यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करुणः, पुं, (करोति मनः आनुकूल्याय । कृ + “कृ वृदारिभ्य उनन्” । उणां । ३ । ५३ । इति उनन् ।) वृक्षविशेषः । करुणा लेवुर गाछ इति भाषा । तत्फलगुणः । कफवाय्वाममेदोनाशित्वम् । पित्त- प्रकोपकत्वञ्च । इति राजवल्लभः ॥ बुद्धभेदः । इति त्रिकाण्डशेषः ॥ शृङ्गाराद्यष्टरसान्तर्गततृतीय- रसः । इत्यमरः । १ । ७ । १७ ॥ तस्य लक्षणादि । “इष्टनाशादनिष्टाप्तेः करुणाख्यो रसो भवेत् । धीरैः कपोतवर्णोऽयं कथितो यमदैवतः ॥ शोकोऽत्र स्थायिभावः स्याच्छोच्यमालम्बनं मतम् । तस्य दाहादिकावस्था भवेदुद्दीपनं पुनः ॥ अनुभावा दैवनिन्दा भूपातक्रन्दितादयः । वैवर्णोच्छ्वासनिश्वासस्तम्भप्रलपनानि च ॥ निर्व्वेदमोहापस्मारव्याधिग्लानिस्मृतिश्रमाः । विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः ॥ शोच्यं विनष्टबन्धुप्रभृति । यथा राघवविलासे । विपिने क्व जटानिबन्धनं तव चेदं क्व मनोहरं वपुः । अनयोर्घटना विधेः स्फुटं ननु खड्गेन शिरीषकर्त्तनम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करुण¦ त्रि॰ करोति मनः आनुकूल्याय कॄ--उनन्। दयायुक्ते

२ रसभेदे पु॰ तल्लक्ष्माद्युक्तं सा॰ द॰ यथा
“इष्टनाशादनिष्टाप्तेः करुणाख्यो रसो भवेत्। धीरैःकपोतवर्ण्णोऽयं कथितो यमदैवतः। शोकोऽत्र स्था-यिभावः स्याच्छोच्यमालम्बनं मतम्। तस्य दाहादि-कावस्था भवेदुद्दीपनं पुनः। अनुभावा दैवनिन्दाभूपातक्रन्दितादयः। वैवर्ण्योच्छ्वासनिश्वासस्तम्भप्रलपनानिच। निर्वेदमोहापस्मारव्याधिग्लानिस्मृतिश्रमाः। विषा-दजडतोन्मादचिन्ताद्या व्यभिचारिणः”। ( शोच्यं विनष्टबन्धुप्रभृति। यथा राघवावलासे।
“विपिने क्व जटानिबन्धनं तव चेदं क्व मनोहरंवपुः। अनयोर्घटना विधेः स्फुटं ननु खड्गेन शिरीष-कर्त्तनम्”। अत्र हि रामवनवासजनितशोकार्त्तस्य दश-रथस्य दैवनिन्दा। एवं बन्धुवियोगविभवनाशादावप्युदा-हार्य्यम्। परिपोषस्तु महाभारते स्त्रीपर्वणि द्रष्टव्यः। अस्य करुणविप्रलम्भाद्भेदमाह। शोकस्थायितया भिन्नो विप्रलम्भादयं रसः। विप्रलम्भे रतिः स्थायी पुनः सम्भोगह-तुकः”

३ परदुः खहरणेच्छायां दयायां स्त्री।
“अहो विधेत्वां करुणा रुणद्ध्विनः” नैष॰।
“प्रायःसद्योभवति करुणा-वृत्तिरार्द्रान्तरात्मा” मेघ॰।
“करुणाविमुखेन मृत्युना” रघुः। दुःखितेषु दया करुणा साऽस्त्यस्य अर्श॰ श्वच् विषयत्वेन।

४ करणाविषये दीने त्रि॰।
“अनिशं निजैरकरुणः करुणम्” माघः।
“करुणं दीनं यथा तथेति” मल्लि॰।
“अनुरोदि-तीव करुणेन पत्रिणां विरुतेन” माघः।
“विरुतैः करुण-स्वनैरियम्” कुमा॰। (करलहनेवु)

५ वृक्षभेदे पु॰ त्रिका॰।
“पिकात् वने शृण्वति मृङ्गहुङ्कुतैर्दशामुदञ्चत्करुणेवियोगिनाम्” नैष॰।
“करुणस्य फलं म्लेष्मवाताममेदसांपुनः। नाशनं पित्तकोपस्य शमनं परिकीर्त्तितम्” इति त-त्फलगुणाश्च षैद्यकोक्ताः।

६ बुद्धभेदे पु॰ त्रिका॰।

७ परमेश्वरे

८ भूताभयकारके परिव्राञके पु॰ शब्दचि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करुण¦ mf. (-णः-णा) Tenderness, pity, compassion, the feeling or sentiment. adv. (-णं) Pitifully, in distress. m. (-णः)
1. Sorrow, affliction, one of the eight sentiments.
2. The name of a fruit-tree, the pamplemouse, (Citrus decumana.)
3. A Jina or Jaina saint. E. कॄ to send or cast, उनन् Unadi aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करुण [karuṇa], a. [करोति मनः आनुकूल्याय, कृ-उनन् Tv.] Tender, pathetic, pitiable, exciting pity, mournful; करुणध्वनिः V.1; Śi.9.67; विकलकरुणैरार्यचरितैः U.1.28.

णः Pity, compassion, tenderness.

Pathetic sentiment, grief, sorrow (as one of the 8 or 9 sentiments); पुट- पाकप्रतीकाशो रामस्य करुणो रसः U.3.1,13;7.12; विलपन्... करुणार्थग्रथितं प्रियां प्रति R.8.7.

The Supreme Being.

A Jaina saint. -णम् Ved. An action, a holy or sacred rite. स विश्वस्य करुणस्येश एको Rv.1.1.7; ममेदु- कर्मन् करुणे$धि जाया Av.12.3.47. ind. mournfully, woefully; अधस्ताच्छिंशपामूले साध्वी करुणमास्थिता Rām.5.59.21.-Comp. -मल्ली the Mallikā plant. -विप्रलम्भः (in Rhet.) the feeling of love in separation.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


करुण mf( आ)n. (1. कॄUn2. iii , 53 ; but in some of its meanings fr. 1. कृ) , mournful , miserable , lamenting MBh. Das3. etc.

करुण mf( आ)n. compassionate BhP.

करुण m. " causing pity or compassion " , one of the रसs or sentiments of a poem , the pathetic sentiment Sa1h. etc.

करुण m. Citrus Decumana L.

करुण m. a बुद्धL.

करुण m. N. of an असुरHariv.

करुण m. one of the four ब्रह्म-विहारs( Buddh. )

करुण m. the sentiment of compassion(See. above ) L.

करुण m. a particular tone (in mus.)

करुण n. an action , holy work RV. i , 100 , 7 AV. xii , 3 , 47 TS. i.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KARUṆA : See under Dhanañjaya.


_______________________________
*2nd word in left half of page 395 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=करुण&oldid=495061" इत्यस्माद् प्रतिप्राप्तम्