यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करणम्, क्ली, (क्रियतेऽनेन । कृ + करणे + ल्युट् ।) साधकतमम् । इत्यमरः । ३ । ३ । ५४ ॥ तत्तु षट्कारकन्तर्गतकारकविशेषः । तस्य लक्षणम् । “क्रियायां साध्यायां बहूनां कारणानां मध्ये कार- णान्तरव्यवधानाभावे यद्वस्तु क्रियानिष्पत्तिकारणं विवक्षितं तस्मिन् करणत्वं प्रकीर्त्तितम् । तेन दात्रेण धान्यं लुनातीत्यत्र हस्तादेः कारणत्वेऽपि दात्रस्यैव करणत्वं विवक्षितम् ॥ तथाचोक्तम् । “कारणाव्यवधानेऽपि क्रिया निष्पत्तिकारणम् । यद्वै विवक्षितं तेषु करणत्वं प्रकीर्त्तितम्” ॥ इति मुग्धबोधटीकायां दुर्गादासः ॥ * ॥ तिथ्यर्द्ध- परिमितववाद्येकादशसंज्ञककालविशेषः । तेषां नामानि । ववः १ वालवः २ कौलवः ३ तैतिलः ४ गरः ५ बणिजः ६ विष्टिः ७ शकुनिः ८ चतुष्पदः ९ किन्तुघ्नः १० नागः ११ । तेषां यथाक्रमेणा- धिष्ठातृदेवाः । इन्द्रः १ कमलजः २ मित्रः ३ अर्य्यमा ४ भूः ५ श्रीः ६ यमः ७ कलिः ८ वृषः ९ फणी १० मारुतः ११ । एकैकस्मिन् तिथौ द्वे द्वे करणे भवतः । तेषां ववादयः सप्त अष्टा- वृत्त्या शुक्लप्रतिपच्छेषार्द्धमारभ्य कृष्णपक्षीयचतु- र्द्दशीप्रथमार्द्धपर्य्यन्तं भवन्ति । शेषाश्चत्वारः कृ- ष्णचतुर्द्दशीशेषार्द्धावधिशुक्लप्रतिपत्प्रथमार्द्धपूर्य्यन्तं नियमेन भवन्ति अतो ध्रुवाणि करणानि । पूर्ब्बे सप्ताध्रुवाणि ॥ तेषामानयनक्रमो यथा । “तिथिर्द्विघ्ना करोनागशिष्टाकरणमादिमे । परे दले तु सैकं तत्करणं ववपूर्ब्बकम्” ॥ इति ज्योतिषम् ॥ * ॥ क्षेत्रम् । गात्रम् । इन्द्रि- यम् । इत्यमरः । ३ । ३ । ५४ ॥ (यथा गीतायां १८ । १४ । “अधिष्ठानं तथाकर्त्ता करणञ्च पृथग्विधम्” ॥) हेतुः । कर्म्म । हस्तलेपः । नृत्यप्रभेदः । गीतवि- शेषः । (तले व्यवस्थापकस्ताडनविशेषः । यदुक्तं राजकन्दर्पेण । “नृत्यवादित्रगीतानां प्रयोगवशभेदिनां । संस्थानं ताडनं रोधः करणानि प्रचक्षते” ॥ अस्य प्रमाणं यथा कुमारे ६ । ४० । “शिखरासक्तमेघानां व्यज्यस्ते यत्र वेश्मनाम् । अनुगर्जितसन्दिग्धाः करणैर्मुरजस्वनाः” ॥) क्रियाभेदः । संवेशनम् । कायस्थः । इति मेदिनी ॥ कायस्थसंहतिः ॥ वर्णानां स्पष्टतादि । योगिना- मासनादि । कृतादि । इति हेमचन्द्रः ॥ (सर्व्वेषा- मादिकारणत्वात् विष्णुः । यथा, महाभारते १३ । १४९ । ५४ । “करणं कारणं कर्त्ता विकर्त्ता गहनो गुहः” ॥ लेख्यपत्रसाक्षिदिव्यादि । यथा मनुः ८ । ४१ । “अर्थेऽपव्ययमानन्तु करणेन विभावितम् । दापयेद्धनिकस्याथ दण्डलेशञ्च शक्तितः” ॥ भावे ल्युट् । कृतिः । यथा रामायणे ४ । १७ । ५६ ॥ “धर्म्मतः शेषकरणे प्रतीक्षिष्यामहे वयम्” ॥)

करणः, पुं, शूद्रावैश्ययोर्जातजातिविशेषः । इत्यमरः । २ । १० । २ ॥ अयं लिखनवृत्तिः कायस्थ इति ख्यातः । इति भरतः ॥ यथा, -- “शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः” । इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥ * ॥ अपि च । “कायस्थे साधने क्लीवं पुंसि शूद्राविशोः सुते” । इति करणशब्दार्थे मेदिनो ॥ * ॥ अन्यच्च । “झल्लो मल्लश्च राजन्यात् ब्रात्यान्निच्छिविरेव च । नटश्च करणश्चैव खसद्रविड एव च” ॥ इति मानवे १० । २२ ॥ झल्लोमल्लश्चेति । “क्षत्रि- यात् व्रात्यात् सवर्णायां झल्लमल्लनिच्छिविनट- करणखसद्रविडाख्या जायन्ते । एतान्यप्येकस्यैव नामानि” । इति तट्टीकायां कुल्लूकभट्टः ॥ * ॥ तस्य कर्म्मविपाको यथा, -- “तैलचौरस्तैलकीटो मूर्द्ध्नि कीटस्त्रिजन्मकम् । ततो भवेत् स्वर्णकारो जन्मैकं दुष्टमानसः ॥ तमःकुण्डे वर्षशतं स्थित्वा स्वर्णबणिक् भवेत् । जन्मैकञ्च दुराचारो जन्मैकं करणो भवेत् ॥ विश्वैकलिपिकर्त्ता च भक्ष्यदातुर्धनं हरेत् ॥ कायस्थेनोदरस्थेन मातुर्म्मांसं न खादितम् । तत्र नास्ति कृपा तस्य दन्ताभावेन केवलम् ॥ स्वर्णकारः स्वर्णबणिक् कायस्थश्च व्रजेश्वर । नरेषु मध्ये ते धूर्त्ताः कृपाहीना महीतले ॥ हृदयं क्षुरधाराभं तेषाञ्च नास्ति सादरम् । शतेषु सज्जनः कोऽपि कायस्थो नेतरौ च तौ ॥ सुबुद्धिः शिवयुक्तिश्च शास्त्रज्ञो धर्म्ममानसः । न विश्वसेत्तेषु तात स्वात्मकल्याणहेतवे” ॥ इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८५ अध्यायः ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करण पुं।

वैश्याच्छूद्रायां_जातः

समानार्थक:करण

2।10।2।1।1

शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः। शूद्राक्षत्रिययोरुग्रो मागधः क्षत्रियाविशोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

करण नपुं।

साधकतमम्

समानार्थक:करण

3।3।54।2।1

प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु। करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥

पदार्थ-विभागः : कारणम्

करण नपुं।

क्षेत्रम्

समानार्थक:वप्र,केदार,क्षेत्र,वलज,करण

3।3।54।2।1

प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु। करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥

