यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसकारः, पुं, स्त्री, (कंसं तन्मयपात्रादिकं करोति यः । कंस + कृ + “कर्म्मण्यण्” । ३ । २ । १ । केचित्तु तालव्यशकारमिच्छन्त्यत्र ।) जातिविशेषः । का~- सारि इति भाषा ॥ तस्योत्पत्तिर्यथा । “वैश्यायां ब्राह्मणाज्जातः अम्बष्ठो गान्धिको बणिक् । कंसकारशङ्खकारौ ब्राह्मणात् सम्बभूवतुः” ॥ इति ष्टहद्धर्म्मपुराणम् ॥ अपि च । “विश्वकर्म्मा च शूद्रायां वीर्य्याधानं चकार सः । ततो बभूवुः पुत्त्राश्च षडेते शिल्पकारिणः ॥ मालाकरः कर्म्मकारः शङ्खकारः कुविन्दकः । कुम्भकारः कंसकारः षडेते शिल्पिनो नराः” ॥ इति ब्रह्मवैवर्त्तपुराणम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसकार¦ पु॰ कंसं तन्मयपात्रं करोति कृ--अण् उप॰ स॰। (कांसारि) वर्णसङ्करजातिभेदे
“वैश्यायां ब्राह्मणाज्जातोह्यम्बष्ठो गान्धिकोबणिक्। कंसकारशङ्खकारौ ब्राह्मणात् संब-भूवतुः” दृह॰ पु॰। तेनैतस्याम्बष्ठवत् द्विजसंस्कार इति किन्तुसा जातिर्देशान्तरे प्रसिद्धा। गौडदेशवासिनस्तु शूद्राः।
“विश्वकर्म्मा च शूद्रायां वीर्य्याधानं चकार सः। ततो[Page1604-a+ 38] बभूवुः पुत्राश्च षडेते शिल्पकारिणः। मालाकारः कर्म्मकारः शङ्खकारः कुविन्दकः। कुम्भकारः कंसकारःषडेते शिल्पिनोवराः” ब्रह्मवै॰ पु॰ तेनास्य शूद्राजातत्वात्
“मातृवद्वर्णसंङ्कराः” इत्युक्तेः शूद्रत्वम्। उशनसा तुतस्य प्रतिलोमवर्ण्णसङ्करत्वमुक्तम्।
“नृपायां वैश्यसंसर्गात्आयोगव इति स्मृतः। तन्तुवायो भवन्त्येते वस्त्रकांस्योप-जीविनः। शिल्पिकाः केचिदत्रैव जीवनं वस्त्रनिर्म्मितम्। आयोगवेन विप्रायां जातास्ताम्रोपजीविनः”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसकार¦ m. (-रः) A worker in pewter or white brass. E. कंस and कार who makes.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसकार/ कंस--कार m. a worker in white copper or brass , bell-founder (considered as one of the mixed castes) BrahmaP.

"https://sa.wiktionary.org/w/index.php?title=कंसकार&oldid=255219" इत्यस्माद् प्रतिप्राप्तम्