यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष्टम्, क्ली, (कष्यते इति । कष् + भावे क्तः । “कृच्छ्रगहनयोः कषः” । ७ । २ । २२ । इति नेट् ।) पीडामात्रम् । तत्पर्य्यायः । पीडा २ बाधा ३ व्यथा ४ दुःखम् ५ अमानस्यम् ६ प्रसूतिजम् ७ कृच्छ्रम् ८ आभीलम् ९ । इत्यमरः । १ । ९ । ३ ॥ आबाधा १० वेदना ११ दुखम् १२ आमा- नस्यम् १३ । इति तट्टीकायां भरतः ॥ कला- कलम् १४ । इति वाचस्पतिः ॥ अर्त्तिः १५ आर्त्तिः १६ पीडनम् १७ बाधनम् १८ आम- नस्यम् १९ विबाधनम् २० विहेठनम् २१ विधा- नकम् २२ पीडितम् २३ । इति शब्दरत्नावली ॥ क्वाथः २४ अशर्म्म २५ । इति जटाधरः ॥ (यथा महानिर्व्वाणोक्तात्मज्ञाननिर्णये । “कुर्व्वाणः सततं कर्म्म कृत्वा कष्टशतान्यपि । तावन्न लभते मोक्षं यावज्ज्ञानं न जायते” ॥)

कष्टः, त्रि, (कष्यतेऽसौ । कष् + कर्मणि + क्तः ।) पी- डायुक्तः । गहनः । इत्यमरमेदिनीकरौ ॥ (यथा मनुः १२ । ७८ । “बन्धनानि च कष्टानि परप्रेष्यत्वमेव च” ॥ अतिकष्टकरम् । विषादादौप्रयोक्तव्यम् । यथा, महाभारते १ । १ । २१५ । “कष्टं ! युद्धे दशशेषाः श्रुता मे । त्रयोऽस्माकं पाण्डवानाञ्च सप्त” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष्ट नपुं।

दुःखम्

समानार्थक:पीडा,बाधा,व्यथा,दुःख,आमनस्य,प्रसूतिज,कष्ट,कृच्छ्र,आभील,भेद्यगामिन्,व्यलीक,अघ,प्रगाढ,अर्ति,अत्यय,आस्तु,बत,अहह

1।9।3।3।1

विष्टिराजूः कारणा तु यातना तीव्रवेदना। पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम्.। स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत्.।

 : तीव्रदुःखम्, यातना

पदार्थ-विभागः : , गुणः, मानसिकभावः

कष्ट वि।

दुष्प्रवेशः

समानार्थक:कलिल,गहन,कष्ट

3।3।39।2।1

इष्टिर्यागेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु। कष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु तु॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष्ट¦ न॰ कष--क्त
“कृच्छ्रगहनयोः कषः” पा॰ नेट्।

१ पीडायाम् व्यथायाम्,
“कष्टं युद्धे दश शेषाः श्रुतामे” भा॰ आ॰

३ अ॰।
“एकस्य कष्टस्य न यावदन्तम्” पञ्चत॰

२ पीडायुक्ते

३ गहने

४ पीडाकारके च त्रि॰
“बन्धनानिच कष्टानि परप्रेष्यत्वमेव च” मनुः।
“मोहादभूत् कष्टतमःप्रबोधः” रघु॰।
“शीतातपादिकष्टानि सहतेऽन्यानि सेवकः” पञ्चत॰
“ततः कष्टतरं नु किम्” गीता।
“एतत्कष्टतमंविद्याच्चतुष्कं कामजे गणे”।
“क्रोधजेऽपि गणे विद्यात्कष्टमेतत्त्रिकं बुधाः” मनुः।

५ कष्टसाध्ये बहूपायेनशाम्ये रिपुरोगादौ।
“स हि कष्टतमो रिपुः”
“कृतज्ञंधृतिमन्त च कष्टमाहुररिं बुधाः” मनुः। रोगाणां कष्टताच बह्वायाससाध्यता यथोक्तं सुश्रुते
“केवलः समदेहाग्नेःसुखसाध्यतमोगदः। अतोऽन्यथा त्वसाध्यः स्यात् कृच्छ्रो-व्यामिश्रलक्षणः। क्रियायास्तु गुणालाभे क्रियामन्यांप्रयोजयेत्। पूर्वस्यां शान्तवेगायां न क्रियासङ्करोहितः। गुणालाभेऽपि सपदि यदि सैव क्रिया हिता। कर्त्तव्यैव तदा व्याधिः कृच्छ्रसाध्यतमो यदि”। तथा चरोगः त्रिविधः साध्यः असाध्यः याप्यश्च। तत्रसाध्योऽपि द्विविधः अल्पायाससाध्योबह्वायाससाध्यश्चबह्वायाससाध्यस्यैव कष्टता। कष्टसाध्याश्च रोगाः सुश्रुतेतत्तत्स्थाने उक्तास्तत एबायसेयाः। कष्टसाधने

६ पापे च।
“कष्टाय क्रमणे” पा॰ क्यङ्
“कष्टायते कष्टं पापंकर्त्तुमुत्सहते इत्यर्थः” सि॰ कौ॰। अलङ्कारोक्ते