अवयव : मृद्खण्डः,लाङ्गलकृतरेखा

स्वामी : कृषीवलः

 : धान्यसामान्योत्पत्तियोग्यक्षेत्रम्, कलमाद्युत्पत्तियोग्यक्षेत्रम्, यवक्षेत्रम्, यवकक्षेत्रम्, षष्टिकक्षेत्रम्, तिलक्षेत्रम्, माषक्षेत्रम्, उमाक्षेत्रम्, अणुधान्यक्षेत्रम्, भङ्गाधान्यक्षेत्रम्, मुद्गाधान्योद्भवक्षेत्रम्, कुद्रवधान्योद्भवक्षेत्रम्, चणकधान्योद्भवक्षेत्रम्, गोधुमधान्योद्भवक्षेत्रम्, कालयधान्योद्भवक्षेत्रम्, कोधुमधान्योद्भवक्षेत्रम्, प्रियङ्गधान्योद्भवक्षेत्रम्, बीजवापोत्तरं_कृष्टक्षेत्रम्, कृष्टक्षेत्रम्, वारत्रयकृष्टक्षेत्रम्, द्विवारकृष्टक्षेत्रम्, द्रोणपरिमितव्रीहिवापयोग्यक्षेत्रम्, आढकपरिमितव्रीहिवापयोग्यक्षेत्रम्, कुडवपरिमितव्रीहिवापयोग्यक्षेत्रम्, प्रस्थपरिमितव्रीहिवापयोग्यक्षेत्रम्, खारीपरिमितव्रीहिवापयोग्यक्षेत्रम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

करण नपुं।

देहः

समानार्थक:कलेवर,गात्र,वपुस्,संहनन,शरीर,वर्ष्मन्,विग्रह,काय,देह,मूर्ति,तनु,तनू,करण,उत्सेध,भूतात्मन्,आत्मन्,धामन्,क्षेत्र,अजिर

3।3।54।2।1

प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु। करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥

अवयव : चक्षुरादीन्द्रियम्,पाय्वादीन्द्रियम्,गर्भवेष्टनचर्मः,शुक्लशोणितसम्पातः,कुक्षिस्थगर्भः,कृष्णवर्णदेहगतचिह्नः,देहस्थतिलचिह्नः,रेतस्,पित्तम्,कफः,चर्मः,मांसम्,रक्तम्,हृदयान्तर्गतमांसम्,हृदयकमलम्,शुद्धमांसस्नेहः,धमनिः,उदर्यजलाशयः,मस्तकभवस्नेहः,मलम्,अन्त्रम्,कुक्षिवामपार्श्वेमांसपिण्डः,स्नायुः,कुक्षेर्दक्षिणभागस्थमांसखण्डः,शिरोस्थिखण्डः,अस्थिः,शरीरगतास्थिपञ्चरः,पृष्ठमध्यगतास्थिदण्डः,मस्तकास्थिः,पार्श्वास्थिः,देहावयवः,चरणः,जानूपरिभागः,ऊरुसन्धिः,पुरीषनिर्गममार्गः,नाभ्यधोभागः,कटीफलकः,कटिः,स्त्रीकट्याः_पश्चाद्भागः,स्त्रीकट्याः_अग्रभागः,भगशिश्नः,स्त्रीयोनिः,पुरुषलिङ्गः,अण्डकोशः,पृष्ठवंशाधोभागः,जठरम्,वक्षोजः,स्तनाग्रः,अङ्कः,उरस्,देहपश्चाद्भागः,भुजशिरः,अंसकक्षसन्धिः,कक्षः,कक्षयोरधोभगः,देहमध्यः,भुजः,स्वे_स्वे_पार्श्वे_प्रसारितबाहुमध्यम्,वदनम्,नेत्रप्रान्तः,कर्णः,शिरः,रोमः,ललाटास्थिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

करण नपुं।

इन्द्रियम्

समानार्थक:करण,धातु,अक्ष,स्रोतस्

3।3।54।2।1

प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु। करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥

 : चक्षुरादीन्द्रियम्, शब्दादीन्द्रियम्

पदार्थ-विभागः : इन्द्रियम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करण¦ न॰ क्रियतेऽनेन कृ--करणे ल्युट्।

१ व्याकरणोक्ते साधकतमेकारकभेदे
“क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्त-रम्। विवक्ष्यतेयदा यत्र करणं तत् तदा स्मृतम्” हरिका॰। विवक्ष्यते इत्यनेनान्यस्यापि विवक्षायां करणत्वम् भव-तीति सूचितम्। अतएवाह
“स्थाल्या पच्यते इत्येषप्रयोगो दृश्यते यतः”
“साधकतमं करणम् पा॰। तमब्-ग्रहणेनाव्यवहितव्यापारवत्त्वं सूचितम्। सत्यपि हेतु-करणयोःर्जनकत्वसाम्ये क्रियामात्रविषयत्वं व्यापारवत्त्वं[Page1689-a+ 38] च करणस्य विशेषः तदुक्तं
“द्रव्यादिविषयोहेतुः करणंचरितक्रियम्”। चरितक्रियं व्यापारद्वारा क्रियामात्र-विषयम इत्यर्यः।
“स्वराणामूष्मणाञ्चैव विवृतं करणंस्मृतम्” शिक्षा।
“भिषक् कर्त्ताथ करणं रसादोषाश्च कार-णम्” सुश्रु॰।
“न तस्य कार्य्यं करणञ्च विद्यते” श्रुतिः

