यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कांस्यम्, क्ली, (कंसाय पानपात्राय हितं कंसीयं तस्य विकारः इति । “कंसीयपरिसव्ययोरिति” । ४ । ३ । १६८ यञ् छस्य लुक् च । यद्वा कंसमेव इति स्वार्थे यञ् प्रत्ययः ।) ताम्ररङ्गमिश्रितधातुः । का~सा इति भाषा । तत्पर्य्यायः । कंसम् २ कंसास्थि ३ ताम्रार्द्धम् ४ । इति त्रिकाण्डशेषः ॥ सौराष्ट्रकम् ५ घोषम् ६ कांसीयम् ७ वह्निलोहकम् ८ दीप्तिलोहम् ९ घोरघुष्यम् १० दीप्तिकांस्यम् ११ कास्यम् १२ । अस्य गुणाः तिक्तत्वम् । उष्णत्वम् । चक्षुर्हितका- रित्वम् । वातकफविकारनाशित्वम् । रूक्षत्वम् । कषायत्वम् रुचिकारित्वम् । लघुत्वम् । दीपनत्वम् । पाचनत्वम् । पथ्यत्वञ्च । इति राजनिर्घण्टः ॥ अम्ल- रसत्वम् । विशदत्वम् । लेखनत्वम् । सारकत्वम् । पित्तनाशित्वम् इति राजवल्लभः ॥ दृढदेहायुर्वृद्धि- कारित्वम् । इति सुखबोधः ॥ (“उपधातुर्भवेत् कांस्यं द्वयोस्तरणिरङ्गयोः । कांस्यस्य तु गुणा ज्ञेयाः स्वयोनिसदृशा जनैः । संयोगजप्रभावेण तस्यान्येऽपि गुणाः स्मृताः ॥ कांस्यङ्कषायन्तिक्तोष्णं लेखनं विशदं सरम् । गुरुनेत्रहितं रूक्षं कफपित्तहरम्परम्” ॥ इति भांवप्रकाशस्य पूर्ब्बखण्डे १ भागे ॥) तत्शोधनमारणमाह । “अनेनैव विधानेन कांस्यं विड्गन्धलेपितम् । मारयेद्बुद्धिमान् तैद्यो मृतं भवति चूर्णवत्” ॥ अन्यच्च । “द्विक्षारं पञ्चलवणं सप्तधाम्लेन भावयेत् । कांस्यारकुटपत्राणि तेन कल्केन लेपयेत् । बद्ध्वा गजपुटे पच्याच्छुद्धिमायाति नान्यथा” ॥ अन्यच्च । “ताम्रवच्छोधन कृत्वा ताम्रवन्मारयेद्बुधः” ॥ अन्यच्च । “कज्ज्वलीं तत्समां दत्त्वा मर्द्दयेन्निम्बुकद्रवैः । एवं पुटत्रयेणैव निरुत्थं भस्म जायते” ॥ इति सुखबोधः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कांस्य¦ न॰ कंसाय पानपात्राय हितं कंसीयं तस्य विकारः यञ्छलीपः। ताम्ररङ्गजधातुभेदे कंसशब्दे विवृतिः।
“न पादौधावयेत् कांस्ये कदाचिदपि भाजने” मनुः। अस्य शोध-नविधिर्भावप्र॰ उक्तो यथा--
“पत्तलीकृत्य पत्राणिकांस्यस्याग्नौ प्रतापयेत्। निषिञ्चेत् तप्ततप्तानि तैले तक्रेच काञ्जिके। गोमूत्रे च कुलत्यानां कषाये च त्रिधात्रिधा। एवं कांस्यस्य रीतेश्च विशुद्धिः सम्प्रजायते”। मारणविधिस्तत्रैव
“अर्कक्षीरेण सम्पिष्टो गन्धकस्तेनलेपयेत्। समेन कांस्यपत्राणि शुद्धान्यम्लद्रवैर्मुहुः। ततो-मूषापुटे धृत्वा पचेद् गजपुटेन च। एवं पुटद्वयात् कांस्यंरीतिश्च म्रियते ध्रुवम्” तस्य गुणाः यथा--
“कांस्यं कषायंतीक्ष्णोष्णं लेखनं विशदं सरम्। गुरु नेत्रहितं रूक्षंकफपित्तहरं परम्” भावप्र॰।
“कांस्यमुपहितसरोज-सापतत्” माघः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कांस्य¦ mn. (-स्यः-स्यं) A goblet, a drinking vessel. n. (-स्यं)
1. White cop- per or brass, queen's metal, any amalgam zinc and copper.
2. A musical instrument, a sort of gong or plate of bell-metal struck with a stick or rod.
3. A measure: see कंस, &c. E. कसि to injure, ण्यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कांस्य [kāṃsya], a. [कंसाय पानपात्राय हितं कंसीयं तस्य विकारः यञ् छलोपः cf. P.IV.3.168] Made of white copper or bellmetal; न पादौ धावयेत्कांस्ये Ms.4.65.

स्यम् Bell-metal or white copper; Ms.5.114; Y.1.19.

A gong of bell-metal; Mb.4.

A kind of measure. -स्यः -स्यम् A drinking vessel (of brass), a goblet; Śi. 15.81. -Comp. -उपदोह a. giving a vesselful milk (a cow); Mb.3.186.11,13. -कारः (-री f.) a brazier, a worker in the bell-metal. कांस्यकाराः कलादाश्च Śiva. B.31.17. -तालः a cymbal. -दोह, -न a. giving a copper-pail of milk दत्त्वा धेनुं सुवृतां कांस्यदोहाम् Mb.13.17.33. सुवर्णशृङ्ग्यः सम्पन्नाः सवत्साः कांस्य-दोहनाः Rām.1.72.23.-नीलम्, -ली blue vitriol (as collyrium); Suśr.2.38.4.-पात्रम्, -पात्री, -भाजनम् a brass vessel, पुत्रा मे बहुक्षीर- घृतमोदनं कांस्यपात्र्यां भुञ्जीरन् Mbh. on P.VIII.2.3. -मलम् verdigris.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कांस्य mf( आ)n. (fr. कंस)consisting of white-copper or bell-metal or brass Ka1tyS3r. MBh. xiii , 94 , 91 R. Mn. iv , 65

कांस्य n. white-copper or bell-metal or brass , queen's metal , any amalgam of zinc and copper Mn. v , 114

कांस्य n. xi , 167 ; xii , 62 Ya1jn5. i , 190 Sus3r.

कांस्य n. a drinking vessel of brass , goblet S3a1n3khS3r. MBh. R.

कांस्य n. ( ifc. f( आ). ) Hcat. (See. AV. xviii , 3 , 17 )

कांस्य n. a kind of musical instrument (a sort of gong or plate of bell-metal struck with a stick or rod) L.

कांस्य n. a particular measure of capacity L.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कांस्य न.
काँसे का पात्र, जिसमें मधुपर्क उड़ेला जाता है, आप.गृ.सू. 13.1०। कांस्यस्थ (? स्था) ल न. काँसे से निर्मित पात्र (बटलोई)।, मा.श्रौ.सू. 4.6.3

"https://sa.wiktionary.org/w/index.php?title=कांस्य&oldid=495548" इत्यस्माद् प्रतिप्राप्तम्