यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलत्थः, पुं, (कुलं भूमिलग्नं सत् तिष्ठति । कुल + स्था + कः । पृषोदरात् साधुः ।) शस्यभेदः । कुल- त्थकडाइ इति भाषा ॥ (यथा, मार्कण्डेये । १५ । ७ । “धान्यंयवांस्तिलान्माषान्कुलत्थान्सर्षपांश्चणान्” ॥) तत्पर्य्यायः । कालवृन्तः २ ताम्रवृक्षः ३ कुल- त्थिका ४ । इति रत्नमाला ॥ ताम्रवृन्तः ५ । इति त्रिकाण्डशेषः ॥ ताम्रवीजः ६ सितेतरः ७ । इति राजनिर्धण्टः ॥ अस्य गुणाः । कफवातगुल्म- शुक्राश्मरीमेदःश्वासकासप्रमेहनाशित्वम् । वृंह- णत्वम् । उष्णत्वम् । कटुत्वम् । ग्राहित्वञ्च । इति राजवल्लभः ॥ कषायत्वम् । रूक्षत्वम् । रक्तपित्त- कारित्वम् । बलनाशित्वञ्च । अस्य यूषगुणः । वायु- शर्क्कराश्मरीनाशित्वम् । इति राजनिर्घण्टः ॥ (अस्य अपरे पर्य्यायगुणा यथा, -- “कुलत्थिका कुलत्थश्च कथ्यन्ते तद्गुणा अथ । कुलत्थः कटुकः पाके कषायः पित्तरक्तकृत् । लघुर्विदाही वीर्य्योष्णः श्वासकासकफानिलान् ॥ हन्ति हिक्काश्मरीशुक्रदाहानाहान् सपीनसान् । स्वेदसंग्राहको मेदोज्वरक्रिमिहरः परः” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ * ॥ “उष्णः कुलत्थो रसतः कषायः कटुर्विपाके कफमारुतघ्नः । शुक्राश्मरीगुल्म-निषूदनश्च संग्राहकः पीनसकासहारी ॥ आनाहमेदोगुदकीलहिक्का श्वासापहः शोणितपित्तकृच्च । कफस्य हन्ता नयनामयघ्नो विशेषतो वन्यकुलत्थ उक्तः” ॥ इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥ * ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलत्थ¦ पु॰ कुलं भूलग्नं सत् तिष्ठति स्था--क पृषो॰।

१ कलाय-भेद (कुलत्थकलाइ)

२ वनकुलत्थे स्त्री टाप् रत्नमा॰। तत्पर्य्यायादि भावप्र॰ उक्तं
“कुलत्थिका कुलत्थश्च कथ्यन्ते तद्गुणा अथ। कुलत्थःकटुकः पाके कषायः रक्तपित्तकृत्। लघुर्विदाही वीर्य्योष्णःश्वासकासकफानिलान्। हन्ति हिक्काश्मरीशुक्रदाहा-नाहान् सपीनसान्। स्वेदसंग्राहको मेदोज्वरकृमिहरः परः। ” भावप्र॰ कुलत्थिकेति निर्द्देशात् स्त्रीत्व-मपि सा च उपचारात्

३ तदुत्थाञ्जने

४ वनकुलत्थायां चस्त्री राजनि॰
“कुलाली लोचनहिता चक्षुष्या कुम्भ-कारिका लुलत्थिकेति” राजनि॰ वनकुलत्थापर्य्ययेउक्तेः। स्वार्थे क। तत्रैवार्थे राजनि॰ कुलत्थे भावप्र॰संज्ञायां कन्। कुलत्थाञ्जनाकारप्रस्तरभेदे अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलत्थ¦ m. (-त्थः) A kind of pulse, (Dlichos biflorus.) f. (-त्था)
1. A blue stone used in medicine, and applied as a collyrium to the eyes; [Page192-a+ 60] also an astringent to sores, &c.)
2. A wild kind of Dolichos. E. कुल a bank, and स्था to stand or stay, affix ड।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलत्थः [kulatthḥ], A kind of pulse; Mb.13.111.71. -त्थिका A blue stone used as a collyrium.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुलत्थ m. (fr. कुल? See. अश्वत्थ, कपित्थ) , a kind of pulse (Dolichos uniflorus) Pa1n2. 4-4 , 4 MBh. etc.

कुलत्थ m. pl. N. of a people MBh. vi , 373 VP.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KULATTHA : A holy centre in ancient India. (Bhīṣma Parva, Chapter 9, Verse 66).


_______________________________
*1st word in right half of page 438 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुलत्थ&oldid=496738" इत्यस्माद् प्रतिप्राप्तम्