२ इन्द्रिये अमरः तस्य ज्ञानक्रियायाम् साधनत्वात्त-थात्वम्। यथा च इन्द्रियाणां ज्ञानक्रियायां साध-नत्वं तथा इन्द्रियशव्दे उक्तेम्। तच्च सांख्ये त्रयो-दशविधमित्युक्त्वा तेषां मध्ये अन्तःकरणानां द्वारित्व-मितरेषां द्वारत्वमुक्तं यथा सां॰ का॰ कौ॰
“करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम्। कार्यञ्च तस्य दशधाहार्यं धार्यं प्रकाश्यञ्च” का॰
“करणंत्रयोदशविधमिन्द्रयाण्येकादश बुद्धिरहङ्कारचेति त्रयो-दशप्रकारं करणं कारकविशेषः करणम्। न च व्यापा-रावेशं विना कारकत्वमिति व्यापारमाह तदाहरणधार-णप्रकाशकरम् यथायथं तत्र कर्मोन्द्रियाणि वागादीन्या-हरन्ति यथास्वमुपाददते स्वव्यापरेण प्राप्नुवन्तीति यावत्बुद्ध्यहङ्कारमनांसि तु स्ववृत्त्या प्राणादिलक्षणया धार-यन्ति, बुद्धीन्द्रियाणि प्रकाशयन्ति। आहरणधारणा-दिक्रियाणां सकर्मकतया किं कर्म, कतिविधं? चेत्यतआह कार्य्यञ्च तस्येति तस्य त्रयोदशविधस्य करणस्यदशधा आहार्य्यं धार्य्यं प्रकाश्यञ्च कार्य्यम्। आहार्य्यंव्याप्यं कर्म्मोन्द्रियाणां वचनादानविहरणोतसर्गानन्दा यथायथं व्याप्याः ते च यथायथं दिव्यादिव्यतया दश इत्या-हार्य्यं दशधा। एवं धार्थ्यम् अप्यन्तः करणादि लक्षणयावृत्त्या शरीरं, तच्च पार्थिवादि पाञ्चभौतिकं शब्दादीनांपञ्चानां समूहः पृथिवीति, ते च पञ्च दिव्यादिव्यतयादशेति धार्य्यभपि दशधा। एवं बुद्धीन्द्रियाणां शब्द-स्पर्शरूपरसगन्धा यथायथं व्याप्याः ते च यथायथंदिव्यादिव्यतया दशेति प्रकाशामपि दशधेति” कौ॰
“अन्तः-करणं त्रिबिधं दशधा बाह्यं त्रयस्य विषयाख्यम्। साम्प्र-तकालं बाह्यं त्रिकालमाभ्यन्तरं करणम्” का॰
“कन्तः-करणं त्रिविधं बुद्धिरहङ्कारोमन इति शरीराभ्यन्तरवृत्ति-त्वादन्तःकरणम्। दशधा बाह्यमिन्द्रियं त्रयस्यान्तःकरणस्यविषयाख्यं विषयमाख्याति विषयसङ्कल्पांभमानाध्यवसायेषुकर्त्तव्येषु द्वारीभवति तत्र बुद्धीन्द्रियाण्यालोचनेन,कर्मेन्द्रियाणि तु यथास्वं व्यापारेण। बाह्यान्तरयोःकरणयोर्विशेषान्तरमाह साम्प्रतकालं बाह्यं त्रिकालमाभ्य-[Page1689-b+ 38] न्तरं करणम्, साम्प्रतकालं वर्त्तमानकालं बाह्यमिन्द्रियंवर्त्तमानसमीपमनागतमतीतमपि वर्त्तमानम् अतो वागपिवर्त्तमानकालविषया भवति। त्रिकालमाभ्यन्तरं करणंतद्यथा नदीपूरभेदादभूद्वृष्टिः अस्ति धूमादग्निरिह नग-निकुञ्जे, असत्युपघातके पिपीलिकाण्डसञ्चरणाद्भविष्यतिवृष्टिरिति, तदनुरूपाश्च सङ्कल्पाभिमानाध्यवसाया भवन्ति। कालश्च वैशेषिकाभिमत एको न अनागतादिव्यवहारभेदंप्रबर्त्तयितुमर्हतीति तस्मादयं यैरुपाधिभेदैरनागतादि-भेदं प्रपद्यते सन्तु तएबोपाधयोऽनागतादिव्यबहारहेतवः,कृतमत्रान्तर्गडुनाकालेनेति सांख्याचार्य्याः। तस्मान्न काल-रूपतत्त्वान्तराभ्युपगम इति” कौ॰ साम्प्रतकालानां बाह्ये-न्द्रियाणां विषयं विवेचयति।
“बुद्धीन्द्रियाणि तेषांपञ्च विशेषाविशेषविषयाणि। वाग्भवति शब्दविषया शेषा-णि तु पञ्चविषयाणि” का॰
“बुद्धीन्द्रियाणि तेषां दशाना-मिन्द्रियाणां मध्ये पञ्च विशेषाविशेषविषयाणि विशेषाःस्थूलाः शब्दादयः शान्तघोरमूढाः पृथिव्यादिरूपाः, अवि-शेषास्तन्मात्राणि सूक्ष्माः शब्दादयः विषयग्रहणेन भूत-भाविनावपाकरोति विशेषाश्चाविशेषाश्च विशेषाविशेषास्तएवविषया येषां बुद्धीन्द्रियाणां तानि तथोक्तानि। तत्रोर्द्ध्वस्रो-तसां योगिनाञ्च श्रोत्रं स्थूलशब्दत्रन्मात्रविषयं, स्थूलशब्द-विषयमेव नः। एवं तेषां त्वक् स्थूलसूक्ष्मस्पर्शविषया, अस्म-दादीनान्तु स्थूलस्पर्शविषयैव। एवं चक्षुरादयोऽपि तेषाम-स्मदादीनाञ्च रूपादिषु द्रष्टघ्याः। एवं कर्मेन्द्रियेषु मध्येवाग्मवति शब्दविषया स्थूलशब्दविषया तद्धेतुत्वात् न तुशब्दतन्मात्रस्य हेतुः तस्याहङ्कारिकत्वेन वागिन्द्रियेण सहैक-कारणकत्वात्। शेषाणि तु चत्वारि पायूपस्थपाणिपादा-ख्यानि पञ्चविषयाणि पाण्याद्याहार्याणां घटादीनां पञ्च-शव्दार्थत्वादिति” कौ॰। साम्प्रतं त्रयोदशसु करणेषु केषा-ञ्चित् प्रथानभावं सहेतुकमाह।
“सान्तःकरणा बुद्धिः सर्वंविषयमवगाहते यस्मात्। तस्मात्त्रिविधं करणं द्वारिद्वाराणि शेषाणि” का॰।
“द्वारि प्रधानं शेषाणि करणानिवाह्येन्द्रियाणि द्वाराणि तैरुपनीतं सर्वं विषप्यं समनो-हङ्कारा बुद्धिर्यस्मादवगाहतेऽध्ववस्यति तस्माद्बाह्येन्द्रियाणिद्वाराणि द्वारवती च सान्तःकरणा बुद्धिरिति” कौ॰।
“नकेवलं बाह्यानीन्द्रियाण्यपेक्ष्य प्रधानं बुद्धिरपि तु येअप्यहङ्कारमनसी द्वारिणी ते अप्यपेक्ष्य बुद्धिः प्रधानमि-त्याह।
“एते प्रदीपकल्पाः परस्परविलक्षणा गुणवि-शेषाः। कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति” का॰। [Page1690-a+ 38]
“यथा हि ग्रामाध्यक्षाः कौटुम्बिकेभ्यः करमादाय विष-याध्यक्षाय प्रयच्छंन्ति विशयाध्यक्षश्च सर्व्वाध्यक्षाय, स चभूपतये, तथा वाह्येन्द्रियाण्यालोच्य मनसे समर्पयन्तिमनश्च सङ्कल्प्याहङ्काराय, अहङ्कारश्चाभिमत्य बुद्धौ सर्वा-ध्यक्षभूतायाम्, तदिदमुक्तं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रय-च्छन्तीति। बाह्येन्द्रियमनोहङ्काराश्च गुणविशेषाः गुणा-नां सत्वरजस्तमसां विकाराः। ते तु परस्परविरोधशीलाअपि पुरुषार्थेन भोगापवर्गरूपेण एकवाक्यतां नीताःयथा वर्त्तितैलवह्नयः सन्तमसापनयरूपप्रकाशाय मिकि-ताः प्रदीपाः एवमेते गुणविशेषा इति योजना”। न्यायादिकते इन्द्रियाणामेकादशविधता वेदान्तपरिभाषा-मते दशविधतेति भेदः इन्द्रियशब्दे उक्तः।
“वपुषा करणो-ज्झितेन सा”
“करणापायविभिन्नवर्णया” रघुः
“करणैर-न्वितस्यापि पूर्वज्ञानं कथञ्चन” याज्ञ॰।
“आत्मन्यात्मानमेवव्यपगतकरण पश्यतस्तत्त्वदृष्ट्या” वेणी॰ अत्र करणं बाह्ये-न्द्रियम्। आधारे ल्युय्।

३ क्षेत्ररूपे देहे अमरः करणा-श्रयत्वात् तस्य तथात्वम्।
“उपमानमभूत् विलासिनांकरणं यत्तव कान्तिमत्तया” कृमा॰। भावे ल्युट्।

४ क्रिया-याम्।
“प्र ते पूर्व्वाणि करणानि” ऋ॰

४ ,

१९ ,

१० ।
“आवाहनाग्नौकरणरहिउतमपसव्यवत्” याज्ञ॰।
“हलस्यकरणे चापि व्यादिष्टाः सर्व्वशिल्पिनः” भा॰ व॰

