यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामी, [न्] पुं, (अतिशयेन कामयते । कम + णिच् + णिनिः ।) चक्रवाकः । पारावतः । कामुकः । इति मेदिनी ॥ (यथा, मेघदूते । ७४ । “सभ्रूभङ्गं प्रहितनयनैः कामिलक्ष्येष्वमोघैः” ॥) चटकः । इति शब्दरत्नावली ॥ चन्द्रः । इति त्रि- काण्डशेषः ॥ ऋषभौषधिः । सारसपक्षी । इति राजनिर्घण्ठः ॥ (सर्व्वकामवत्त्वात् विष्णुः । यथा, महामारते १३ । १४९ । ८३ । “कामदेवः कामपालः कामी कान्तः कृतागमः” ॥)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामिन्¦ त्रि॰ कम--णिङ्--णिनि।

१ कामनायुक्ते

२ अति-शयस्मरवेगयुक्ते च।
“स बभूव ततः कामी तया सार्द्ध-मकामया” भा॰ आ॰

४१

८४ श्लो॰। स्त्रियां ङीप् ङी-बन्तः

३ स्त्रीसामान्ये। काम + भूम्नि प्राशस्त्ये वा इनि ङीप्।

४ अतिस्मरवेगयुक्तायां स्त्रियां

५ सुन्दर्य्यां च स्त्री अमरः।
“केषां नैषा भवतिकविता कामिनी कौतुकाय” प्रसन्नरा॰।
“मधूनि वक्त्राणि च कामिनीनामामोदकर्म्म व्यति-हारमीयुः” माघः।

६ भीरुस्त्रियां

७ वन्दायां (पर-गाछा) मेदि॰।

८ दारुहरिद्रायां सुन्दरवर्णवत्त्वात्तस्या तथात्वम्

९ सुरायाञ्च स्त्री राजनि॰। तस्याः कामा-धिक्यसम्पादकत्वात्तथात्वम्। प्रशस्तः कामोऽस्त्यस्य इनि।

१० सत्यसङ्कल्पे परमेश्वरे पु॰।
“कामी कान्तः कृतागमः” विष्णुस॰।

११ चक्रवाके

१२ पारावते च पुंस्त्री मेदि॰

१३ चटके पुंस्त्री शब्दर॰ एतेषां कामातिशयवत्त्वात्तथा-त्वम्।

१४ चन्द्रे पु॰ त्रिका॰ कामोद्दीपकत्वात्तस्य तथात्वम्।

१५ ऋषभोषधौ पु॰ सेवनेन कामपोषणात्तस्य तथात्वम्।

१६ सारसपक्षिणि च पुंस्त्री राजनि॰ कामुकत्वात्तस्यतथात्त्वम्। सर्वत्र स्त्रियां ङीप्

