कारक
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कारकम्, क्ली, (क्रियाभिरन्वितं इति । भाष्यमते तु करोति क्रियां निर्वर्त्तयतीति । कृ + कर्त्तरि ण्वुल् ।) क्रियानिमित्तं लोकतः सिद्धम् । इति दुर्गसिंहः ॥ फणिभाष्यमते पुं, यथा भवितुः स प्रयोजकः कारकः । तत्तु षड्विधम् । कर्म्म १ यथा रामं नमति । करणम् २ यथा नेत्रैः शिवो दृष्टः । कर्त्ता ३ यथा जनैः शिवो दृष्टः । सम्प्रदानम् ४ यथा हरिः सद्भ्यः सुखं ददातु । अपादानम् ५ यथा विभीषणः पदाद्भ्रष्ठः । अधिकरणम् ६ यथा रेमे शरदि गोविन्दः । इति वोपदेवः ॥ वर्षोप- लोद्भवं जलम् । इति राजनिर्घण्टः ॥
कारकः, त्रि, (करोति कर्म्मादिकम् । कृ + “ण्वुल्तृ- चौ” । ३ । १ । १३३ । इति ण्वुल् ।) कर्त्ता । इति मेदिनी ॥ (यथा मनुः ७ । २०४ । “आदानमप्रियकरं दानञ्च प्रियकारकम्” ॥)
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कारक¦ न॰ करोति कर्त्तृत्वादिव्यपदेशान् कृ--ण्वुल्।
१ कर्त्तृ-त्वादिसंज्ञाप्रयोजके कर्म्मणि--क्रियायाम्।
“कारके” पा॰। कर्त्तृत्वादिव्यवदेशकारिण्यां क्रियायामित्यर्थः। करोति क्रियां निष्पादयति कृ--ण्वुल्।
२ क्रियानिष्पा-दकेषु कर्त्तृकर्मादिषु कारकसंज्ञान्वितेषु न॰ तेषाञ्चक्रियायामेवान्वयः
“सम्बोधनान्तं कृत्वोर्थाः कारकं प्रथमो-वतिः। धातुसम्बन्धाधिकारविहितमसमस्तनञ्। तथा यस्यच मावेन, षष्ठी चेत्युदितं द्वयम्। सम्बन्धश्चाष्टकस्यास्यक्रिययैवावधार्य्यताम्” इति हर्युक्तेः। वैयाकरणभूषणकार-मते कारकलक्षणादिकं शब्दार्थरत्नेऽस्मामिर्दर्शितं यथा
“तत्र कारकत्वं नाम क्रियाजनकशक्तिसत्त्वं करोति क्रियां[Page1937-a+ 38] निवर्त्तयतीति महाभाष्येव्युत्पादनात् साधकं क्रियानिष्पादकंकारकसंज्ञं भवतीति वार्त्तिकोक्तेश्च। द्रव्यस्य स्वतस्तधात्वाभा-वेऽपि शक्त्याविष्टस्यैव तस्य तथात्वम्। ततश्चान्वयव्यतिरेकसत्त्वात् शक्तिरेव कारकमिति मतान्तरं तदुक्तं हरिणा
“स्वाश्रयेसमवेतानां तद्वदेवाश्रयान्तरे। क्रियाणामभिनिष्पत्तौ सामर्थ्यंसाधनं विदुरिति”। शक्तिशक्तिमतोरभेदाच्च द्रव्यं कारकमि-ति व्यवहारैत्यवधेयम्, एवञ्च क्रियाजनकत्वेन सर्व्वेषांकर्त्तृत्वेऽपि स्वस्वावान्तरव्यापारविवक्षयैव करणत्वादिकं यथो-क्तं हरिणा”
“निष्पत्तिमात्रे कर्त्तृत्वं सर्वत्रैवास्ति कारके। व्यापारभेदापेक्षायां करणत्वादिसम्भवः” इति। तद्भेदश्च मञ्जू-षायां दर्शितोयथा--
“कर्त्तुः कारकान्तरप्रवर्त्तनव्यापारः,करणस्य क्रियाजनकाव्यवहितव्यापारः, क्रियाफलेनोद्दे-श्यत्वरूपव्यापारश्च कर्म्मणः, कर्त्तृकर्म्मव्यवहितक्रियाधारण-{??}पारोऽधिकरणस्य, प्रेरणानुमत्यादिव्यापारः सम्प्रदानस्य,अवधिभावोपगमव्यापारोऽपादानस्येति” तत्र करणा-धारकर्म्मकर्त्तॄणांक्रियाजनकत्वंसुव्यक्तं तैर्व्विना क्रिया-नुत्पत्तेः फलरूपक्रियाजनकत्वेन विशिष्टक्रियाजनकत्वाच्चकर्म्मणस्तथात्वं घटं स्मरति कटं करोतीत्यादौ च बुद्धिस्थ-घटादेरपि पूर्व्वकालत्वेन स्मरणादिहेतुत्वात्तथात्वम् अतएवतेषु कर्त्तृत्वविवक्षया काष्ठं पचति, स्थाली पचति, ओदनःपच्यते इत्यादि प्रयोगः। अपादानस्य अवधिभावोपगमेनहेतुत्वात् सम्प्रदानस्य च दातृबुद्धिस्थतया पूर्व्वकालत्वेनहेतुत्वाच्च क्रियानिर्वाहकत्वेऽपि न कर्त्तृत्वविवक्षा अनभि-धानात् तदुक्तं महाभाष्ये
