कामला
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कामला, स्त्री, पुं, (कामल + टाप् ।) खनामख्यात- रोगः । अथ पाण्डुरोगभेदस्य कामलाया निदान- पूर्ब्बिकां संप्राप्तिमाह । “पाण्डुरोगी तु योऽत्यर्थं पित्तलानि निषेवते । तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते” ॥ पित्तं कर्तृ । दग्ध्वा संदूष्य । रोगाय कामला- रूपाय । पाण्डुरोगिण एवातिशयितपित्तलसेवया कामला भवति । नायं नियमः । किन्तु कामला स्वतन्त्रापि भवति । यथा राजयक्ष्मा कासादुपे- क्षिताद्भवति । नायं नियमः । किन्तु राजयक्ष्मा स्वतन्त्रापि भवति । तद्वदेषापि ॥ * ॥ कामलाया लक्षणमाह । “हारिद्रनेत्रः सुभृशं हारिद्रत्वङ्नखाननः । पीतरक्तशकृन्मूत्रो भेकवर्णो हतेन्द्रियः ॥ दाहाविपाकदौर्ब्बल्यसदनारुचिकर्षितः” ॥ हारिद्रं हरिद्रावर्णम् । पीतरक्तशकृन्मुत्रः । पीते रक्ते वा शकृन्मूत्रे यस्य सः । भेकवर्णः वृहद्भेक- वर्णः । तस्या भेदावाह । “कामला बहुपित्तैषा कोष्ठशाखाश्रया मता” । एषा कोष्ठाश्रया अपरा शाखाश्रया । तत्र कोष्ठकामलामाह । “कालान्त- रात् खरीमूता कृच्छ्रा स्यात् कुम्भकामला” । कालान्तरात् खरीभूता अतिरूक्षीकृतसर्व्वधातुः । कुम्भकामला कोष्ठकामलेत्यर्थः । सा कृच्छ्रा कष्ट- साध्या ॥ * ॥ कुम्भकामलिनोऽरिष्टलक्षणमाह ॥ “छर्द्यरोचकहृल्लासज्वरक्लमनिपीडितः । नश्यति श्वासकासार्त्तो विड्भेदी कुम्भकामली” ॥ उभयोरपि कामलयोररिष्टलक्षणमाह । “कृष्णपीतशकृन्मूत्रो भृशं शूनश्च मानवः । सरक्ताक्षिमुस्वच्छर्द्दिविन्मूत्रो यश्च ताम्यति ॥ दाहारुचितृडानाहतन्द्रामोहसमन्वितः । नष्टाग्निसंज्ञः क्षिप्रं हि कामलावान् विपद्यते” ॥ * ॥ अथ कामलाचिकित्सा । “त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसः । प्रातर्म्माक्षिकसंयुक्तः शीतलः कामलापहः ॥ अञ्जने कामलार्त्तानां द्रोणीपुष्पीरसी हितः । गुडूचीपत्रकल्कं वा पिबेत्तक्रेण कामली ॥ धात्रीलोहरजोव्योषनिशाक्षौद्राज्यशर्कराः । लीढा निवारयन्त्याशु कामलामुद्धतामपि ॥ कुम्भाख्यकामलायान्तु हितः कामलिको विधिः । गोमूत्रेण पिबेत् कुम्भकामलायां शिलाजतु ॥ दग्ध्वाक्षकाष्ठैर्मलमायसन्तु गोमूत्रनिर्व्वापितमष्टवारान् । विचूर्णलीढं मधुनाचिरेण कुम्भाह्वयं पाण्डुगदं निहन्ति” ॥ इति भावप्रकाशः ॥ * ॥ “मरीचतिलपुष्पाभ्यामञ्जनं कामलापहम्” ॥ इति गारुडे १८७ अध्यायः ॥ “तण्डुलीयकगोक्षुरमूलं पीतं पयोऽन्वितम् । कामलादिहरं प्रोक्तं मुखरोगहरं तथा” ॥ इति तत्रैव १८८ अध्यायः ॥
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कामला f. N. of an अप्सरस्L.
Purana index
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a goddess enshrined at कमलालय. M. १३. ३२.