१७ कामशक्तिभेदे स्त्री। कामिनीविरागानुरागचिह्नतत्सेवप्रकारादिः वृ॰ स॰ दर्शितोयथा
“शस्त्रेण वेणीविनिगूहितेन विदूरथं (राजभेदम्) स्वामहिषी जघान। विषप्रदिग्धेन च नूपुरेण देवी विरक्ताकिल काशीराजम्। एवं विरक्ता जनयन्ति दोषान्प्राणच्छिदोऽन्यैरनुकीर्त्तितैः किम्?। रक्ता विरक्ताःपुरुषैरतोऽर्थात् परीक्षितव्याः प्रमदाः प्रयत्नात्। स्नेहं मनोमवकृतं कथयन्ति भावान्नाभीभुजस्तनविभूषण-दर्शनानि। वस्त्राभिसंयमनकेशविमोक्षणानि भ्रूक्षेपकम्पित-कटाक्षनिरीक्षणानि। उच्चेःष्ठीवनमुत्कटप्रहसितं शर्य्या-सनोत्सर्पणं गात्रास्फोटनजृम्भणानि सुलभद्रव्याल्प-सम्प्रार्थना। बालालिङ्गनचुम्बनान्यमिमुखे सख्याःसमालोकनं दृक्पातश्च पराङ्नुखे गुणकथा कर्णस्यकण्डूयनम्। इमां च विन्द्यादनुरक्तचेष्टां प्रियाणि वक्ति[Page1904-a+ 38] स्वधनं ददाति। विलोक्य संहृष्यति वीतरोषा प्रमार्ष्टिदोषान् गुणकीर्तनेन। तन्मित्रपूजा तदरिद्विषत्वं कृतस्मृतिःप्रोषितदौर्मनस्यम्। स्तनौष्ठदानान्युपगूहनं च स्वेदोऽथचुम्बाप्रथमाभियोगः। विरक्तचेष्टा भ्रुकुटीमुखत्वं पराङ्मु-खत्वं कृतविस्मृतिश्च। असंभ्रमोदुष्परितोषता च तद्द्विष्ट-मैत्री परुषं च वाक्यम्। स्पृष्ट्वाथवालोक्य धुनोति गात्रकरोति गर्वं न रुणद्धि यान्तम्। चुम्बाविरामे वदनंप्रमार्ष्टि पश्चात्समुत्तिष्ठति पूर्वसुप्ता। भिक्षाणिका प्रव्र-जिता दासी धात्री कुमारिका रजिका। मालाकारीदुष्टाङ्गना सखी नापिती दूत्यः। कुलजनविनाशहेतु-र्दूत्यो यस्मादतः प्रयत्नेन। ताभ्यः स्त्रियोऽभिरक्ष्यावंशयशोमानवृद्यथम्। रात्रीविहारजागररोगव्यपदेश-परगृहेक्षणिकाः। व्यसनोत्सवाश्च संकेतहेतवस्तेषु रक्ष्या-श्च। आदौ नेच्छति नोज्झति स्मरकथां व्रीडावि-मिश्रालसा मध्ये ह्रीपरिवर्ज्जिताभ्युपरमे लज्जाविन-म्रानना। भावैर्नैकविधैः करोत्यभिनयं भूयश्च या सादराबुद्धा पुम्प्रकृतिं च यानुचरति ग्लानेतरैश्चेष्टितैः। स्त्रीणांगुणा यौवनरूपवेषदाक्षिण्यविज्ञानविलासपूर्वाः। स्त्री-रत्नसञ्ज्ञा च गुणान्वितासु स्त्रीव्याधयो ऽन्याश्चतुरस्यपुंसः। न ग्राम्यवर्णैर्मलदिग्धकाया निन्द्याङ्गसम्बन्धिकथांच कुर्य्यात्। न चान्यकार्य्यस्मरणं रहःस्था मनो हिमूलं हरदग्धमूर्त्तेः। श्वासं प्रकम्पेण समं त्यजन्ती बाहू-पधानस्तनदानदक्षा। सुगन्धकेशा प्रसभोपरागा सुप्तेऽनुसुप्ता प्रथमं विबुद्धा। दुष्टस्वभावाः परिवर्जनीयाविमर्दकालेषु च न क्षमा याः। यासाममृग्वा सितनील-पीतमाताम्रवर्णं च न ताः प्रशस्ताः। या स्वप्नशीला बहु-रक्तपित्ता प्रवाहिनी वातकफातिरिक्ता। महाशना स्वेद-युताङ्गदुष्टा या ह्रस्वकेशी पलितान्विता च। मांसानियस्याश्च चलन्ति नार्य्या महोदरा खिक्खिमिनी च यास्यात्। स्त्रीलक्षणे याः कथिताश्च पापास्ताभिर्न कुर्य्या-त्सह कामधर्म्मम्। शशशोणितसङ्काशं लाक्षारससन्नि-काशमथवा यत्। प्रक्षालितं विरज्यति यच्चासृक् तद्भवेच्छु-द्धम्। यच्छब्दवेदनावर्जितं त्र्यहात्सन्निवर्तते रक्तम्। तत् पुरुषसम्प्रयोगादविचारं गर्भतां याति। न दिनत्रयंनिषेवेत् स्नानं माल्यानुलेपनं च स्त्री। स्नायाच्चतुर्थ-दिवसे शास्त्रोक्तेनोपदेशेन। पुष्पस्नानौषधयो याःकथितास्ताभिरम्बुमिश्राभिः। स्नायात्तथात्रमन्त्रः स एवयस्तत्र निर्द्दिष्टः। युग्मासु किल मनुष्या निशासु नार्यो[Page1904-b+ 38] भवन्ति विषमासु। दीर्घायुषः सुरूपाः सुखिनश्च विकृष्ट(प्रशस्त) युग्मासु। दक्षिणपार्श्वे पुरुषो, वामे नारी,यमावुभयसंस्थौ। यदुदरमध्योपगतं नपुंसकं तन्निबोद्ध-व्यम्। केन्द्रत्रिकोणेषु शुभस्थितेषु लग्ने शशाङ्के च शुभैःसमेते। पापैस्त्रिलाभारिगतैश्च यायात् पुञ्जन्मयोगेषु चसम्प्रयोगम्। न नखदशनविक्षतानि कुर्य्याद् ऋतुसमयेपुरुषः स्त्रियाः कथञ्चित्। ऋतुरपि दश षट् चवासराणि प्रथमनिशात्रितयं न तत्र गम्यम्”।
“आयुःक्षयभयाद्विद्वान्नाह्नि सेवेत कामिनीम्। अवशोयदि सेवेत तदा ग्रीष्मवसन्तयोः” इति सामान्यत उक्त्वाबालाद्यवस्थापन्नकामिनीनां सेवने फलम्, कामिनीसेवनप्रकारश्च भावप्र॰ दर्शितो यथा
