३ । १२ । ४३ । “औडुम्बराः प्रातरुत्थाय यां दिशं प्रथमं पश्यन्ति तत आहृतैः फलादिभिर्जीवन्तः” । इति तट्टीकायां स्वामी ॥

"https://sa.wiktionary.org/w/index.php?title=औडुम्बरः&oldid=121560" इत्यस्माद् प्रतिप्राप्तम्