७ दोषभेदे यत्र सन्ध्यादिना अर्थस्य दुर्बोधत्वंतत्र कष्टत्वम्
“कष्टं तदर्थावगमोदुरायत्तोभवेद् यदि” इत्यक्तलक्षणात् तच्च सन्धिकृतम् अतएव सा॰ दर्पणे[Page1840-b+ 38]
“सन्धौ विश्लेषाश्लीलकष्टताः” इत्युक्त्वोदाहृतम्
“उर्व्यसावत्रचार्वङ्गि! मर्वन्ते चार्ववस्थितिः” इदन्तु वाक्यगतम्। क्लिष्टत्वमप्यस्यैव नामान्तरं
“अवाचकत्वं क्लिष्टत्वमिति” सा॰ द॰ पदगतदोषे उक्त्वा
“क्षीरोदजावसतिजन्मभुवः प्रसन्नाः” इति अत्र अर्थप्रतीतेर्व्य वहितत्व-मिति तत् लक्षयित्वा क्षीरोदजालक्ष्मीस्तस्या वंसतिःपद्मं तस्य जन्मभुवो जलानि” अर्थावबोधे व्यवधानंदर्शितम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Pained, suffering pain.
2. Impervious, impene- trable. n. (-ष्टं) Bodily pain or uneasiness. ind. (-ष्टं) An exclama- tion of regret or sorrow, ah, alas! E. कष् to hurt, participle affix क्त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष्ट [kaṣṭa], a. [कष्-क्त]

Bad, evil, ill, wrong; रामहस्तमनुप्राप्य कष्टात् कष्टतरं गता R.15.43. 'gone from bad to worse', (reduced to a wretched condition).

Painful, grievous; मोहादभूत्कष्टतरः प्रबोधः R.14.56; कष्टो$यं खलु भृत्य- भावः Ratn.1. full of cares; Ms.7.5; Māl.9.37; Y.3.29; कण्टा वृत्तिः पराधीना कष्टो वासो निराश्रयः । निर्धनो व्यवसायश्च सर्वकष्टा दरिद्रता ॥ Chān.59

Difficult; स्त्रीषु कष्टो$धिकारः V.3.1; U.7.

Hard to subdue (as an enemy); स हि कष्टतरो रिपुः Ms.7.186; कष्टमाहुररिं बुधाः 21.

Mischievous, hurtful, injurious; कष्टो$निलो हरति लम्पट एष नीवीम् Bhāg.5.2.14.

Boding evil.

Sorrowful, miserable.

ष्टम् Evil, difficulty, misery, suffering, hardship, pain; कष्टं खल्वनपत्यता Ś.6; धिगर्थाः कष्टसंश्रयाः Pt.1.163 v. l.

Sin, wickedness.

Difficulty, effort; कष्टेन somehow or other. -ष्टम् ind. Alas ! Ah ! हा धिक् कष्टम्; हा कष्टं जरयाभिभूतपुरुषः पुत्रैरवज्ञा- यते Pt.4.78. -Comp. -आगत a. arrived or got with difficulty. -कर a. giving pain, troublesome. -कारः -कारकः the world (as the scene of miseries). -तपस्a. one who practises hard penance; Ś.7. -भागिनेयः a wife's sister's son. -मातुलः a brother of a stepmother. -संश्रय a. attended with troubles; आये दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः Pt.1.163;2.121. -साध्य a. to be accomplished with difficulty. -स्थानम् a bad station, a difficult or disagreeable place.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष्ट mfn. (perhaps p.p. of कष्Pa1n2. 7-2 , 22 Vop. 26 , 111 Ka1s3. on Pa1n2. 6-2 , 47 ), bad R.

कष्ट mfn. ill , evil , wrong Mn. MBh. R. Sus3r. etc.

कष्ट mfn. painful Sus3r.

कष्ट mfn. grievous , severe , miserable Mn. xii , 78 Ya1jn5. iii , 29 Bhartr2.

कष्ट mfn. difficult , troublesome Mn. vii , 186 and 210

कष्ट mfn. worst Mn. vii , 50 and 51

कष्ट mfn. pernicious , noxious , injurious Sus3r.

कष्ट mfn. dangerous(= कृच्छ्र) Pa1n2. 7-2 , 22 Nal. xiii , 16

कष्ट mfn. inaccessible(= गहन) Pa1n2. 7-2 , 22

कष्ट mfn. boding evil Comm. on Pa1n2. 3-2 , 188

कष्ट m. " N. of a man "See. काष्टायन

कष्ट m. (in rhetoric) offending the ear Va1m. ii , 1 , 6

कष्ट m. forced , unnatural

कष्ट n. a bad state of things , evil , wrong

कष्ट n. pain , suffering , misery , wretchedness

कष्ट n. trouble , difficulty

कष्ट n. bodily exertion , strain , labour , toil , fatigue , weariness , hardship , uneasiness , inquietude (mental or bodily) R. Katha1s. Pan5cat. S3ak. Hit.

कष्ट n. कष्टात्-कष्टम्or कष्टतरम्, worse than the worst

कष्ट n. कष्टेनor कष्टात्, with great difficulty Pan5cat.

कष्ट n. ah! woe! alas! MBh. R. Mr2icch.

"https://sa.wiktionary.org/w/index.php?title=कष्ट&oldid=495519" इत्यस्माद् प्रतिप्राप्तम्