२५

४ अ॰
“कृतस्य करणं नास्तातीति” प्राचीनगाथा।

५ से-तिकर्त्तगाके अनुष्ठाने

६ व्यापारमात्रे च।

७ ज्योति-षोक्तेषु तिथ्यर्द्धात्मकेषु बवादिषु तेषामानयनप्रकारःसूर्य्यसि॰ रङ्गना॰ उक्तो यथा।
“ध्रुबाणि शकुनिर्नागं तृतीयं तु चतुष्पदम्। किन्तुघ्नं तुचतर्दश्याः कृष्णायाश्चापरार्घतः” सू॰ सि॰।
“कृष्णपक्षी-यायाश्चतुर्दश्यास्तिथेर्द्वितीयार्धाद्द्वितीयार्धसारभ्येत्यर्थः। चकार एवार्थे। तेनान्यातिथेरेतत्तिथिपूर्वार्धस्य च निरासः। ध्रुवाणि स्थिराणि करणानि। तान्याह। शकुनिरिति। चपुरष्पदं तृतीयमित्यनेन शकुनिनागयोः क्रमेणाद्यद्वितीयत्वंसूचितम्। तुकारात् क्रमेण तिथ्यर्धेषु भवन्ति। किन्तुघ्नंचतुर्थम्। तुरन्तावधिद्योतकः तेनोक्तातिरिकं स्थिरकरणंनास्तीति सूचितम्{??} अथ चरकरणान्याह” रङ्ग॰।
“बवादीनि ततः सप्त चराख्यकरणायि च। मासेऽष्टकृत्वएवौकं करणानां प्रवर्तते” सू॰ सि॰।
“ततः स्पिर-करणपूर्त्त्यनन्तरं बवादीनि चरसञ्ज्ञककरणानि सप्त भद्रा-नानि शुक्लपतिपद्द्वितीयार्धतसुतुर्थ्यन्तं भवन्तीति चार्थः। [Page1690-b+ 38] ननु पञ्चम्यादितः कानि करणानि भवन्तीत्यत आहमास इति। चरकरणानां बवादीनां सप्तानां मध्य एकै-कमेकमेकं करणं सासे स्थिरकरणकालोनितत्रिंशत्तिभ्या-त्मकमासे स्वल्पान्तरत्वान्मासग्रहणम्। अष्टकृत्वोऽष्टवारःप्रवर्तते प्रकर्पेण तिष्ठति भवतीत्यर्थः। तथा च पञ्च-म्याद्यर्धादेतानि पुनः पुनः परिभ्रमन्ति। कृष्णचतुर्दश्या-द्यार्धपर्यन्तमिति भावः। ननु स्थिरकरणोक्तावपरार्धतइत्युक्त्या तेषां चतुर्णां तिथ्यर्धभोगेन शुक्लप्रतिपदाद्यर्ध-पर्षन्तं क्रमेणावस्थान युक्तं चरकरणानां तु केवलोक्त्यातदनन्तरं कृष्णचतुर्दश्याद्यार्धपर्थन्तमेक एव परिभ्रमोऽ-स्त्वित्यतस्तदुत्तरं कथयन्नन्यदप्याह” रङ्ग॰।
“तिथ्यर्द्ध-भोगं सर्वेषां करणानां प्रकल्पयेत्। एषा स्फुटमतिःप्रोक्ता सूर्यादीनां खचारिणाम्” सू॰ सि॰!
“सप्तानांचरकरणानां प्रत्येकं तिथ्यर्द्वश्चासौ भोगश्च तं तिथ्यर्ध-कालमितावस्थानं प्रकल्पयेत्।
“एकत्र निर्णीतः शास्त्रा-र्थोऽपरत्र भवतीति” न्यायात् करणत्वेनैषामप्यवस्थानं त-त्तुल्यं कुर्यादित्यर्थः। अत एव
“तिथ्यर्घं करणं स्मृतम्इत्युक्त्या चान्द्रमासे त्रिंशत्तिथ्यात्मके षष्टिकरणानां स-न्निवेशाच्चरकरणानामेव परिभ्रमणे प्रतिमासमनियततिथि-भोगकं करणं भवतीति तद्वारकप्रतिमासनियततिथि-भोगककरणकसिद्ध्यर्यं चरकरणानामष्टवारपरिभ्रमणोत्त-रमवशिष्टतिथ्योश्चतुर्ष्वर्धेषु स्थिरकरणान्युक्ताष्नीति तात्प-र्यम्। तत्रापि कृष्णचतुर्दश्यपरार्धतस्तत्कल्पनं तदिच्छा-नियामकं स्वतन्त्रेच्छस्य नियोगानर्हत्वात्” रङ्ग॰करणानि च वववालवकौलवतैतिलगरबणिग्विष्टिभद्राख्यानिसप्त चरकरणानि। स्थिरकरणानि शकुन्यादीनीति

८ दशसंख्यानि।

८ जातिभेदे पुंस्त्री अभरः स्त्रियां जातित्वात् ङीष्। तज्जातिश्चव्रात्यात् क्षत्रियात् सवर्णायामुत्पन्नः जाति-भेदः
“झल्लोमल्लश्च राजन्यात् व्रात्यान्निच्छिविरेव च। नटश्चकरणश्चैव खसो द्रविड एव च” मनुः। करणरूपवर्णसङ्क-रस्यैव कायस्थनामता तस्या कर्भविशेषपरिपाकेण तज्जा-तिप्राप्तिस्तस्य वृत्तिभेदश्च ब्रह्मवै॰ पु॰ जन्मखण्डे

८५ उक्तेयथा।
“तैलचौरस्तैलकीटो मूर्द्ध्निकीटस्त्रिजन्मकम्। ततो भवेत् स्वर्णकारो जन्मैकं दुष्टमानसः। तमःकु-ण्डे वर्षशतं स्थित्वा स्वर्णबणिग् भवेत्। जन्मैकञ्चदुसाचारो जन्मैकं करणो भवेत्। विश्वैकलिपिकर्त्ताच भक्ष्यदातुर्धनं हरेत्। कायस्थेनोदरस्थेन मातु-र्मांस म नखादितम्। मत्र नास्ति कृपा तस्यदन्ताभावेक[Page1691-a+ 38] केवलम्। स्वर्णकारः स्वर्ण्णबणिक् कायस्थश्च व्रजेश्वरः!। मरेषु मध्ये ते धूर्त्ताः कृपाहीना महीतले। हृदयं क्षु-रधाराभं तेषाञ्च नास्ति सादरम्। शतेषु सज्जनःकोऽपि कायस्थो नेतरौ च तौ। सुबुद्धिः शिवभक्तश्चशास्त्रज्ञो धर्ममानसः”।

९ वर्णसङ्करजातिभेदे पुंस्त्री
“शूद्राविशोस्तु करणोऽम्बष्टौ वैश्याद्विजन्भनोः” ब्रह्मवै॰पु॰। कायस्थश्च चतुर्विधः व्रात्यक्षत्रियः शूद्रावै-श्वयोर्जातः करणनाम्ना प्रसिद्धः अम्यष्ठः चित्र-गुप्तजातश्रीवास्तवश्च। कामस्थशब्दे विवृतिः। तस्यवृत्तिमाह पराशरः।
“धनधान्याध्यक्षता च राजसेवातथैव च। द्विजातेः परिचर्य्या च दुर्गान्तःपुरर-क्षणम्। एषा पारशवस्योक्ता उग्रस्य करणस्य चप्रोक्ता उगनसा वृत्तिरुभयत्र शुभप्रदा”।
“नृत्यवादित्र-गोतानां प्रयोगवशभेदिनाम्। संस्थानं ताडनं रोधःकरणानि प्रचक्षते” राजकन्दर्पोक्ते तालव्यपस्थापके

१० ता-डनाविशेषे न॰
“शिखरासक्तमेघानाम् व्यज्यन्ते यत्र वे-श्मानाम्। अनुगर्ज्जितसन्दिग्धाः करणैर्मुरजस्वनाः” कुमा॰ सर्वकरणप्रयोक्तृत्वात्

