यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्चनम्, क्ली, (काञ्चते दीप्यते इति । कचि ङ दीप्तौ + ल्युः ।) स्वर्णम् । इत्यमरः । २ । ९ । ९५ ॥ (यथा मनुः । २ । २३९ । “अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम्” ॥) पद्मकेशरम् । इति मेदिनी ॥ धनम् । नागकेशर- पुष्पम् । इति राजनिर्घण्टः ॥ (भावे ल्युट् । दीप्तिः । काञ्चनमये त्रि, यथा, सनुः । ५ । ११२ । “निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुध्यति” ॥)

काञ्चनः, पुं, (काञ्चते दीप्यते इति कर्त्तरि ल्युः ।) स्वनामख्यातपुष्पवृक्षविशेषः । रक्तश्वेतभेदेन स द्विविधः । आद्यस्य पर्य्यायः । रक्तपुष्पः २ कोवि- दारः ३ युग्मपत्रः ४ कुण्डलः ५ ॥ द्वितीयस्य पर्य्यायः । काञ्चनालः २ कर्ब्बुदारः ३ पाकारिः ४ । इति रत्नमाला ॥ अस्य राजनिर्घण्टोक्तगुणपर्य्यायौ कोविदारशब्दे द्रष्टव्यौ ॥ * ॥ चम्पकः । नाग- केशरः । उदुम्बरः । धुस्तूरः । इति मेदिनी ॥ (पुरूरवसो वंश उद्भवस्य भीमस्य पुत्त्रः । यथा, भागवते । ९ । १५ । ३ । “भीमस्तु विजयस्याथ काञ्चनो होत्रकस्ततः” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्चन नपुं।

सुवर्णम्

समानार्थक:स्वर्ण,सुवर्ण,कनक,हिरण्य,हेमन्,हाटक,तपनीय,शातकुम्भ,गाङ्गेय,भर्मन्,कर्बुर,चामीकर,जातरूप,महारजत,काञ्चन,रुक्म,कार्तस्वर,जाम्बूनद,अष्टापद,गैरिक,कलधौत,रजत,रै,भूरि,चन्द्र

2।9।95।1।4

चामीकरं जातरूपं महारजतकाञ्चने। रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्.।

वृत्तिवान् : स्वर्णकारः

 : अलङ्कारस्वर्णम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्चन¦ न॰ काचि--दीप्तौ भावे ल्युट्।

१ दीप्तौ। काचि--दीप्तौल्यु।

२ स्वर्णे अमरः।
“अमित्रादपि सद्वृत्तममेध्यादपिकाञ्चनम्”
“वार्य्यन्नगोमहीवासस्तिलकाञ्चनसर्पिषाम्”
“गोवीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः” मनुः।

३ पद्म-केशरे मेदि॰।

४ नागकेशरपुष्पे

५ धने राजनि॰।

६ चम्पके

७ नागकेशरवृक्षे

८ उदुम्बरे

९ धुस्तूरे

१० स्वनाम-ख्याते वृक्षे च पु॰ मेदि॰। स्वार्थे कन्। काञ्चनवृक्षे। काञ्चनवृक्षश्च सुश्रुते वातशमनतयोक्तः। भद्रदारुकुष्ठेत्या-द्युपक्रमे
“काञ्चनकभार्गीत्यादिना
“समासेन वातसंशमनो-वर्ग” इति।
“काञ्चनारः काञ्चनको गण्डारिः शोण-पुष्पकः। कोविदारश्च मरिचः कुद्दालो युग्मपत्रकः। कुण्डली ताम्रपुष्पश्चाश्मन्तकः स्वल्पकोरकः। काञ्चनारोहिमग्राही तुवरः श्लेष्मपित्तनुत्। कृमिकुष्ठगुदभ्रंशगण्डमालाव्रणापहः। कोविदारोऽपि तद्वत् स्यात्तयोः पुष्पं लघु स्मृतम्। रूक्षं संग्रांहि पित्तास्रप्रदर-क्षयकासनुत्” भावप्र॰ तत्पर्य्यायभेदगुणाद्युक्तम्। काञ्चनमिव कायति कै--क। हरिताले न॰ राजनि॰शालिभेदे सुश्रु॰
“लोहितकशालिकलमेत्याद्युपक्रमे” दीर्घशूककाञ्चनकेत्यादि
“महादूषकप्रभृतयः शालयः” इत्य-न्तम्। काञ्चनस्य विकारः अण्।

