यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्बरी, स्त्री, (कु कृष्णवर्णं नीलवर्णमित्यर्थः अम्बरं वस्त्रं यस्य । कोः कदादेशः । कदम्बरो बलरामस्तस्य प्रिया । कदम्बर + अण् ततः स्त्रियां ङीप् । यद्वा कदम्बे जातो रसः कादम्बः । “तत्रजातः” । ४ । ३ । २५ । इत्यण् । कादम्बं राति ददा- तीति । रादाने + “आतोऽनुपसर्गे कः” । ३ । २ । ३ । इति कः । गौरादित्वात् ङीष् ।) मदिरा । इति मेदिनी ॥ (यथा, -- “कादम्बरीमदविधूर्णितलोचनस्य युक्तं हि लाङ्गलभृतः पतनं पृथिव्याम्” ॥ इत्युद्भटः ॥) कोकिला । स्वरस्वती । शारिकाप- क्षिणी । इति मेदिनी ॥ (वाणभट्टविरचितकाव्य- विशेषः । स्वनायिकानाम्नैव प्रसिद्धोऽयं ग्रन्थः । इयं कादम्बरी तु वाणभट्टेनासमापितां पुनरस्य पुत्त्रेण समाप्तिं नीता ॥ नायिकाविशेषः । सातु तुम्बुरु- प्रभृतीनां षण्णां गन्धर्व्वाणां ज्येष्ठस्य हंस इत्याख्यया प्रसिद्धस्य गन्धर्व्वस्य कन्या । अस्या जननी सोम- मयूखसम्भवाप्सरसां कुले जाता गौरीति नाम्ना प्रसिद्धा । अस्या अन्यद्विवरणन्तु कादम्बर्य्यां द्रष्ट- व्यम् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्बरी स्त्री।

सुरा

समानार्थक:सुरा,हलिप्रिया,हाला,परिस्रुत्,वरुणात्मजा,गन्धोत्तमा,प्रसन्ना,इरा,कादम्बरी,परिस्रुत्,मदिरा,कश्य,मद्य,वारुणी,मधु,हाल,अनुतर्ष

2।10।39।2।4

सुरा हलिप्रिया हाला परिस्रुद्वरुणात्मजा। गन्धोत्तमाप्रसन्नेराकादम्बर्यः परिस्रुता॥

अवयव : सुराकल्कः,सुरामण्डः

वृत्तिवान् : शौण्डिकः

 : मधुकपुष्पकृतमद्यम्, इक्षुशाकादिजन्यमद्यम्, नानाद्रव्यकृतमद्यम्

पदार्थ-विभागः : खाद्यम्,पानीयम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्बरी¦ स्त्री कुत्सितं मलिनमम्बरं यस्य कोः कदादेशःकदम्बरो लीलाम्बरी बलभद्रस्तस्य प्रिया अण्। हलि-प्रियायाम्, मदिरायाम्। अस्यानिरुक्तिर्बलभद्रप्रि-यता च हरि॰

९८ अ॰ दर्शिता यथा
“अथ सङ्क-र्षणः म्यीमान् विना कृष्णेन वीर्य्यवान्। चचार तस्यशिखरे नगस्य नगसन्निभः। प्रफुल्लस्य कदम्बस्यप्रच्छाये निषषाद ह। वायुना मदगन्धेन वीज्यमानःसुखेन वै। तस्य तेनानिलौघेन सेव्यमानस्प तत्र वै। मदसंस्पर्शजो गन्घः संस्पृशन् घ्राणमागतः। तृष्णा चैनंविवेशाशु वारुणोप्रभवा तदा। शुशोष च मुखं तस्यमत्तस्येवापरेऽहनि। स्मारितः स पुरावृत्तममृतप्राशनं[Page1882-a+ 38] विभुः। तृषितोमदिरान्वेवी ततस्तं तरुमैक्षत। तस्यप्रावृषि फुल्लस्य यदम्भो जलदोज्झतम्। तत्कोटरस्थंमदिरा व्यजायत मनोहरा। तान्तु तृष्णाभिभूतात्मा पिब-न्नार्त्तैवासकृत्। मदाच्च चलिताकारः समजायत सप्रभुः। तस्य मत्तस्य वदनं किञ्चिच्चलितलोचनम्। घूर्णि-ताकारमभवच्छरत्कालेन्दुसप्रभम्। कदम्बकोटरे जातानाम्ना कादम्बरीति सा। वारुणी रूपिणी तत्र देवानाम-मृतारणी। कादम्बरीमदकलं विदित्वा कृष्णपूर्ब्बजम्। तिस्रस्त्रिदशनार्य्यस्तमुपतस्थुः प्रियंवदाः। मदिरा रूपिणीभूत्वा कान्तिश्च शशिनः प्रिया। श्रीश्च देवी वरिष्ठा स्त्रीस्वयमेवाम्बुजध्वजा”।
“कादम्बरीमदविघूर्णितलोचनस्ययुक्तं हि लाङ्गलभृतः पतनं पृथिव्याम्” उद्भ॰। तेनकादम्बं कदम्बकोटरमुत्पत्तिस्थानत्वेन लाति ला--कलस्य रः मत्वर्थे र वेति बोध्यम्। कादम्बं रसं रातिरा--क गौरा॰ ङीष्।

२ कोकिलायाम्,

३ सरस्वत्याम्,

४ शारिकायाञ्च मेदि॰ वाणभट्टरचिते

५ कथाभेदे। सा च वाणभट्टेन सामिकृता तत्पुत्रेण समाप्तिं नीता।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कादम्बरी f. the female of the Kokila or Indian cuckoo L.

कादम्बरी f. the preaching-crow L.

कादम्बरी f. N. of सरस्वतीL.

कादम्बरी f. of a daughter of चित्र- रथand मदिरा

कादम्बरी f. of a celebrated story by बाणnamed after her.

कादम्बरी f. of बरSee.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a योगिनी। Br. IV. ३१. ८०.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀDAMBARĪ I : A river flowing westwards in Jambūdvīpa. In Bhāgavata 5th Skandha it is said that this river got its name “Kādambarī” because it had the hollow trunk of a Kadamba tree as its source.


_______________________________
*2nd word in left half of page 363 (+offset) in original book.

KĀDAMBARĪ II : An excellent story book in prose written in Sanskrit by the great Sanskrit poet Bāṇabhaṭṭa. Kādambarī is the heroine of the story.


_______________________________
*3rd word in left half of page 363 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कादम्बरी&oldid=495705" इत्यस्माद् प्रतिप्राप्तम्