“पर्य्याप्तं करणाधिकरणकर्म्मणामेवकर्त्तृत्वं निदर्शितमपादानादीनां कर्त्तृत्वानिदर्शनायेति”। ( तच्च कारकं षड्विधम् अपादनसम्प्रदानकरणाधिकरण-कर्म्मकर्त्तृभेदात्। एतेषाञ्च एकस्या क्रियायामुभयप्राप्तौ
“विप्रतिषेधे परं कार्य्यम्” इत्युक्ते रुत्तरोत्तरप्राबल्यं तदुक्तंहरिणा--
“अपानानसम्प्रदानकरणाधारकर्म्मणाम्। कर्त्तुश्चोभयसम्प्राप्तौ परमेव प्रवर्त्तते” इति। गुण-प्रधानक्रिययोरेकस्मिन् द्रव्ये उभयशक्तिप्रसङ्गे तु
“प्रधा-नेन व्यपदेशा भवन्तीति” न्यायात् कार्य्यस्य प्रधानानु-णोधित्वात् प्रधानशक्तिबोधिकैव विभक्तिर्ज्जायते गुण-क्रियाशक्तिस्तु तात्पर्य्यवशादेव तत्र प्रतीयते तदुक्तंहरिणा
“प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक्। शक्तिर्गुणाश्रया तत्र प्र्धानमनुरुध्यति। प्रधानविषयाशक्तिः प्रत्ययेनाभिधीयते। यथा गुणेतथा तद्वदनुक्तापिप्रतीयते” इति अतः स्थित्वाश्वेन गच्छतीत्येव प्रयोगः। [Page1937-b+ 38]( न्यायमते घात्वर्थे प्रकारतया भासमाने
३ सुबर्थे तन्मतेहि सुबर्थस्यैव कारकत्वं मुख्यम्। तदर्थान्वयित्वाच्च पदार्थस्यतत्त्वंगौणम्। तथाच विभक्त्यर्थद्वारा क्रियान्वयित्वं कारक-त्वम् इति तेनापादानादेः क्रियानिष्पादकत्वाऽभावे-ऽपि न क्षतिः स्वान्वयिविभक्त्यर्थद्वारा क्रियान्वयित्वात्। यथा च तस्यन्वयः तथा शब्द॰ प्रका॰ तथा दर्शितं यथा(
“कारकार्थेतरार्थे च सुप् द्विधा च विभज्यते। धात्व-र्थांशे प्रकारो यः सुबर्थः सोऽत्र कारकम्। वृत्त्या कार-कस्य बोधिका तदन्यस्य चेत्येबं द्विविधोऽपि सुपो विभाग-स्तत्र यद्धातूपस्थाप्ययादृशार्थेऽन्वये प्रकारीभूय भासते यःसुबर्थः स तद्धातूपस्थाप्यतादृशक्रियायां कारकम्। वृक्षात्पतति, व्याघ्राद्बिभेति इत्यादौ, ब्राह्मणाय ददाति, पुत्रायक्रुध्यतीत्यादौ, दात्रेण छिनत्ति घटत्वेन जानातीत्यादौस्थाल्यां पचति, शुक्तौ भासत इत्यादौ, ग्रामं गच्छति घटुंपश्यतीत्यादौ चैत्रेण पच्यते घटेन भूयत इत्यादौ च पत-प्रभृतिधात्वर्थे पतनादौ पञ्चम्याद्युपस्थितो विभागादिःप्रकारीभूय भासते इति तत्तद्धातूपस्थापिततत्तत्क्रियायांविभागादिकं प्रकृते कारकमतो धात्वर्थे स्वार्थबोधकतयातत्रत्यपञ्चम्यादिः कारकविभक्तिरुच्यते। यादृशेन नामार्थे-नावच्छिन्नस्य सुबर्थस्य यादृशधात्वर्थेऽन्वयः स एव तादृशधात्वर्थेकारकतया व्यपदिश्यते, तेन वृक्षात् पततीत्यादौ-वृक्षादेरपि पतनादिक्रियायामपादानादिकारकत्वव्यव-हारः। स्तोकं पचतीत्यादौ क्रियाया प्रकारीभूतोऽपिस्तोकादिर्न कारकं सुपानुपस्थापनात्, द्वितीया तु तत्रक्लीवलिङ्गत्ववदानुशासनिक्येव स्तोकपाचकैत्यादिकस्तुतत्पुरुषो गिरिकाण इत्यादिवद्विशेषविधेरेव। षष्ठ्यर्थस्तुसम्बन्धो न धात्वर्थे प्रकारीभूय भासते, तण्डुलस्यपचतीद्यप्रयोगात् इत्यतः सम्बन्धो न कारकं, न वातदर्थिकापि षष्ठ्यादिः कारकविभक्तिः। अतएव
“क्रिया-प्रकारीभूतोऽर्थः कारकं तच्च षड्विधम्। कर्तृकर्मादि-भेदेन, शेषः सम्बन्ध इष्यत” इति शाब्दिकाः स्मरन्ति”।
“कारकव्यपदिष्टे च श्रूयमाणक्रिये पुनः”
“कारकं प्रथमो-वतिः” इति च भर्त्तृहरिः।
४ कर्त्तृमात्रे त्रि॰ मेदि॰।
“दोषैरेतैः कुलघ्नानां वर्ण्णसङ्करकारकैः” गीता। जगतांकारकः कृष्णः” वोपदेवः तुमर्थे ण्वुल्।
५ कर्त्तुमित्यर्थे। तद्योगे कर्म्मणि न षष्ठी अतोघटं कारको व्रजत्येवप्रयोगः।
