यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औदास्यम् क्ली, (उदास + ष्यञ् ।) उदासस्य भावः । वैराग्यम् । अनुरागादिशून्यता । यथा । “औदास्यसंविदवलम्बितशून्यमुद्रा- मस्मिन् दृशोः पतिततामवलोक्य भैम्याः” । इत्यादि नैषधम् ॥ “क्षौणीविलिखनहेतोर्वयमपि कुब्जाः किमौदास्यम्” । इति पद्यावली ॥

"https://sa.wiktionary.org/w/index.php?title=औदास्यम्&oldid=121600" इत्यस्माद् प्रतिप्राप्तम्