११ परमेश्वरे न॰
“करणंकारणं कर्त्ता विकर्त्ता च मतो गुरुः” विष्णु॰ सं॰। भवा-द्यर्थे ततः काशा॰ ठञ् ञिठ च इकार उच्चारणार्थः। कारणिक तद्भवे स्त्रियां ष्ठञि ङीष् ञिठि टाप्।

१२ क्रिसाधनस्त्रियां स्त्री ङीप्। क्रियते क्रियाविशेषोऽस्याम् आधारे ल्युट् ङीप्। वीजगणि-तोक्ते यस्य वर्गमूलादिकं स्यष्टं न प्रतीयते तत्रक्रियाविशेषद्वारा तत्करणविषये राशिभेदे स्त्री। सा च षड्विधा सङ्कलनव्यवकलनगुणभागवर्गवर्गमूलरूपभेदात्। तत्रक्रियाविशेषोवीजगणिते दर्शितो यथा।
“अथ करणी षड्विधा। तत्र सङ्कलनव्यवकलनयोः करण-सूत्रं वृत्तद्वयम्। योगं करण्योर्महतीं प्रकल्प बधस्यमूलं द्विगुणं लघुञ्च। योगान्तरे रूपवदेतयोः स्तोवर्ग्गेणवर्ग्गं गणंयेद्भजेच्च। लव्व्याहृतायास्तु पदं महत्याःसैकं निरेकं स्वहतं लघुघ्नम्। योगान्तरे स्तः क्रमशस्तयोर्ब्बा पृथक् स्थितिः स्याद्यदि नास्ति मूलम्। उदा-हरणम्। द्विकाष्टमित्योस्त्रिभसङ्ख्ययोश्च योमान्तरे ब्रूहिपृथक्करण्योः। त्रिसप्तमित्योश्च चिरं विचि त्य चेत् षद्धिधां-थेत्सि सखे! करण्याः। न्यासः क

२ । क

८ योगे जातम् क

१८ अन्तरे च क

२ न्यासः क

३ । क

२७ योगे जातम् क

४८ अन्तरे च[Page1691-b+ 38] क

१२ न्यासः क

३ । क

७ अनयोर्घातेमूलाभावात्पृथक्स्थितिरेव योगे जातम् क

३ क

७ अन्तरे च क

३ क

७ इति करणीसङ्कलनव्यवकलने। गुणनोदाहरणम्। द्वित्र्यष्टसङ्ख्यागुणकः करण्या गुण्य-स्त्रिसङ्ख्या च सपञ्चरूपा। वधं प्रचक्ष्वाशु विपञ्चरूपेगुणेऽथ वा त्र्यर्क्कमिते करण्याः। न्यासः गुणकः क

२ क

३ क

८ गुण्यः क

३ रू

५ अत्र गुण्येगुणके वा भाज्ये भाजके करणीनां कर-ण्योर्वा यथासम्भवं लाघवार्थं योगं कृत्वा गुणनभजनेकार्य्येतथा कृते जातो गुणकः क

१८ क

३ गुण्यःक

२५ क

३ गुणिते जातम् रू

३ क

४५

० क

७५ क

५४ । ( क्षयवर्गादौ विशेषसूत्रं वृत्तम्। क्षयोभवेच्च क्षयरूपवर्गश्चेत्साध्यतेऽसौ करणीत्वहेतोः। ऋणात्सिकायाश्चतथा करण्यामूलं क्षयोरूपविधानहेतोः। न्यासः गुणकः क

२५ क

३ क

१२ गुण्यः क

२५ क

२ अत्र गुणके करण्योर्योगे कृते गुणकः क

२५ ं क

२३ गुणिते जातम् क

६२ ं

५ क

३७

५ क

७५ क

८१ एता-स्वनयोः क

६२

५ क

८१ मूले रू

२५ रू

९ अनयो-र्योगे जातम् रू

१६ अनयोः क

३७

५ क

७५ अन्तरेयोगैति जातोयोगः क

३०

० यथाक्रमं न्यासः रू

१६ क

३०

० इति करणीगुणनम्। पूर्ब्बगुणनफलस्य खगुण-च्छेदस्य भागार्थं न्यासः भाज्यः क

९ क

४५

० क

७५ क

५४ भाजकः क

२ क

३ क

८ अत्र क

२ क

८ एतयोः करण्योर्योगे कृते जातम् क

१८ क


“भाज्या-च्छेदः शुध्यति प्रच्युतः सन्” इत्यादिकरणेन लब्धोगुण्यःरू

५ क

३ न्यासः भाज्यः क

२५

६ क

३०

० भाजकः क

२ ं

५ क

३ क

१२ करण्योर्योगे कृते जातम् क

२५ ं क

२७ अत्रादौ त्रिभिर्गुणयित्वा धनकरण्योः ऋणकरण्योश्चयोगं विधाय पश्चात्पञ्चविंशत्या गुणयित्वा शोधिते लब्धंरू

५ क

३ अत्रापि पूर्ब्धवल्लव्धो गुण्यः रू

५ क

३ अथ वान्थथोच्यते। धनर्णत्राव्यत्ययमीप्सितायाश्छिदे कर-ण्याअसकृद्विधाय। तादृक्छिदा भाज्यहरौ निहन्या-देकैव यावत्करणी हरः स्यात्। भाज्यास्तया भाज्यगताःकरण्योलब्धाः करण्यो थदि योगजाः स्युः। विश्लेष-सूत्रेण पृथक् च कार्य्यास्थथायथा प्रष्टुरभीप्सिताः स्युः। तथा च विश्लेषसृत्रं वृत्तम्। यर्गेण योगकरणी विहृताविशुध्येत् स्वण्डानि तत्कृतिपदस्य यथेप्सितानि। कृत्वा[Page1692-a+ 38] तदीयकृतयः खलु पूर्व्वलब्ध्या क्षुण्णा भवन्ति पृथगेवमिमाःकरण्यः। न्यासः भाज्यः क

९ क

५४

० क

७५ क

५४ माजकःक

१८ क

३ अत्र भाजके त्रिमितकरण्याः ऋणत्वंप्रकल्प्य क

१८ क

३ अनेन भाज्ये गुणिते योगे चकृते जातम् क

२६

२५ क

६७

५ भाजके च क

२२

५ अनया भाजये हृते लब्धम् क

२५ क

३ न्यासः भाज्यः क

२५

६ क

३०

० भाजकः क

२५ ं क

२७ अत्र भाजके पञ्चविंशतिकरण्याधनत्वं प्रकल्प्य क

२५ क

२७ भाज्ये गुणिते धनर्ण्णकरणीनामन्तरे च कृतेजातम् क

१०

० क

१२ भाजके च क

४ अनया भाज्येहृते लब्धमृ क

२५ क

३ इदानीं पूर्व्वीदाहरणे गुण्येभाज्ये कृते न्यासः भाज्यः क

९ क

४५

० क

७५ क

५४ भाजकः क

२५ क

३ । अत्रापि त्रिकरण्याः ऋणत्वंप्रकल्प्य भाज्ये गुणिते युते च जातम् क

८०

१२ क

१४

५२ भाजके च क

४८

४ अनया हृते भाज्ये लब्धोगुणकः क

१८ क

३ । पूर्ब्बं गुणके स्यण्डत्रयमासीदितियोगकरणीयम्

१८ विश्लेष्या तत्र वर्गेण योगकरणीविहृता विशुद्ध्येदिति नवात्मकवर्गेण

९ विहृता सतीशुध्यतीति लव्धं

२ नवानां मूलम्

३ अस्य खण्डे,

१ ,

४ , पूर्ब्बलब्ध्या

२ गुणिते,

२ ,

८ , एवं जातोगुणकः क

२ क

३ क

८ इति करणीभजनम्। ( करणीवर्गादेरुदाहरणम्। द्विकत्रिपञ्चप्रसिताः कर-ण्यस्तासां कृतिं त्रिद्विकसङ्ख्ययोश्च। षट्पञ्चकत्रिद्वि-कसम्मितानां पृथक् पृथङ्मे कथयाशु विद्वन्!। अष्टा-दशाष्टद्विकसम्मितानां कृतीकृतानां च सखे! पदानि। न्यासः प्रथमः क

