यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कुष्ठम्, क्ली, (कङ्कुस्तृणविशेषः तस्य समीपे तिष्ठति । कङ्कु + स्था + क + षत्वम् ।) पर्ब्बतीयमृत्तिकावि- शेषः । तत्पर्य्यायः । कालकुष्टम् २ विरङ्गम् ३ रङ्गदायकम् ४ रेचकम् ५ पुलकम् ६ शोधकम् ७ कालपालकम् ८ । तद्द्विधा रजताभं स्वर्णाभञ्च । अस्य गुणाः । कटुत्वम् । उष्णत्वम् । कफवातव्रण- शूलनाशित्वम् । रेचकत्वञ्च । इति राजनिर्घण्टः ॥ अपिच । “पीतप्रभं गुरु स्निग्धं श्रेष्ठं कङ्कुष्ठमादिमम् । श्यामं पीतं लघु त्यक्तसत्त्वं नेष्टं हि रेणुकम्” ॥ (इदञ्च हिमालयशिखरे जायते । यदुक्तं-- “हिमवत् पादशिखरे कङ्कुष्ठमुपजायते । तत्रैकं नालिकाख्यं स्यात्तदन्य द्रेणुकं स्मृतम्” ॥ “कङ्कुष्ठं रेचनं तिक्तं कटूष्णं वर्णकारकम् । कृमिशोथोदराध्मानगुल्मानाह कथापहम्” ॥)

"https://sa.wiktionary.org/w/index.php?title=कङ्कुष्ठम्&oldid=121972" इत्यस्माद् प्रतिप्राप्तम्