कुक्कुरः
संस्कृतम्
सम्पाद्यताम्वायुसात्पञ्च शिक्षेच्च षट् शुनस्त्रीणि गार्दभात्॥
- प्रायः ४ कोटिवर्षेभ्यः पूर्वं भूमौ मयासिस् इति क्रूरजन्तुः आसीत्।
- कुक्कुरः, सारमेयः, शुनकः, दृतिहरिः, सूचकः, अरतत्रपः, अलिपकः, अस्थिखादः, अस्थिभक्षः, कक्षशाय, कङ्कशाय, कुर्क्कुरः।
नाम
सम्पाद्यताम्- कुक्कुरः नाम शुनकः।
लिङ्ग्म्-
सम्पाद्यताम्एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमा विभक्तिः | कुक्कुरः | कुक्कुरौ | कुक्कुराः |
सम्बोधनप्रथमा | कुक्कुर | कुक्कुरौ | कुक्कुराः |
द्वितीया विभक्तिः | कुक्कुरम् | कुक्कुरौ | कुक्कुरान् |
तृतीया विभक्तिः | कुक्कुरेन | कुक्कुराभ्याम् | कुक्कुरैः |
चतुर्थी विभक्तिः | कुक्कुराय | कुक्कुराभ्याम् | कुक्कुरेभ्यः |
पञ्चमी विभक्तिः | कुक्कुरात् | कुक्कुराभ्याम् | कुक्कुरेभ्यः |
षष्ठी विभक्तिः | कुक्कुरस्य | कुक्कुरयोः | कुक्कुरानाम् |
सप्तमी विभक्तिः | कुक्कुरे | कुक्कुरयोः | कुक्कुरेषु |
अनुवादाः
सम्पाद्यताम्- आङ्ग्लम्-Dog
- मलयालम्-നായ പട്ടി
- हिन्दि-कुत्ता
- बङ्गाळि-() ()
- फ़्रॆन्च्- (fr)
- रूसीय्- (ru) ()
- जेर्मन्-
- स्पानिष्- (es)
- तेलुगु-కుక్క
- तमिल्-
- पोलिष्- (pl)
- कन्नड- ಕುನ್ನಿ
उदाहरणानि
सम्पाद्यताम्- सिंहादेकं बकादेकं शिक्षेच्चत्वारि कुक्कुटात्।
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुक्कुरः, पुं, (कोकते आदत्ते इति । कुक् + क्विप् । कुक् यत्किञ्चिदपि गृह्णन्तं जनं दृष्ट्वा कुरति शब्दा- यते । कुर + कः ।) जन्तुविशेषः । कुकुर इति भाषा ॥ तत्पर्य्यायः । कौलेयकः २ सारमेयः ३ मृगदंशकः ४ शुनकः ५ भषकः ६ श्वा ७ । इत्य- मरः । २ । १० । २१ ॥ कुक्कुरः ८ शुनः ९ शुनिः १० श्वानः ११ । इति तट्टीका ॥ भषणः १२ भल्लूकः १३ वक्रलाङ्गूलः १४ वृकारिः १५ रात्रिजागरः १६ कालेयकः १७ ग्राम्यमृगः १८ मृगारिः १९ शूरः २० शयालुः २१ । इति राजनिर्घण्टः ॥ तस्य गुणाः । “बह्वाशी स्वल्पसन्तुष्टः सुनिद्रः शीघ्रचेतनः । प्रभुभक्तश्च शूरश्च षडेते च शुनो गुणाः” ॥ इति चाणक्यम् ॥ तस्य परीक्षा यथा । “मृगयार्थं शाकुनार्थं कौतुकार्थिमहीक्षिता । श्वानः पोष्यास्ततस्तेषामत्र वक्ष्यामि लक्षणम् ॥ गुणजातिप्रभेदेन शुनो भेदो ह्यनेकधा” । तद्यथा । “सात्त्विका राजसाश्चैव तामसाश्च त्रिधामताः ॥ अश्रान्ता अपरिक्षीणाः पवित्राः स्वल्पभोजिनः । श्वानस्ते सात्त्विकाः प्रोक्ता दृश्यन्तेच क्वचित् क्वचित् ॥ १ क्रुद्धा बहुभुजो दीर्घा गुरुवक्षस्तनूदराः । जाङ्गलस्था जाङ्घिकाश्च श्वानस्ते राजसा मताः ॥ २ अल्पश्रमेण ये श्रान्ता ललज्जिह्वा गुरूदराः । श्वानस्ते तामसा ज्ञेयाः सन्ध्यावनसमाश्रयाः ॥ ३ ब्रह्मादिजातिभेदेन चतुर्द्धा सर्व्व एव हि । शुभ्रा दीर्घा स्तब्धकर्णा लघुपुच्छास्तनूदराः ॥ सुशुक्तखरदन्ताश्च श्वानस्ते ब्रह्मजातयः ॥ १ रक्ताङ्गास्तनुलोमानो ललत्कर्णास्तनूदराः ॥ दीर्घा दीर्घा नखरदाः श्वानस्ते क्षत्त्रजातयः । २ ये पीतवर्णा मृदवस्तनुलोमान एव च ॥ क्रुद्धा क्रुद्धा ललज्जिह्वास्ते श्वानो वैश्यजातयः ॥ ३ कृष्णवर्णास्तनुमुखा दीर्घरोमाण एव च ॥ अक्रुद्धाः श्रमयुक्ताश्च ते श्वानः शूद्रजातयः ॥ ४ लघुप्रमाणास्तु गुरूदरा ये येऽमेध्यभक्षा बहुपुत्त्रकाश्च । प्रवृद्धपुच्छा लघुसूक्ष्मदन्ता स्तेचान्त्यजाः कुक्कु रजातयः स्युः ॥ ५ ॥ द्विजातिचिह्नसंसर्गात् द्विजातिः श्वा भयावहः । लक्षणत्रयसम्बन्धात् त्रिजातिर्धननाशनः ॥ भोजोऽपि । द्विजातिर्व्वा त्रिजातिर्व्वा विजातिःश्वामहीभृताम् । भयं धनक्षयं शोकं विदधाति यथाक्रमम् ॥ इति भोजराजकृतयुक्तिकल्पतरुः ॥ (मुनिविशेषः । यथा महाभारते । २ । ४ । १७ । “कुक्कुरो वेणुजङ्घोऽथ कालापः कठ एव च । मुनयो धर्म्मविद्वांसो धृतात्मानो जितेन्द्रियाः” ॥)