२ क

३ क

५ । द्वितोयः क

३ क

२ । तृतीयः क

६ क

५ क

३ क

२ । चतुर्थः क

१८ क

८ क

२ स्थप्योऽन्त्यवर्गश्च चतुर्गुणान्त्यनिघ्न इत्यनेन गुण्यः पृथग्-गुणकखण्डसमैत्यनेन वा जाताः क्रमेण वर्गाः प्रथमःरू

१० क

२४ क

४० क

६० । द्वितीयः रू

२ क

२४ । तृतीयः रू

१६ क

१२

० क

७२ क

६० क

४८ क

४० क

२४ अत्रापि करणीनां यथासम्भवंयोगं कृत्वा वर्गवर्गमूले कार्य्ये तद्यया क

१८ क

८ क

२ आसां वोगः क

७२ अस्यावर्गः क

५१

८४ अस्या-मूलं रू

७२ । इति करणीवर्गः। करणीमूले सूत्रं वृत्तद्वयम्। वर्गे करण्यायदि वा क-[Page1692-b+ 38] रण्योस्तुल्यानि रूपाण्यथ वा बहूनाम्। विशोधयेद्रूप-कृतेः पदेन शेषस्य रूपाणि युतोनितानि। पृथक्तदद्धेकरणीद्वयं स्यान्मूलेऽबह्वी करणी तयोर्य्या। रूपाणितान्येव कृतानि भूयः शेषाः करण्योयदि सन्ति वर्गे। उदाहरणम्। द्बितीयवर्गस्य सूलार्थं न्यासः रू

५ क

२४ रूपकृतेः

२५ करणोतुल्यानि रूपाणि

२४ अ-पास्य शेषम्

१ अस्य मूलेन

१ ऊनाधिकरूपाणामर्द्धे जातेभूलकरण्यौ क

२ व

३ प्रथमवर्गस्य न्यासः रू

१० क

२४ क

४० क

६० रूप-कृतेः

१०

० चतुर्विंशतिचत्वारिंशत्करण्योस्तुल्यानि रूपाण्यपास्य शेषम्

३६ अस्यमूलेन

६ ऊ नाधिकरूपाणामर्द्धेजाते,

२ ,

८ , तत्रापीमां

२ मूलकरणीं द्वितीयां रूपा-ण्येव प्रकल्प्य पुनः शषकरणीभिः सः एव विधिः कार्य्य-स्तत्रेयं रूपकृतिः

६४ अस्याः षष्टिरूपाण्यपास्य शेषम्

४ अस्य मूलम्

२ अनेनोनाधिकरूपाणामर्द्धे,

३ ,

५ ,जाते मूलकरण्यौ क

३ क

५ मूलकरणीनां यथाक्रमंन्यासः क

२ क

३ क

५ तृगीयवर्गस्य न्यासः रू

१६ क

१२ ॰ क

७२ क

६० क

४८ क

४० क

२४ रूपकृतेः

२५

६ करणीत्रितयस्यास्य क

४८ क

४० क

२४ तुल्यानि रूपाण्यपास्योक्तवज्जाते खण्डे,

२ ,

१४ , महती रूपाणीत्यस्याः

१४ कृतिः

१९

६ अस्याःकरणीद्वयस्यास्य क

७२ क

१२

० तुल्यरूपाण्यपास्योक्त-वज्जाते खण्डे,

६ ,

८ , पुनारूपकृतेः

६४ षष्टिरूपाण्य-पास्योक्तवत्खण्डे,

३ ,

५ , एवं मूलकरणीनां यथाक्रमंन्यासः क

६ क

५ क

३ क

२ चतुर्थस्य न्यासः रू

७२ क॰ इयमेव लब्धा मूलकरणी

७२ पूर्व्वं खण्डत्रयमासीदिति वर्गेण योगकरणी विहृताशुध्यतीति षट्त्रिंशतोमूलम्

६ एतस्य खण्डानां,

१ ,

२ ,

३ , कृतयः,

१ ,

४ ,

९ , पूर्ब्बलब्ध्यानया

२ क्षुण्णाः,

२ ,

८ ,

१८ , एवं पृथक्करण्योजाताः क

२ व

८ क

१८ । अथ वर्गगतर्ण्णकरण्यामूलानयनार्थं सूत्रं वृत्तम् ऋणात्मिका चेत्करणी कृतौ स्याद्धनात्मिकां तां परिकल्प्यसाध्ये। म्ले करण्यावनयोरभीष्टा क्षयात्मिकैका सुधि-यावगम्या। उदाहरणम्। त्रिसप्तमित्योर्वद मे करण्योर्विश्लेषवर्गंकृतितः पदं च। न्यासः क

३ क

७ यद्वा क

३ क

७ अनयोर्वर्गः समएवरू

१० क

८४ अत्र वर्गे ऋणकरण्याधनत्वं प्रकल्प्य[Page1693-a+ 38] प्राग्वल्लब्धकरण्योरेकाभीष्टा ऋणगता स्यादिति जातम्क

३ क

७ वा क

३ क

७ ंउदाहरणम्। द्विकत्रिपञ्चप्रमिताः करण्यः स्वस्वर्णगा-स्वस्वधनर्ण्णगावा। तासां कृतिं ब्रूहि कृतेः पदं च चेत्षद्धिधा बेत्सि सखे! करण्याः। न्यासः क

