कुठार
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुठारः, पुं स्त्री, (कोठतीत्यनेन । कुठ + करणे आरन् ।) अस्त्रविशेषः । कुडाल इति भाषा । तत्पर्य्यायः । सुधितिः २ परशुः ३ परश्वधः ४ । इत्यमरः । २ । ८ । ९२ ॥ कुठारी ५ पर्शुः ६ परश्वधः ७ पर्श्वधः ८ । इति तट्टीका ॥ कुठाटङ्कः ९ द्रुघणः १० । इति जटाधरः ॥ (यथा, श्रीमद्भागवते ३ । २५ । १२ । “तं त्वागताहं शरणं शरण्यं स्वभृत्यसंसारतरोः कुठारम्” ॥)
कुठारः, पुं, (कुठ्यते छिद्यतेऽसौ । कुठ + कर्म्मणि आरन् ।) वृक्षः । इति शब्दरत्नावली ॥
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुठार स्त्री-पुं।
कुठारः
समानार्थक:कुठार,स्वधिति,परशु,परश्वध
2।8।92।1।1
द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः। स्याच्छ्स्त्री चासिपुत्री च छुरिका चासिधेनुका॥
वृत्तिवान् : पर्श्वधहेतिकः
वैशिष्ट्य : पर्श्वधहेतिकः
पदार्थ-विभागः : उपकरणम्,आयुधम्
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुठार¦ पुंस्त्री॰ कुठ--करणे आरन्। स्वनामख्याते काष्ठच्छेद-नसाधने अस्त्रभेदे स्त्रीत्वे गौरा॰ ङीष्।
“राजन्यो-च्चांसकूटक्रथनपटुरटद्घोरधारः कुठारः” प्रबीध॰।
“मातुःकेवलमेव यौवनवनच्छेदे कुठारावयम्” भर्त्तृ॰।
“तंत्वा गताहं शरण शरण्यं सभृत्यसंसारतरोः कुठारम्” भाग॰
३ ,
२५ ,
१२ , तल्लक्षणं हेमा॰ परि॰ ख॰ लक्षण-समुच्चये यथा-
“जमदग्निं प्रति शुक्रः प्रोवाच यथोपदेशं शुश्रूषो!निबोध परशोरुत्पत्तिं द्रव्यक्रमयोगं प्रमाणं चोत्तममध्य-माधमानां नराणां सपाणिः पाणिमुक्तैति द्विकर्म्मापरशुर्भवति। तत्र पञ्चाशत्पलिकः श्रेष्ठश्चत्वारिंशत्पलि-कोमध्यमस्त्रिंशत्पलिकः कनिष्ठ इति। जातप्राणस्यपुरुषस्य सर्वायसमयस्त्रिविधः परशुर्भवति सार्द्धपञ्चाङ्गुलंश्रेष्ठस्य, सार्द्धचतुरङ्गुलं मध्यमस्य, सार्द्धत्र्यङ्गुलंनिकृष्टस्य, मूलं विसृतम्भवति। तथा मध्ये सार्द्धपञ्चा-ङ्गुलं विसृतं चोत्तममध्यमकनिष्ठानां भवति। तथाङ्ग-मपि पञ्चदशोङ्गलमुत्तमस्य, सार्द्धत्रयोदशाङ्गुलं मध्यमस्य,द्वादशाङ्गुलं निकृष्टस्येति परशोःफलम्। तथोत्तमं द्वाद-शाङ्गुलायामं, मध्यमं दशाङ्गुलायाममधमम ष्टाङ्गुलाया-ममित्येवमपि त्रिविधं भवति। कुणपेष्विव दण्डप्रमाण-मुत्तममध्यमकनिष्ठभेदात्रिविधं शालकधबधन्वनशाका-[Page2075-a+ 38] जुनाशरीषशिंशपासनराजवृद्धेन्द्रवृद्धतिन्द कसोमवल्कश्वे-तकार्जुनप्रभृतीनां ह्रस्वप्रमाणो दण्डग्रन्थिर्भवेत्। यस्तुसपाणिः परशुः स यथाकामं प्रयोज्यः। कुणपलक्षणं तु कुणपशब्दे दृश्यं।
२ वृक्षे पु॰ शब्द-रत्ना॰। तस्येदम् शिवा॰ अण्। कौठार तत्सम्बन्धिनित्रि॰ स्त्रियां ङीप्। अल्पार्थे क। कुठारक क्षुद्रकुठारेपुंस्त्री॰ स्त्रियां कुठारिका।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुठार¦ mf. (-रः-री)
1. An axe.
2. A sort of hoe or spade. m. (-रः) A tree. E. कुठ a tree, and ऋ to go, affix अण्।
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुठारः [kuṭhārḥ] री [rī], री 1 An axe, or hatchet; मातुः केवलमेव यौवन- वनच्छेदे कुठारा वयम् Bh.3.11.
A sort of hoe or spade; Kau. A.2.3. -रः A tree.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कुठार m. an axe R. Bhartr2. etc.
कुठार m. a sort of hoe or spade W.
कुठार m. a tree(= कुठ) L.
कुठार m. N. of a man g. शिवा-दि
कुठार m. of a नागMBh. i , 2156
Purana Encyclopedia
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
KUṬHĀRA : A nāga born in Dhṛtarāṣṭra's family. It was burned to death at the serpent yajña of Janame- jaya. (Ādi Parva, Chapter 57, Verse 15).
_______________________________
*11th word in left half of page 448 (+offset) in original book.