यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुच, ज रोधपर्ककौटिल्यलेखने । इति कविकल्य- द्रुमः ॥ (भ्वां-परं-सक, अकं च-सेट्-ज्वलां ।) ज कोचः कुचः । रोधः क्रियारोधः जडीभाव इत्यर्थः । अस्मिन्नर्थ एव प्रायो वर्त्तते । यस्मिन् प्रमुदिते राज्ञि तमः सङ्कोचति क्षितौ । पर्कः सम्पर्कः । इति दुर्गादासः ॥

कुच, शि सङ्कोचे । इति कविकल्पद्रुमः ॥ (तुदां- पर-अकं, सेट् ।) प्रायः संपूर्ब्बस्य प्रयोगः । शि- संकुचति अकुचीत् चुकोच । इति दुर्गादासः ॥

कुच, तारशब्दे । उच्चैःशब्द इति यावत् । इति कवि- कल्पद्रुमः ॥ (भ्वां-परं-अकं-सेट् ।) कोचति ढक्वा । भट्टमल्लस्तु तारे शब्दे च कोचति इति नानार्थे पठति । तन्मते तारश्चिक्कणता । कोचति काञ्चीं वणिक् चिक्कणयतीत्यर्थः । इति दुर्गादासः ॥

कुचः, पुं, (कुचति संकुचतीति । कुच् संकोचे । “इगुपधेति” । ३ । १ । १३५ । कः ।) स्तनः । इत्यमरः । २ । ६ । ७७ । (यथा गोः रामायणे । ५ । १३ । ५७ । “अन्या वक्षसि चान्यस्यास्तस्याश्चाप्यपराः कुचे । उरूपार्श्वकटीपृष्ठमन्योन्यं समुपाश्रिताः” ॥ स्त्रीणां यौवने कुचपरिवृद्धिर्भवति । यथाह भावप्रकाशे । “पुष्पाणां मुकुले गन्धो यथा सन्नपि नाप्यते । तेषां तदपि तारुण्ये पुष्टत्वात् व्यक्तिमेति हि ॥ कुसुमानां प्रफुल्लानां गन्धः प्रादुर्भवेद्यथा । रोमराज्यादयः पुंसां नारीणामपि यौवने ॥ जायते ऽत्र च यो भेदो ज्ञेयो व्याख्यानतः स च” ॥ व्याख्यानं यथा, -- “पुंसां रोमराजिश्मश्रुप्रभृतयः नारीणान्तु रोमराजी स्त नार्त्तवादयः” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुच पुं।

वक्षोजः

समानार्थक:स्तन,कुच

2।6।77।1।7

पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ। चूचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुच¦ रोधे, सम्पर्के लेखने च सक॰ कौटिल्यं अक॰ तु॰ पर॰ सेट्कुटादि। कुचति अकुचीत् चुकोच कुचः। प्रनिकुचति

कुच¦ पु॰ कुच--कर्त्तरि क। स्तने। स्त्रीणां कुचवृद्धिर्यौवनेयथाह सुश्रुतः
“स्त्रीणां तु बिंशतिरधिका दश तासां स्त-नयोरेकैकस्मिन् पञ्च पञ्च, यौवने तासां परिवृद्धिः” इति विवृतञ्चैतत् भावप्र॰ यथा-
“पुष्पाणां मुकुले गन्धो यथा सन्नपि नाप्यते। तेषां तदेवतारुण्ये पुष्टत्वाद्व्यक्तिमेति हि। कुसुमानां प्रफुल्लानांगन्धः प्रादुर्भवेद्यथा। रोमराज्यादयः पुंसां नारीणामपियौवने। जायतेऽत्र च यो भेदो ज्ञेयो व्याख्यानतः सच। व्याख्यानं यथा पुंसां रोमराजीश्मश्रुप्रभृतयःनारीणान्तु रोमराजीस्तनार्त्तवप्रभृतयः”।
“यावन्नोतद्भिद्येते स्तनौ तावद्देया” इति स्मृतौ कुचोद्भे-दकालात् पूर्व्वं दानं विहितम्। स च कालः द्भादशव-र्षादिः,
“स तदुच्चकुचौ भवन् प्रभाझरचक्रभ्रमिमातनो-ति यत्” नैष॰
“सकठिनकुचचूचुकप्रणोदम्”
“नत्युन्नतत्वात् कुचमण्डलेन”
“कौसुम्भं पृथुकुचकुम्भ-सङ्गिवासः” माघः
“तन्वि! तव कुचावेतौ नियतं चक्र-वर्त्तिनौ” उद्भटः
“पितुर्गृहे चेत् कुचपुष्पसम्भवः” ज्यो॰

२ सङ्कुचिते त्रि॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुच¦ r. 1st cl. (कोचति)
1. To sound high, to utter a loud, shrill cry, as a bird.
2. To go.
3. To polish.
4. To touch.
5. To furrow or mark with lines.
6. To be crooked.
7. To write.
8. To oppose.
9. To contend.
10. To be restricted or confined, to contract. r. 6th cl. (शि) शिकुच (कुचति) or with सं prefixed, (संकोचति or संकुचति)
1. To straiten, to narrow or contract.
2. To be straitened, to shrink, to contract. With उत् to bribe; with वि, and आ, to expand.

कुच¦ m. (-चः) A breast, a pap. E. कुच् to bind or confine, क aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुचः [kucḥ], [कुच्-क] The female breast, a teat, nipple; अपि वनान्तरमल्पकुचान्तरा V.4.49. -Comp. -अग्रम्, -मुखम् a nipple. -कुम्भः the female breast. -तटम्, -तटी the slope of the female breast, the breast, (तट being स्वार्थे or meaningless). -फलः the pomegranate tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुच m. (generally du. औ; ifc. f( आ). ) , the female breast , teat Sus3r. S3ak. etc.

"https://sa.wiktionary.org/w/index.php?title=कुच&oldid=496393" इत्यस्माद् प्रतिप्राप्तम्