कङ्कुष्ठ
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कङ्कुष्ठम्, क्ली, (कङ्कुस्तृणविशेषः तस्य समीपे तिष्ठति । कङ्कु + स्था + क + षत्वम् ।) पर्ब्बतीयमृत्तिकावि- शेषः । तत्पर्य्यायः । कालकुष्टम् २ विरङ्गम् ३ रङ्गदायकम् ४ रेचकम् ५ पुलकम् ६ शोधकम् ७ कालपालकम् ८ । तद्द्विधा रजताभं स्वर्णाभञ्च । अस्य गुणाः । कटुत्वम् । उष्णत्वम् । कफवातव्रण- शूलनाशित्वम् । रेचकत्वञ्च । इति राजनिर्घण्टः ॥ अपिच । “पीतप्रभं गुरु स्निग्धं श्रेष्ठं कङ्कुष्ठमादिमम् । श्यामं पीतं लघु त्यक्तसत्त्वं नेष्टं हि रेणुकम्” ॥ (इदञ्च हिमालयशिखरे जायते । यदुक्तं-- “हिमवत् पादशिखरे कङ्कुष्ठमुपजायते । तत्रैकं नालिकाख्यं स्यात्तदन्य द्रेणुकं स्मृतम्” ॥ “कङ्कुष्ठं रेचनं तिक्तं कटूष्णं वर्णकारकम् । कृमिशोथोदराध्मानगुल्मानाह कथापहम्” ॥)
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कङ्कु(ङ्गु)ष्ठ¦ न॰ कङ्कुः तृणभेदः तत्र तत्समीपे तिष्ठतिस्था--क षत्वम्। पर्व्वतीयमृत्तिकाभेदे।
“हिमवत्-पादशिखरे कङ्कु(ङ्गु)ष्ठंनाम जायते। तत्रैकं नलि-काख्यंस्यात्तदन्यद्रेणुकं स्मृतम्। पीतप्रभं गुरु स्निग्धंतत्र श्रेष्ठं च रेणुकम्। कङ्कु(ङ्गु)ष्ठं रेचनं तिक्तं कटूष्णंवर्ण्णकारकम्। कृमिशोथोदराध्मानगुल्मानाहकफा-पहम्” भावप्र॰ अत्रपृषो॰ कस्य गः कङ्गुष्ठमपि।
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कङ्कुष्ठ m. a medicinal earth (described as of two colours , one of silvery and one of a gold colour , or one of a light and one of a dark yellow) Sus3r.