यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद्मान् [त्] पुं, (ककुदस्यास्तीति । मतुप् इति “मादुपधायाश्च मतो र्वो यवादिभ्यः” । ८ । २ । ९ । न मस्य वकारत्वम् ।) वृषः । इति हेमचन्द्रः ॥ (यथा, कुमारे । १ । ५६ । “तुषारसंघातशिलाः खुराग्रैः समुल्लिखन् दर्पकलः ककुद्मान्” ॥) पर्व्वतः । इत्यमरटीकायां स्वामी ॥ (यथा, विष्णुपुराणे २ । ४ । २७ । “ककुद्मान् पर्ब्बतबरः सरिन्नामानि मे शृणु” ॥) ऋषभौषधम् । इति राजनिर्घण्टः ॥ अत्र क्वचिदप- वादविषयेऽप्युत्सर्गोऽभिनिविशते इति न्यायात् वतुप्राप्तौ मतुप्रत्ययः ॥ इति मुग्धबोधमतम् ॥ (ऊर्म्मिः । यथा, यजुर्व्वेदे । ९ । ६ । “ऊर्म्मिः प्रतूर्त्तिः ककुद्मान्” ॥)

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Mt. of शाल्मलिद्वीप noted for pre- cious gems rained by वासव; a hill containing medicinal herbs, on the N. W. of the कैलास. Br. II. १९. ४१-2; M. १२१. १४; वा. ४९. ३८; Vi. II. 4. २७.
(II)--Mt. in कुशद्वीप. M. १२२. ६०.
"https://sa.wiktionary.org/w/index.php?title=ककुद्मान्&oldid=427133" इत्यस्माद् प्रतिप्राप्तम्