यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपम्यम्, क्ली, (उपमैव । चतुर्वर्णादित्वात् स्वार्थे ष्यञ् ।) सादृश्यम् । तत्पर्य्यायः । अनुकारः २ अनुंहारः ३ । साम्यम् ४ तुला ५ उपमा ६ कक्षः ७ उपमानम् ८ । इति हेमचन्द्रः ॥ (यथा, हितोपदेशे १ । ७३ ॥ “प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्व्वन्ति साधवः” ॥ “औपम्यं नाम यदन्येनान्यस्य सादृश्यमधिकृत्य प्रकाशनम् । यथा दण्डेन दण्डकस्य धनुषा धानु- ष्कस्येष्वासेनारोग्यदस्येति” । इति विमानस्थाने । ८ अध्याये ॥ चरकेणोक्तम् ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपम्यम् [aupamyam], [उपमा-ष्यञ्] Comparison, resemblance, analogy; आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः H.1.12; करका ˚सुभगः U.3.4. v. l.

"https://sa.wiktionary.org/w/index.php?title=औपम्यम्&oldid=254429" इत्यस्माद् प्रतिप्राप्तम्