२ क

३ क

५ ं वा क

२ ं क

३ ं क

५ आसांवगः समएव जाताः रू

१० क

२४ क

४० ं क

६० । अत्र ऋणकरण्योस्तुल्यानि धनरूपाणि

१०

० रूपकृतेः

१०

० अपास्य शेषस्य मूलम्॰ अनेगोनाधिकरूपाणा-मर्द्वे क

५ का अत्रैका ऋणम् क

५ ं अन्या रूपाणीतिन्यासः रू

५ क

२४ पूर्व्ववज्जाते करण्यौ धने एव। क

३ क

२ यथाक्रमं न्यासः क

२ क

३ क

५ ं अथ वानयोः कक

२४ क

६० तुल्यानि धनरूपाणि

८४ रूपकृते

१०

० रपास्योक्तवज्जाते मूलकरण्यौ क

७ क

३ अनयोर्म्महतीऋणं क

७ ं तान्येव रूपाणि प्रकल्प्य रू

७ ं क

४० अतःप्राग्वत्करण्यौ क

५ क

२ अनयोरपि महती ऋणमितियथाक्रमं न्यासः क

३ क

२ क

५ ं( अथ द्वितीयोदाहरणे प्राग्वत्प्रथमपक्षे मूलकरण्यौ क

५ क

५ अनयोरेका ऋणं क

५ ं तान्येव रूपाणीति ऋ-णोत्पन्ने करणीखण्डे ऋणे एवेति यथाक्रमं न्यासः क

३ ं क

२ ं क

५ ं द्वितीयपक्षेणापि यथोक्ताएव मूलकरण्यः क

३ ंक

२ ं क

५ ं एवं बुद्धिमतानुक्तमपि ज्ञायते इति पूर्व्वैर्नाय-मर्थो विस्तीर्योक्तः बालावोधार्थं तु मयोच्यते। एकादिसङ्कलितमितकरणीखण्डानि वर्गराशौ स्युः। वर्गेकरणीत्रितये करणीद्वितयस्य तुल्यरूपाणि। करणीषटकेतिसृणां दशचतसृणां तिथिषु च पञ्चानाम् रूपकृतेः प्रोह्यपदं ग्राह्यं चेदन्यथा नसत् क्वापि। उत्पत्स्यमानयैवं मूल-करण्याल्पया चतुर्गुणया। यासामपवर्त्तः स्याद्रूपकृतेस्ता-विशोध्याः स्युः। अपवर्त्तादपि लब्धामूलकरण्योभवन्तिताश्चापि। शेषविधिना न यदि ताभवन्ति मूलं तदातदसत्। करणीवर्गराशौ रूपैरवश्यं भवितव्यम् एककरण्यावर्गे रूपाण्येव। द्वयोः स्वरूपैका करणी। तिसृणांतिस्रः। चतसृणां षट्। पञ्चाना दश। षण्णां पञ्च-दश इत्यादि। अतोद्व्यादीनां वर्गेषु एकादिसङ्कलितमि-तानि कतणीनां खण्डानि रूपाणि यथाक्रमं स्युः। अथ यदि उदाहरणे तावन्ति न भवन्ति तदासौ योगकर-णी विश्लेष्या वा भवतीति कृत्वा मूलं ग्राह्यमित्थर्थः। वर्गे करणीत्रितये करणीद्वितयस्य तुल्यरूपाणीति स्पष्टा-[Page1693-b+ 38] र्थम्। उदाहरणम्। वर्गेयत्र करण्योदन्तैःसिद्धैर्गजै-र्म्मिताविद्वन्!। रूपैर्द्दशभिरुपेताः किम्मूलंब्रूहि तस्यस्यात्। न्यासः रू

१० क

३२ क

२४ क

८ अत्र वर्गकरणीत्रितये करणीद्वितयस्यैव तुल्यानि रूपाणि प्रथमंरूपकृतेरपास्य मूलं ग्राह्यं पुनरेकस्याएवं क्रियमाणेऽत्रपदं नास्तीत्यतोऽस्य करणीगतमूलाभावः। अथानियमेनसर्व्वकरणीतुल्यानि रूपाण्यपास्य मूलमानीयते तदिदम्क

२ क

८ ममागच्छति इदमसत् यतोऽस्य वर्गोयम् रू

१८ अथ वा दन्तगजमितयोर्योगं कृत्वा रू

१० क

७२ क

२४ आनीयते तदिदमप्यसत् रू

२ क

६ । उदाहरणम्। वर्गे यत्र करण्यस्तिथिबिश्वहुताशनैश्चतुर्गु-णितैः। तुल्यादशरूपाढ्याः किम्मूलं ब्रूहि तस्य स्यात्। क

६० क

५२ क

१२ अत्र किल वर्ग करणीत्रयमस्तीतिन्यासः रू

१० तत्करणीद्वयस्य द्विपञ्चाशद्द्वादशमितस्य क

५२ क

१२ तुल्यरूपाण्यपास्य ये मूलकरण्य वुत्पद्येतेक

८ क

२ तयोरल्पयानया

२ चतुर्गुणया

८ द्विपञ्चा-शद्वादशमितयोरपवर्त्तोन स्यादतस्ते न शोध्ये यतौक्तमु-त्पत्स्यमानयैवमित्यादि। अत्राल्पयैकयेत्युपलज्ञणम् तेनक्वचिन्महत्यापि तढा मूलकरणीरूपाणि प्रकल्प्यान्ये कर-णीखण्डे साध्ये सा महती प्रकल्प्येत्यर्थः उदाहरणम्। अष्टौ षट्पञ्चाशत् षष्टिः करणी त्रयं कृतौ यत्र। रूपैर्द-शभिरुपेतं किम्मूलं ब्रूहि तस्य स्यात्। न्यासः रू

१० क

८ क



६ क

६० अत्राद्यखण्डद्वये क

८ क

५६ शोधतेउत्पन्नयाल्पया चतुर्गुणया

८ तयोः खण्डयोरपबर्त्तेन-लव्धेखण्डे।

१ ।

७ । परं शेषविधिना मूलकरण्यौनीत्पद्येते अतस्ते खण्डे न शोध्ये अन्यथा तु शोधनेकृते मूलं नायातीत्यतस्तदसत्। उदाहरणम्। चतुर्गु-णात् सूय्यतिथीषुरुद्रनागर्त्तवोयत्र कृतौ करण्यः। सबि-श्वरूपावद तत्पदं ते यद्यस्ति वीजेपटूताभिमानः। न्यासः रू

१३ क

४८ क

६० क

२० क

४४ क

३२ क

२४ अत्र करणीषट्के तिसूणां करणीनां तुल्यानि रूपाणिप्रथमं रूपकृतेरपास्य भूलं ग्राह्यं प्रश्चाद्द्वयोस्ततएकस्या-एवं कृतेऽत्र मूलाभावः। अथान्यथा तु प्रथममाद्यकर-ण्यास्तुल्यानि रूपाण्यपास्य पश्चाद्द्वितीयतृतीयोस्ततः शे-षाणां रूपकृतेर्विशोध्यानि तम्बूलम् क

१ क

३ क

५ क

५ तदिदमप्यसत् यतोऽस्य वर्ग्गोयम् रू

२३ क

८ क

८० क

१६

० । यैरस्य मूलानयनस्य निममोन कृतस्तेषामिदंदूषणम् एवं व्दिघवर्गे करणीनामासन्नमूलकरणेन मूलान्या-[Page1694-a+ 38] नीय रूपेषु प्रक्षिप्य मूलं वाच्यम्। अथ महतीरूपाणो-त्युपलक्षणम्। यतः क्वचिदल्पापि। ( तत्रोदाहरणम्। चत्वारिंशदशीतिर्द्विशतीतुल्याः करण्यश्चेत्। सप्तदशरूपयुक्तास्तत्र कृतौ किम्पदं ब्रूहि। ( न्यासः रू

१७ क

४० क

८०

२०

० गोधिते जातेखण्डे क

१० क

७ पुनः लघ्वीं करणीं रूपाणि कृत्वालब्धे करण्यौ क

५ क

२ । एवं मूलकरणीनां न्यासःक

१० क

५ क

२ । इति करण्याः षड्विधाः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करण¦ n. (-णं)
1. An instrument or means of action.
2. Making, doing.
3. Action, act.
4. Cause, motive.
5. Business, occupation, as trade. &c.
6. An organ of sense.
7. The body.
8. The mind or heart.
9. A field.
10. Grain.
11. The posture, abstinence, &c. of an ascetic.
12. Copulation, (seu modus coeundi.)
13. The usage or practice of the writer caste.
14. Acting, dramatic action.
15. Song, singing.
16. The particular business of any tribe or caste.
17. Plaistering, spreading any thing with the hand.
18. A Karana, an astrological division of time; the Karanas are eleven: 7 moveable and 4 fixed, and two are equal to a lunar day; or the time during which the moon's motion from the sun amounts to 6º.
19. (In grammar) The instru- mental case, or noun in that case. m. (-णः) A man of a mixed class, the son of a Sudra woman by a Vaisya; or, according to some, of an outcaste K'shetriya, by a K'shetriya female; the occupation of this class is writing, accounts, &c. a writer, a scribe. f. (-णी)
1. A woman of the same caste.
2. (In arithmetic, &c.) A surd or irrational quantity. E. कृ to do, to act, &c. ल्युट् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करण [karaṇa], a. [कृ-ल्युट्]

Making, doing, effecting, producing.

