यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्षापणः, पुं क्ली, (कर्षस्यायं “तस्येदम्” । ४ । ३ । १२० । इत्यण् । नित्यं पणः परिमाणे इत्यप् गोचर- सञ्चरेति घो वा कार्षस्य कार्षेण वा आपणः व्यवहारो यत्र । यद्वा कर्षस्येदं स्वार्थे वा अण् तेन आपण्यते । आ + पण कर्म्मणि घः ।) का- र्षिकः । षोडशपणः । इति मेदिनी ॥ रूप्यकर्ष- कृतव्यवहारद्रव्यम् । लोके तु तन्मूल्ये षोडश- पणसमुदाये कार्षापणस्योपचारेण प्रवृत्तिः । तथा हि शास्त्रीयो रजतमाषो द्विकृष्णलः । द्वे कृष्णले समधृते विज्ञेयो रूप्यमाषकः । इति मनुः ॥ आद्ये कृतयुगे रजतकृष्णलयोर्द्दशगण्डा मूल्य- मिति द्वात्रिंशता कृष्णलाभी रजतकर्षस्य षो- डशपणा एव मूल्यम् । पुराणशब्दश्चात्र कार्षिकं पुराणञ्च कार्षापण इति वोपालितः । इत्यमर- टीकायां भरतः ॥ (यथा, मनुः । ८ । १३६ । “कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः” ॥)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्षापण पुं।

रजतरूप्यकम्

समानार्थक:कार्षापण,कार्षिक

2।9।88।1।1

कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः। अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः॥

पदार्थ-विभागः : धनम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्षापण¦ पुंन॰ कर्षस्येदम् स्वार्षेवा अण्। तेन आपण्यतेआ + पण--कर्म्मणि घ।

१ अशीतिरत्तिके ताम्रिके कर्षे
“कार्षापणस्तु विज्ञेयः कार्षिकस्ताम्रिकः पणः” मनुः।

२ षोडशपणात्मके पुराणे (काहन) इति ख्याते मानभेदे। [Page1981-b+ 38]
“माषः षोडशभागस्तु ज्ञेयः कार्षापणस्य तु। काकिनी(वुडि) तु चतुर्भागो माषस्य परिकार्त्तिता। पञ्चनद्याःप्रदेशे तु संज्ञेयं व्यारहारिकी। कार्षापनप्रमाणन्तु तन्नि-बद्धम् (परिभाषितम्) इहेव तत्” कात्या॰ स्मृ॰ षोडशेत्यत्र हेमा-द्रौ विंशतीति पाठः। अतएव
“द्वात्रिंशत्पणिकागावो वत्सःपौराणिकोभवेत्” कात्या॰ स्मृतौ पुराणद्वयवाच्यद्वात्रिं-शत्पणानां गोमूत्यत्वेनाभिधानम्।
“अशीतिभिर्वराटकैःपण इत्यभिधीयते। ते षोडशः पुराणं स्यात् रजतं सप्त-भिस्तु तैः” भविष्यपु॰।
“कार्षापणैकमूल्या हि दरिद्राणांप्रकीर्त्तिता” प्रा॰ त॰।
“कार्षापणं भवेद्दण्ड्यो यत्नान्यःप्राकृतोजनः। तत्र राजा भवेद्दण्ड्यः सहस्रमिति धारणा”
“समुत्सृजेद्राजमार्गे यस्त्वममेध्यमनापदि। स द्वौ कार्षा-पणौ दद्यात्” मनुः।
“कार्षाक्पणो दक्षिणस्यां दिशि रौप्यःप्रवर्त्तते। पणोनिबद्धः पूर्व्वस्यां षोडशैव पणाः पलम्। इति नारदोक्ते

३ दक्षिणदेशप्रसिद्धे पूर्व्वदेशप्रसिद्धपणपरिमाणे च। कार्षापणेन क्रीतः टिठन् वा प्रतिरादेशश्चइदुच्चारणार्थः कार्षापणिक पक्षे प्रतिक तत्क्रीते त्रि॰स्त्रियांङीप्। कार्षापणिकी प्रतिकी अध्यर्द्धपूर्वात् द्विगोश्चतस्य वा लुक्। अध्यर्द्धकार्षापण अध्यर्द्धकार्षापणिकंसार्द्धकार्षापणक्रीते एवं द्विकार्षापण द्विकार्षापणिकंकार्षापणद्वयक्रीते त्रि॰। पर्श्वादिपाठात् स्वार्थेऽण्। कार्षापण कार्षापणसंघजीविषु त्रि॰ ब॰ व॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्षापण¦ mn. (-णः-णं) A weight or measure of different values, as syno- [Page177-b+ 60] nimous with Karsha; it is of gold, weighing sixteen Mashas, or about 176 grains; of silver, it is in value sixteen Panas of kow- ries, or in tale 1280 commonly termed a Kahan: of copper it weighs eighty Retis, or the same as of gold, about 176 grains; according to some, it is the same as a Pan of Kowries, or in tale eighty. n. (-णं) Money, gold and silver. m. (-णः) A husbandman. E. कर्ष a Karsha of silver, आपण custom, habit, and the vowel of कर्ष lengthened; also with कन् added कार्षापणकः see कर्षपण and कार्षिक।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्षापणः [kārṣāpaṇḥ] णम् [ṇam], णम् (or पणकः) A coin or weight of different values; पुराकल्प एतदासीत् षोडश माषाः कार्षापणं Mbh. on P.I.2.64. कार्षापणं तु विज्ञेयस्ताम्रिकः कार्षिकः पणः Ms.9.136,336;9.282. (= कर्ष). न हि काकिन्यां नष्टायां तदन्वेषणं कार्षापणेन क्रियते ŚB. on MS.4.3.39. -णम् Money, gold and silver.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्षापण/ कार्षा mn. ( g. अर्धर्चा-दि; See. कर्ष्)" weighing a कर्ष" , a coin or weight of different values (if of gold , = 16 माषs See. कर्ष; if of silver , = 16 पणs or 1280 Kowries , commonly termed a Kahan ; if of copper , = 80 रक्तिकाs or about 176 grains ; but accord. to some = only 1 पणof Kowries or 80 Kowries) Mn. viii , 136 ; 336 ; ix , 282

कार्षापण/ कार्षा mn. ( ifc. )worth so many कार्षापणs Pa1n2. 5-1 , 29

कार्षापण/ कार्षा n. money , gold and silver L.

कार्षापण/ कार्षा m. pl. N. of a warrior-tribe g. पर्श्व्-आदि

कार्षापण/ कार्षा m. the chief of this tribe ib. and 4-1 , 177 Va1rtt. 2.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀRṢĀPAṆA(M) : (KĀRṢIKAM). A measure of weight for gold and silver in ancient India.


_______________________________
*5th word in right half of page 393 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कार्षापण&oldid=427694" इत्यस्माद् प्रतिप्राप्तम्