११ काञ्चनविकारे त्रि॰।
“स काञ्चने यत्र मुनेरनुज्ञया” माघः।
“निर्लेपं काञ्चनं[Page1857-b+ 38] भाण्डमद्भिरेव विशुध्यति” मनुः। स्त्रियां ङीप्।
“तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिः” मेघ॰। किमः द्वितीयान्तात् स्त्रियां चन मुग्ध॰।

१३ काञ्चिदि-त्यर्थे अव्य॰।
“न च काञ्चन काञ्चनसद्मचितिम्” भटुः।
“न काञ्चन परिहरेत्” छा॰ उ॰। द्विपदमिति बहवः। काचि बन्धने भावे ल्युट्।

१२ बन्धने न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्चन¦ mfn. (-नः-नी-नं) Golden, of gold. n. (-नं)
1. Gold.
2. Wealth.
3. A filament of the lotus. m. (-नः)
1. Mountain ebony, (Bauhinia variegata, &c.)
2. A tree bearing a yellow fragrant flower, (Michelia champaca.)
3. Another plant, (Mesua ferrea:) see नागकेसर।
4. Glomerous fig-tree: see उडुम्बर।
5. Common thorn apple, (Datura metel.) f. (-नी)
1. Turmeric.
2. A yellow pigment. E. कचि to shine, &c. ल्युट् affix, the radical vowel lengthened; this etymology gives the meaning gold, the others refer to their colour, &c. in which they resemble the metal. [Page171-a+ 60]

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्चन [kāñcana], a. (-नी f.) [काञ्च्-ल्युट्] Golden, made of gold; तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिः Me.81; काञ्चनं वलयम् Ś.6.8; Ms.5.112.

नम् Gold; समलोष्टाश्मकाञ्चनः Bg. 14.24. (ग्राह्यम्) अमेध्यादपि काञ्चनम् Ms.2.239.

Lustre, brilliancy.

Property, wealth, money.

The filament of a lotus.

Yellow orpiment.

A binding.

नः The Dhattūra plant.

The Champaka tree.

नी Turmeric.

Yellow orpiment.-Comp. -अङ्गी a woman with a golden (i. e. yellow) complexion; त्वं चेदञ्चसि काञ्चनाङ्गि वदनाम्भोजे विकासश्रियम् Bv.2.72. -कन्दरः a gold-mine. -गिरिः N. of the mountain Meru; Bhāg.5.16.28. -भूः f.

golden (yellow) soil.

gold-dust. -सन्धिः a treaty of alliance between two parties on terms of equality; cf. संगतः सन्धिरेवायं प्रकृष्टत्वात्सुवर्णवत् । तथान्यैः सन्धिकुशलैः काञ्चनः स उदाहृतः ॥ H.4.113.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्चन n. gold Naigh. i , 2 Mn. Ya1jn5. Nal. Sus3r. Hit.

काञ्चन n. money , wealth , property W.

काञ्चन n. the filament of the lotus L.

काञ्चन mf( ई)n. golden , made or consisting of gold MBh. R. Mn. Megh. S3ak. BhP.

काञ्चन m. N. of several edible plants (Mesua ferrea L. ; Michelia Champaca L. ; Ficus glomerata L. ; Bauhinia variegata L. ; Datura fastuosa L. ; Rottleria tinctoria L. )

काञ्चन m. a covenant binding for the whole life Ka1m. (= Hit. )

काञ्चन m. a particular form of temple Hcat.

काञ्चन m. N. of the fifth बुद्धL.

काञ्चन m. N. of a son of नारायण(author of the play धनंजय-विजय)

काञ्चन m. N. of a prince(See. काञ्चन-प्रभ)

काञ्चन m. a kind of Asclepias( स्वर्णक्षीरी) L.

काञ्चन m. a plant akin to the Premna spinosa L.

काञ्चन m. a kind of yellow pigment.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of भीम, and father of Hotraka (Suhotra-वि। प्।). भा. IX. १५. 3; Vi. IV. 7. 3.
(II)--an यक्ष. वा. ६९. १२.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀÑCANA I : One of the two warriors given to Skandadeva by Mahāmeru. The other warrior was named Meghamālī. (M.B. Śalya Parva, Chapter 45, Verse 47).


_______________________________
*1st word in left half of page 384 (+offset) in original book.

KĀÑCANA II : A King of the Pūru dynasty. See under the word PŪRUVAṀŚA.


_______________________________
*2nd word in left half of page 384 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्चन न.
ग्रहों की पूजा में बुध-ग्रह के लिए अर्पित किया जाने वाला (स्वर्ण); अगिन्वे.गृ.सू. 2.5.1ः45।

"https://sa.wiktionary.org/w/index.php?title=काञ्चन&oldid=495637" इत्यस्माद् प्रतिप्राप्तम्