औपगवः
यन्त्रोपारोपितकोशांशः सम्पाद्यताम्
कल्पद्रुमः सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
औपगवः, पुं, उपगोरपत्यम् । इति भरतः ॥ उप समीपे गौर्य्यस्य इति उपगुर्गोपः । लक्षणया तत्पुरोहिते उपगुशब्दः । यथा हारीतः । “यं वर्णं याजयेद् यस्तु स तद्वर्णत्वमाप्नुयात् सद्योवर्षेण वर्षैश्चेत्वेवमेवाब्रवीद्भृगुः” ॥ * ॥ तथाच लक्षणया ब्राह्मण उपगुपदवाच्यः । तस्यापत्य- भौपगवः । इति श्रीभागवतटीकायां स्वामी । (उपगोरिदमिति व्युत्पत्त्या उपगुसम्बन्धिनि, त्रि- उपगु + “तस्येदम्” । ४ । ३ । १२० । इत्यण् ॥)