यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठः, पुं, (कठि + अच् + इदित्वात् नुम् ।) मदन- वृक्षः । इति मेदिनी ॥ होमकुण्डाद्वहिरङ्गुलि- परिमितस्थानम् । यथा, -- “खाताद्वाह्येऽङ्गुलः कण्ठः सर्व्वकुण्डेष्वयं विधिः” ॥ इति तिथ्यादितत्त्वम् ॥ (कण्शब्द “कणेष्ठः” । इति ठः । उणं १ । १०५ ।) ग्रीवापुरोभागः ॥ तत्पर्य्यायः । गलः २ । इत्यमरः । २ । ६ । ८८ ॥ (यथा, शाकुन्तले । १ म अङ्के । “विकचसरसिजायाः स्तोकनिर्मुक्तकण्ठं निजमिवकमलिन्याः कर्क्कशंवृन्तजालम्” ॥) अत्र विशुद्धनामषोडशदलपद्ममस्ति । यथा, -- “तदूर्द्ध्वन्तु विशुद्धाख्यं दलषोडशपङ्कजम् । स्वरैः षोडशभिर्युक्तं धूमवर्णैर्महाप्रभम् ॥ विशुद्धपद्ममाख्यातमाकाशाख्यं महाद्भुतम्” ॥ इति गौतमतन्त्रम् ॥ निकटः । ध्वनिः । इति मेदिनी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठ वि।

ग्रीवाग्रभागः

समानार्थक:कण्ठ,गल

2।6।88।1।1

कण्ठो गलोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि। कम्बुग्रीवा त्रिरेखा सावटुर्घाटा कृकाटिका॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठ¦ पु॰ कण--ठ ठस्य नेत्त्वम् कठि--अच् वा।

१ ग्रीवापुरोभागेगले
“मनोरथः कण्ठपथं कथं सः” नैष॰। नीलकण्ठः शि-तिकण्ठः कालकण्ठः।
“सबाष्पकण्ठस्खलितैः पदैरियम्”।
“असत्यकण्ठार्पितबाहुबन्धना” कुमा॰।
“कण्ठाश्लेषप्र-णयिनि जने किं पुनर्दूरसंस्थे” मेघ॰।
“कण्ठं ते कुण्ठ-यिष्यामि” नैष॰ कण्ठदेशे च सुषुम्णानाडीमध्यस्थषट्चक्रान्तर्गतं विशुद्धाख्यं चक्रमस्ति।
“तदूर्द्धन्तु विशुद्धा-ख्यं दलषोडशपद्मकम्। स्वरैः षोडशभिर्युक्तं धूमवर्णेर्म-हाप्रभम्। विशुद्धतखमाख्यातमाकाशाख्यं महाद्भुतम्” गौत॰ त॰। विशुद्धचक्रे विवृतिः।

२ मदनवृक्षे,

३ समीपे

४ होमकुण्डाद्बाह्येऽङ्गुलिमितस्थाने च
“खातबाह्येऽङ्गुलकण्ठः सर्कुण्डेष्वयं क्रमः” ति॰ पु॰ त॰।

५ कण्ठध्वनौ

६ ध्वनि[Page1630-a+ 38] मात्रे च हेमच॰।
“सा मुक्तकण्ठं, व्यसनातिभारात्” रघुःमुक्तकण्ठध्यनि यथा तथेत्यर्थः। अस्य स्वाङ्गत्वेन उपसर्ज्जनत्वेसंयोगोपधत्वेऽपि ङीष्। किमिदं किन्नरकण्ठि! सुप्यते” रवुः। स्वरद्वारा किन्नरकण्ठसाम्यम्।
“ऊर्द्ध्ववि-स्तृतदोः पाणिनृमाने पौरुषं त्रिषु। कण्ठोगलो-ऽथऽइत्यमरे त्रिष्विति पदस्य उत्तरान्वयभ्रमेण शब्द-कल्पद्रुमादौ कण्ठशब्दस्य त्रिलिङ्गित्वोक्तिः प्रामादिको।
“पौरुषं पुरुषस्याथ भावे कर्मणि तेजसि। ऊर्द्ध्ववि-स्तृतदोःपाणिमाने स्यादभिधेयवत्” मेदिन्यां मान-भेदे पौरुषशब्दस्यैव वाच्यलिङ्गत्वोक्तेस्तदेकवाक्यतया पौ-रुषशब्दस्यैव त्रिलिङ्गत्वं युक्तं न तु तस्य कण्ठान्वयि-त्वम्। युक्तञ्चैतत् पुरुषः प्रमाणमस्येत्यर्थेपुरुषहस्तिभ्यामण्चेति” पा॰ सूत्रे विहिताणन्ततया अस्येति वाक्यबोधितलिङ्गत्वमिति।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठ¦ mfn. (-ण्ठः-ण्ठा or -ण्ठी-ण्ठं)
1. The throat.
2. Sound, especially gut- tural sound.
3. Near, proximate. m. (-ण्ठः)
1. A tree, (Vangueria spinosa.)
2. The space of an inch from the edge of the hole in which sacrificial fire is deposited f. (-ण्ठी)
1. A rope or leather round the neck of a horse.
2. A necklace, a collar. E. कण् to sound, ठ Unadi affix, fem. affix टाप् or ङीप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठः [kaṇṭhḥ] ण्ठम् [ṇṭham], ण्ठम् 1 Throat; कण्ठे निपीडयन् मारयति Mk.8. कण्ठः स्तम्भितबाष्पवृत्तिकलुषः Ś.4.6; कण्ठेषु स्खलितं गते$पि शिशिरे पुंस्कोकिलानां रुतम् 6.4.