“बालेति गीयते नारी यावद्वर्षाणि षोडश। ततस्तुतरुणी ज्ञेया द्वात्रिंशद्वत्सरावधि। तदूर्द्ध्वमधिरूढास्यात् पञ्चाशद्वत्सरावधि। वृद्धा तत्परतो ज्ञेया सुरतोत्स-ववर्जिता। अधिरूढा प्रौडा। निदाघशरदोर्बाला हिताविषयिणी (भोगार्हा) मता। तरुणी शीतसमये प्रौढा वर्षा-वसन्तयोः। नित्यम्बाला सेव्यमाना नित्यं वर्द्धयते बलम्। तरुणी ह्णासयेच्छक्तिं प्रौढोद्भावयते जराम्। सद्योमांसन्नवञ्चान्नं बाला स्त्री क्षीरभोजनम्। घृतमुष्णो-दके स्नानं सद्यः प्राणकराणि षट्। पूति मांसं स्त्रियोवृद्धा बालार्कस्तरुणं दधि। प्रभाते मैथुनं निद्रा सद्यःप्राणहराणि षट्। प्राणशब्दोऽत्र बलवाचकः। बालार्कःकन्यार्कः। वृद्धोऽपि तरुणीं गत्वा तरुणत्वमवाप्नुयात्। वयोऽधिकां स्त्रियङ्गत्वा तरुणः स्थविरायते। आयु-ष्मन्तो मन्दजरा वपूर्वर्णबलान्विताः। स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संमताः। सेवेत कामतः कामं बला-द्वाजीकृतो हिमे। प्रकामन्तु निषेवेत मैथुनं शिशि-रागमे। त्र्यहाद्वसन्तशरदोः पक्षात् वृष्टिनिदाघयोः। सुश्रुतस्तु
“त्रिभिस्त्रिभिरहोभिर्हि समेयात्प्रमदां नरः। सर्व्वेष्वृतुषु घर्म्मेषु पक्षात्पक्षाद्व्रजेद्बुधः”। समेयात् सङ्ग-च्छेत घर्म्मेषु ग्रीष्मेषु।
“शीते रात्रौ दिवा ग्रीष्मे वसन्ते तुदिवानिशि। वर्षासु वारिदध्वाने शरत्सु सरसः स्मरः। उपेयात् पुरुषो नारीं सन्ध्ययोर्नच पर्व्वसु। गोसर्गेचार्द्धरात्रे च तथा मध्यदिनेऽपि च। विहारम्भार्य्ययाकुर्य्याद्देशेऽतिशयसंवृते। रम्ये श्रव्याङ्गनागाने सुगन्तेमुखमारुते। देशे गुरुजनासन्ने विवृतेऽतित्रपाकरे। श्रूयमाणे व्यथाहेतुवचने न रमेत ना। स्नातश्चन्दनति-[Page1905-a+ 38] प्ताङ्गः सुगन्धः सुमनोऽन्वितः। भुक्तवृष्यः सुवसनःसुवेशः समलङ्कृतः। ताम्बूलवदनः पत्न्यामनुरक्तो-ऽधिकस्मरः। पुत्रार्थी पुरुषो नारीमुपेयाच्छयनेशुभे। अत्याशितोऽधृतिः क्षुद्वान् सव्यथाङ्गः पिपासितः। बालो वृद्धोऽन्यवेगार्त्तस्त्यजेद्रीगी च मैथुनम्। रोगी मैथुनसंवर्द्धनीयरोगयुक्तः। भार्य्यां रूपगुणो-पेतां तुल्यशीलां कुलोद्भवाम्। अभिकामोऽभिकामान्तुहृष्टो हृष्टामलङ्कृताम्। सेवेत प्रमदां युक्त्या वाजी-करणवृहितः। रजस्वलामकामाञ्च मलिनामप्रिया-न्तथा। वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम्। हीनाङ्गीं गर्भिणीं द्वेष्यां योनिरोगसमन्विताम्। सगो-त्राङ्गुरुपत्नीञ्च तथा प्रव्रजितामपि। नाभिगच्छेत्पुमान्नारीं भूरिवैगुण्यशङ्कया। रजस्वलाङ्गतवतो नर-स्यासंयतात्मनः दृष्ट्यायुस्तेजसां हानिरधर्मश्च ततोभवेत्। लिङ्गिनीं गुरुपत्नीञ्च सगोत्रामथ पर्व्वसु। वृद्धाञ्च सन्ध्ययोश्चापि गच्छतो जीवनक्षयः। लिङ्गिनींप्रब्रजिताम्। गर्भिण्यां गर्भपीडा स्याद्व्याधितायांबलक्षयः। हीनाङ्गीं मलिनां द्वेष्यां क्षामाम्बन्ध्यामसंवृते। देशेऽभिगच्छतो रेतः क्षीणं म्लानं मनो भवेत्। गर्भिणीं गर्भवासदिवसात् द्वितीये मासि, गर्भस्थिते-रनिश्चये यथोक्तनक्षत्रादिलाभाभावे वा तृतीये मासिपुंसवने कृते नाभिगच्छेत्। यतः पुंसवनानन्तरमाहव्यासः
“ततस्त्यजेन्नदीतीरं देवखातोदकं तथा। भर्त्तुःशय्यां मृतापत्यां तथैवामिषभोजनम्”। अन्यच्च
“आमिष-स्याशनं यत्नात्प्रमदा परिवर्ज्जयेत्। देवारामनदी-यानं प्रयोगं पुरुषस्य चेति”। क्षुधितः क्षुब्धचित्तश्चमध्याह्ने तृषितोऽबलः। स्थितस्य हानिं शुक्रस्य वायोःकोपञ्च विन्दति। व्याधितस्य रुजा प्लीहा मूर्च्छा मृत्युश्चजायते। प्रत्यूषे चार्द्धरात्रे च वातपित्ते प्रकुप्यतः। तिर्य्यग्योनावयोनौ वा दुष्टयोनौ तथैव च। उपदं-शस्तथा वायोः कोपः शुक्रसुखक्षयः। उच्चारिते मूत्रितेच रेतसश्च विधारणे। उत्ताने च भवेत् शीघ्रं शुक्रा-श्मर्य्यास्तु सम्भवः। सर्व्वमेतत्त्यजेत्तस्माद्यतो लोकद्वयाऽहितम्। शुक्रन्तूपस्थितम्मोहान्न सन्धार्य्यं कदाचन। स्नानं सशर्क्वरं क्षीरं भक्ष्यमैक्षवसंयुतम्। वातोमांसरसःस्वप्नो सुरतान्ते हिता अमी। शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयाः। अतिव्यवायाज्जायन्ते रोगाश्चाक्षे-प्रकांदयः”। [Page1905-b+ 38]