“धातुसम्बन्धे प्रत्ययाः” पा॰ इत्यधिकारे तस्यविधानेनतदर्थस्य क्रियायामेवान्वयः प्रागुक्तहरिवाक्यात्। [Page1938-a+ 38] करकायाइदं तत्र भवं वा अण्।
६ करकासम्बन्धिनि त्रि॰।
७ तन्निष्यन्दिजले न॰ राजनि॰
८ अप्सु स्त्री ङीप्। तल्लक्षणगुणादि भावप्र॰ उक्तं यथा
“दिव्यवाय्वग्नि-संयोगात् संहताः खात् पतन्ति याः। पाषाणखण्ड-वच्चापस्ताः कारक्योऽमृतोपमाः। करकाजं जलंरूक्षं विशदं गुरु च स्थिरम्। दारुणं शीतलम् सान्द्रंपित्तहृत् कफवातकृत्”।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कारक¦ mfn. (-रकः-रिका-रकं) An agent, acting, doing, who or what does, acts, makes, &c. m. (-कः) A noun of action. n. (-कं)
1. Action, especially in grammar.
2. That part of grammar comprising all nouns which imply the agent, object, instrument, &c. or anything except the simple and radical idea; it also includes the use and government of the cases or syntax. E. कृञ् to do, and ण्वुल् affix of agency.
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कारक [kāraka], a. (-रिका f.) [कृ-ण्वुल्] (Usually at the end of comp.)
Making, acting, doing, performing, creating, doer &c. स्वप्नस्य कारकः Y.3.15;2.156; वर्णसंकर- कारकैः Bg.1.42; Ms.7.24; Pt.5.36. कारका मित्रकार्याणि सीतालाभाय सो$ब्रवीत् Bk.7.29.
An agent.
Intending to act or do.
कम् (In Gram.) The relation subsisting between a noun and a verb in a sentence, (or between a noun and other words governing it); there are six such Kārakas, belonging to the first seven cases, except the genitive: (1) कर्त; (2) कर्मन्; (3) करण; (4) संप्रदान; (5) अपादान; (6) अधिकरण.
That part of grammar which treats of these relations;i. e. syntax.
Water produced from hail.
An organ (इन्द्रिय); जगाद जीमूतगभीरया गिरा बद्धाञ्जलीन्संवृतसर्व- कारकान् Bhāg.8.6.16. -Comp. -गुप्तिः f. a. sentence with a hidden meaning. -Comp. -दीपकम् (in Rhet.) Case illuminator, a figure of speech in which the same Kāraka is connected with several verbs in succession;e. g. रिवद्यति कूणति वेल्लति विचलति निमिषति विलोकयति तिर्यक् । अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ॥ K. P.1. -हेतुः the active or efficient cause (opp. ज्ञापकहेतु).
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कारक mf( इका)n. (generally ifc. )making , doing , acting , who or what does or produces or creates MBh. etc. (See. सिंह-क्, कृत्स्न-क्, शिल्प-क्)
कारक mf( इका)n. intending to act or do Pa1n2. 2-3 , 70 Sch.
कारक n. " instrumental in bringing about the action denoted by a verb(= क्रिया-हेतुor -निमित्त)" , the notion of a case (but not co-extensive with the term case ; there are six such relations accord. to Pa1n2. , viz. कर्मन्, करण, कर्तृ, सम्प्रदान, अपा-दान, अधिकरण, qq. vv. The idea of the genitive case is not considered a कारक, because it ordinarily expresses the relation of two nouns to each other , but not the relation of a noun and verb).
कारक n. hail-water L.