(Ved.) Clever, skilled; रथं न दस्रा करणा समिन्वथः Rv.1.119.7.

णः (Ved.) An assistant. यमस्य करणः Av.6.46.2.

A man of a mixed tribe.

A writer, जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप Mb.1.115. 43; Ms.1.22.

A child. cf. ...... करणः शिशौ । शूद्राविशोः सुते$पि स्यात् Nm.

णम् Doing, performing, accomplishing, effecting; परहित˚, संध्या˚, प्रिय˚ &c.

Act, action.

Religious action; Y.1.251.

Business, trade.

An organ of sense; वपुषा करणोज्झि- तेन सा निपतन्ती पतिमप्यपातयत् R.8.38,42; पटुकरणैः प्राणिभिः Me.5; R.14.5.

The body; उपमानमभूद्विलासिनां करणं यत्तव कान्तिमत्तया Ku.4.5.

An instrument or means of an action, न तस्य कार्यं करणं न विद्यते Śvet.6.8; करणं च पृथग्विधम् Bg.18.14.18. उपमितिकरणमुपमानम् T. S.; तस्य भोगाधिकरणे करणानि निबोध मे Mb.3.181.19.

(In Logic) The instrumental cause which is thus defined: व्यापारवद- साधारणं कारणं करणम्.

A cause or motive (in general).

The sense expressed by the instrumental case (in gram.); साधकतमं करणम् P.1.4.42; or क्रियायाः परिनिष्पत्तिर्यद्- व्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम् ॥

(In law) A document, a bond, documentary proof; Ms.8.15,52,154.

A kind of rhythmical pause, beat of the hand to keep time; अनुगर्जितसंधिग्धाः करणै- र्मुरजस्वनाः Ku.6.4.

(In Astrol.) A Division of the day; (these Karaṇas are eleven). -बव, बालव, कौलव, तैतिल, गर, वणिज, विष्टि, शकुनि, चतुष्पाद, नाग and

र्किस्तुघ्न. The Supreme Being.

Pronunciation.

The posture of an ascetic.

A posture in sexual enjoyment. बोभुज्यते स्म करणेन नरेन्द्रपुत्री Bil. ch.42. वात्स्यायनोक्तकरणैर्निखिलैर्मनोज्ञै । संभुज्यते कविवरेण नरेन्द्रपुत्री ॥ Ibid.45.

A field.

Plastering with the hand.

The usage of the writer caste.

The Principle of intelligence; दृष्टाः करणाश्रयिणः Sāṅ. K.43.

(In Astron.) N. of a treatise of Varāhamihira on the motion of planets.

णी A woman of a mixed caste. माहिष्येण करण्यां तु रथकारः प्रजायते Y.1.95.

Absurd or irrational number. -सुता f. An adopted daughter.-Comp. -अधिपः the soul, स कारणं करणाधिपाधिपः Śvet. 6.9. -कुतूहलम् N. of a work on practical astronomy by Bhāskara. -ग्रामः the organs of sense taken collectively. -त्राणम् the head. -विभक्तिः f. The instrumental case; सूक्तवाकेनेति करणविभक्तिसंयोगात् । ŚB. on यMS.3.2.12. -विन्ययः manner of pronunciation.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करण mf( ई)n (once करणRV. i , 119 , 7 )doing , making , effecting , causing ( esp. ifc. ; See. अन्तकरण, उष्णं-क्, etc. ) R. etc.

करण mf( ई)n clever , skilful RV. i , 119 , 7

करण m. a helper , companion AV. vi , 46 , 2 ; xv , 5 , 1-6 ; xix , 57 , 3

करण m. a man of a mixed class (the son of an outcast क्षत्रियMn. x , 22 ; or the son of a शूद्रwoman by a वैश्यYa1jn5. i , 92 ; or the son of a वैश्यwoman by a क्षत्रियMBh. i , 2446 ; 4521 ; the occupation of this class is writing , accounts etc. )

करण m. writer , scribe W.

करण m. (in Gr. )a sound or word as an independent part of speech (or as separated from the context ; in this sense usually n. ) Ka1s3. on Pa1n2. 3-1 , 41 Pat. Comm. on RPra1t.

करण m. (in mus.) a kind of time Kum. vi , 40

करण n. the act of making , doing , producing , effecting S3Br. MBh. etc. (very often ifc. e.g. मुष्टि-क्, विरूप-क्)

करण n. an act , deed RV.

करण n. an action ( esp. a religious one) Ya1jn5. i , 250 R.

करण n. the special business of any tribe or caste L.

करण n. a calculation ( esp. an astronomical one) VarBr2S.

करण n. an astrological division of the day (these करणs are eleven , viz. वव, वलव, कौलव, तैतिल, गर, वणिज, विष्टि, शकुनि, चतुष्पद, किन्तुघ्न, and नाग, two being equal to a lunar day ; the first seven are called अ-ध्रुवाणिor movable , and fill , eight times repeated , the space from the second half of the first day in the moon's increase to the first half of the fourteenth day in its wane ; the four others are ध्रुवाणिor fixed , and occupy the four half-days from the second half of the fourteenth day in the wane of the moon to the first half of the first day in its increase) VarBr2S. Sus3r. etc.

करण n. pronunciation , articulation , APra1t.

करण n. (in Gr. )a sound or word as an independent part of speech , separated from its context Pa1n2. Ka1s3. etc. , ( करणmay be used in this way like कारe.g. इति-करणS3a1n3khS3r. )

करण n. the posture of an ascetic

करण n. a posture in sexual intercourse

करण n. instrument , means of action S3vetUp. Ya1jn5. Megh.

करण n. an organ of sense or of speech VPra1t. Pa1rGr2.

करण n. (in law) an instrument , document , bond Mn. viii , 51 ; 52 ; 154

करण n. (in Gr. )the means or instrument by which an action is effected , the idea expressed by the instrumental case , instrumentality Pa1n2. 1-4 , 42 ; ii , 3 , 18 ; iii , 2 , 45

करण n. cause(= कारण)

करण n. a spell , charm Katha1s. (See. करण-प्रयोग)

करण n. rhythm , time Kum.

करण n. body Megh. Kum. Ka1d.

करण n. N. of a treatise of वराह-मिहिरon the motion of the planets

करण n. of a work belonging to the शिव-दर्शन

करण n. a field L.

करण n. the mind , heart W. (See. अन्तः-करण)

करण n. grain W.

करण etc. See. p. 254 , col. 1.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KARAṆA : Another name of Yuyutsu. See under Yuyutsu and Varṇa.


_______________________________
*18th word in right half of page 389 (+offset) in original book.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करण पु.
वेदि के निर्माण के समय जपे जाने वाले मन्त्र का नाम ‘इमां नरः कृणुत वेदिम्----बौ.श्रौ.सू. 1.11ः25; श्रौ.को. (अं) 1.679; (सं) II.537; यह मन्त्र उस समय पढ़ा जाता है (वरुण प्रघास), जब दोनों वेदियों में भूमि का खनन हो चुका होता है, 5.5-9; द्रष्टव्य - मन्त्र, मा.श्रौ.सू. 12.4.9-19; ईंटों का एक भेद अथवा प्रकार, मा.श्रौ.सू. 1०.3.1.3 (करणं यास्कदेहिकम्), (विष्णु के लिए वेदि को मापना); ईंट का एक साँचा, मा.श्रौ.सू. 1०.2.5.1।

"https://sa.wiktionary.org/w/index.php?title=करण&oldid=494972" इत्यस्माद् प्रतिप्राप्तम्