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामिन्¦ mfn. (-मी-मिनी-मि)
1. Impassioned, fond, loving, wanton.
2. Cu- pidinous, desirous. m. (-नी)
1. The moon.
2. A lover, an uxorious husband.
3. The ruddy goose.
4. A pigeon.
5. A sparrow. f. (-नी)
1. A loving or affectionate woman.
2. A timid woman.
3. A woman in general.
4. Spirituous liquor.
5. A climbing plant. E. कम् to desire, and णिनि aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामिन् [kāmin], a. (-नी f.) [कम्-णिनि]

Lustful.

Desirous.

Loving, fond. -m.

A lover, a lustful person (paying particular attention to ladies); त्वया चन्द्रमसा चातिसन्धीयते कामिजनसार्थः Ś.3; त्वां कामिनो मदनदूतिमुदाहरन्ति V.4.11; Amaru.2; M.3.14.

A luxurious husband.

The ruddy goose or चक्रवाक bird.

A sparrow.

An epithet of Śiva.

The moon.

A pigeon.

The Supreme Being.

नी A loving, affectionate, or fond woman; Ms.8.112.

A lovely or beautiful woman; उदयति हि शशाङ्कः कामिनीगण्डपाण्डुः Mk.1.57; केषां नैषा कथय कविताकामिनी कौतुकाय P. R.1.22.

A woman (in general); मृगया जहार चतुरेव कामिनी R.9.69; Me.65; Ṛs.1.28.

A timid woman.

Spirituous liquor.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामिन् mfn. desirous , longing after( acc. or in comp. )

कामिन् mfn. loving , fond , impassioned , wanton

कामिन् mfn. amorous , enamoured , in love with( acc. or with सहor सा-र्धम्) RV. AV. S3a1n3khS3r. MBh. R. S3ak. etc.

कामिन् m. a lover , gallant , anxious husband

कामिन् m. the ruddy goose( चक्र-वाक) L.

कामिन् m. a pigeon L.

कामिन् m. Ardea Sibirica L.

कामिन् m. a sparrow L.

कामिन् m. N. of शिवL.

"https://sa.wiktionary.org/w/index.php?title=कामिन्&oldid=272137" इत्यस्माद् प्रतिप्राप्तम्