The neck; अयं कण्ठे बाहुः U.1. कण्ठाश्लेषपरिग्रहे शिथिलता Pt.4.6; कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे Me.3,99,114; Amaru.19.57; Ku.5.57.

Sound, tone, voice; सा मुक्तकण्ठं चक्रन्द R.14.68; किमिदं किन्नरकण्ठि सुप्यते 8.64; आर्यपुत्रो$पि प्रमुक्तकण्ठं रोदिति U.3.

The neck or brim of a vessel &c.

Vicinity, immediate proximity (as in उपकण्ठ).

The opening of the womb.

A bud on a stalk.

The space of an inch from the edge of the hole in which sacrificial fire is deposited.

The मदन tree.

Guttural sound.-Comp. -अग्निः a bird (digesting in the throat or gizzard). -अवसक्त a. clinging to the neck. -आगत a. come to the throat (as the breath or soul of a dying person). -आभरणम् a neck-ornament, necklace; परि- क्षितं काव्यसुवर्णमेतल्लोकस्य कण्ठाभरणत्वमेतु Vikr.1.24; cf. names like सरस्वतीकण्ठाभरण. -आश्लेषः Neck-embrace; Me.3; कण्ठाश्लेषपरिग्रहे शिथिलता Pt.4.6; ˚उपगूढ Bh.3.28.-उक्ताम् personal testimony. -कुब्जः a kind of fever.-कूणिका the Indian lute. -ग a. reaching or extending to the throat; हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः Ms.2.62. -गत a.

being at or in the throat, coming to the throat; i. e. on the point of departing; न वदेद्यावनीं भाषां प्राणैः कण्ठगतैरपि Subhāṣ; Pt.1.296.

approaching or reaching the throat.-तटः, -तटम्, -टी the side of the neck. -तला- सिका the leather or rope passing round the neck of a horse. -त्रः A necklace; शुक्लकेयूरकण्ठत्राः Mb.5. 143.39. -दघ्न a. reaching to the neck. -नालम् Stalklike throat, a throat, neck; कण्ठनालादपातयत् R.15.52. also. -नाली, -नडिकः a kite. -नीलकः a large lamp or torch, a whisp of lighted straw &c. (Mar. मशाल).

पाशः, पाशकः a rope tied round an elephant's neck.

a halter in general. -बन्धः a rope for an elephant's neck. -भूषणम्, -भूषा a short necklace; विदुषां कण्ठभूषात्वमेतु Vikr.18.12. -भङ्गः Stammering.

मणिः a jewel worn on the neck.

(fig.) a dear or beloved object.

Thyroid Cartilage. -रोधम् Stopping or lowering the voice. -लग्न a.

clinging to the throat.

suspended round the neck.

throwing the arms round the neck (in embraces); कण्ठेलग्ना.

लता a collar.

a horse's halter. -वर्तिन् a. being at or in the throat, i. e. on the point of departing; ˚प्राणैः R. 12.54. -शालुकम् a hard tumour in the throat. -शुण्डी swelling of the tonsils. -शोषः (lit.)

drying up or parching of the throat.

(fig.) fruitless expostulation. -सज्जनम् hanging on, by, or round the neck.-सूत्रम् a kind of embrace; (thus defined: यत्कुर्वते वक्षसि वल्लभस्य स्तनाभिघातं निबिडोपगृहात् । परिश्रमार्थं शनकैर्विदग्धा- स्तत्कण्ठसूत्रं प्रवदन्ति सन्तः ॥); कण्ठसूत्रमपदिश्य योषितः R.19.32.-स्थ a.

being in the throat.

guttural (as a letter).

being in the mouth, ready to be repeated by rote.

learnt and ready to be repeated.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठ m. ( कण्Un2. i , 105 ), the throat , the neck(See. आ-कण्ठ-तृप्त; कण्ठेग्रह्, to embrace Katha1s. )

कण्ठ m. the voice(See. सन्न-कण्ठ) MBh. BhP. etc.

कण्ठ m. sound , especially guttural sound W.

कण्ठ m. the neck (of a pitcher or jar) , the narrowest part( e.g. of the womb ; of a hole in which sacrificial fire is deposited ; of a stalk etc. ) Sus3r. Hcat. Katha1s. etc.

कण्ठ m. immediate proximity Pan5cat.

कण्ठ m. Vanguiera Spinosa L.

कण्ठ m. N. of a महर्षिR.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of अजमीढ and केशिनी; father of मेधातिथि. वा. ९९. १६९-170.
(II)--a son of Dhurya. वा. ९९. १३०.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कण्ठ पु.
गला, ‘कण्ठं वा अवकृत्य स्थाल्यां मेधस्रावणम्’, का.श्रौ.सू. 25.1०.6; अहितागिन् की अन्त्येष्टि की क्रियाओं में; अगिन्होत्र के लिए अभिप्रेत कलछी को मृत अहितागिन् के गले पर रख देते हैं, शां.श्रौ.सू. 4.14.21।

"https://sa.wiktionary.org/w/index.php?title=कण्ठ&oldid=494555" इत्यस्माद् प्रतिप्राप्तम्