यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केन्द्रम्, क्ली, लग्नम् । लग्नात् चतुर्थसप्तमदशम- स्थानानि । तत्पर्य्यायः । कण्टकम् २ । यथा, -- “लग्नाम्बुद्व्यूनकर्म्माणि केन्द्रमुक्तञ्च कण्टकम् । चतुष्टयञ्चात्र खेटो बली लग्ने विशेषतः” ॥ इति नीलकण्ठकृतवर्षतन्त्राख्यजातकम् ॥ स्पष्ट- ग्रहानयनार्थं शीघ्रमन्दसंज्ञकाङ्कद्वयम् । यथा, -- “मृदूच्चेन हीनो ग्रहो मन्दकेन्द्रं चलोच्चं ग्रहाणां भवेच्छीघ्रकेन्द्रम्” ॥ इति भास्करीयसिद्धान्तशिरोमणौ स्पष्टाधिकारः ॥ ग्रहं संशोध्य मन्दोच्चात् तथा शीघ्रात् विशोध्य च शिष्टं केन्द्रम् । इति सूर्य्यसिद्धान्तः ॥ गोलस्य मध्यस्थानम् । यथा, -- “वृत्तस्य मध्यं किल केन्द्रमुक्तम् केन्द्रं ग्रहोच्चान्तरसुच्यतेऽतः । यवोऽन्तरे तावति तुङ्गदेशा- न्नीचोच्चवृत्तस्य सदैव केन्द्रम्” ॥ इति सिद्धान्तशिरोमणौ गोलाध्यायः ॥ (यात्रा- योगविषेषः । यथा, शब्दार्थचिन्तामणिधृतवचने । “आपोक्लिमगते चन्द्रे केन्द्रस्थे सुरपूजिते । योगः केन्द्र इति ख्यातो यातुरिष्टार्थसिद्धिदा” ॥ प्रान्तसीमा । यथा, योगशास्त्रे । “पृथिव्या उभयोः केन्द्रयोः स्थितौ द्वावेव योगिनौ । एकत्र सान्निध्यस्थितिवत् सन्निकर्षस्थिताविव वा अन्योन्यमालपति” ॥)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केन्द्र¦ न॰
“वृत्तस्य मध्यं किल केन्द्रमुक्तम्। केन्द्रं ग्रहोच्चान्तरमुच्यतेऽतः। यतोऽन्तरे तावति तुङ्गदेशान्नीचोच्चवृत्तस्य सदैव केन्द्रम्” शि॰ सि॰ गोलाध्यायोक्ते

१ वृत्तक्षेत्रस्यमध्यस्थाने

२ ग्रहाणामुच्चस्थानान्तरे च। तदानयनप्र-कारः तस्य समविषमादिसंज्ञाभेदौ च सू॰ सि॰ रङ्गना-थाम्यां दर्शितौ यथा
“ग्रहं संशोध्य मन्दोच्चात् तथा शीघ्राद्विशोध्य च। शेषंकेन्द्रपदं तस्माद्भुजज्या कोटिरेव च” मू॰।
“ग्रहं राश्या-दिकं मन्दोच्चात् प्रागानीतस्वकीयराश्यादिकं मन्दोच्चभागात्संशोध्योनीकृत्य शीघ्रात् प्रागानीतराश्यादि शीघ्रोच्चात्,चः समुच्चये ऊनीकृत्य शेषं राश्यात्मकं तथोच्चसम्ब-न्धेन केन्द्रं मन्दोच्चाद्धीनो ग्रहो मन्दकेन्द्रम्। शीघ्रो-च्चाद्धीनो ग्रहः शीघ्रकेन्द्रं भवतीत्यर्थः। तस्मात् के-न्द्रात् पदं राशित्रयात्मकं विषमं समं पदं ज्ञेयम्। त्रिराश्यन्तर्गतं चेत् प्रथमं विषमं पदम्। ततःषड्राश्य-न्तर्गतं चेत् त्र्युनं केन्द्रं द्वितीयं समं पदम्। ततो नव-राश्यन्तर्गतं चेत् षडूनं तृतीयं विषमं पदम्। ततोनवोनं चतुर्थं पदं सममित्यर्थः। तस्मात् पदाद्भुजस्य ज्याकोटिः कोटेर्ज्या। चः समुच्चये। एवकारात्तदाकारद्वयंसाध्यमित्यर्थः। अत्रोपपत्तिः। उच्चस्थानाभिमुखमुच्च-दैवतैर्ग्रहाणामाकर्षणोक्तेरुच्चाद्ग्रहः कियदन्तरेणेतिज्ञानार्थसुच्चहीनो ग्रहः केन्द्रमुच्चग्रहणवशात् तदाख्यम्। तत्र भगवता स्पेच्छया ग्रहादुच्चं यदन्तरेण तत् केन्द्रंकृतम्। उभयथा भुजकोट्योस्तुल्यत्वात्। द्वादशरा-श्यङ्किते वृत्ते उच्चस्थानाच्चतुर्विभागात्मक एकैको भागो{??}शित्रयात्मकः पदसंज्ञः। अथोच्चस्थानाद्ग्रहः कस्मिन्[Page2240-b+ 38] पदेऽस्तीति शून्यत्रिषण्णवोनं केन्द्रं कृतं, ज्यानां पदान्त-र्गतत्वात्। ग्रहाधिष्ठितपदाद्भुजज्याकोटिज्ययोर्ज्ञानम्। तच्च ग्रहाणां राश्यंशकलाविकलादिस्थितिज्ञानार्थंस्पष्ट-ताकरणसाधनं तत्रैव प्रसिद्धम्” रङ्ग॰। एतत्साम्यात् लग्नावधिकद्वादशराशिषु त्रिराश्यन्तरस्था-नरूपे लग्नचतुर्थसप्तमदशमस्थानरूपे

२ स्थानचतुष्के।
“लग्नाम्बुद्यूनकर्म्माणि केन्द्रमुक्तञ्च कण्टकम्। चतुष्ट-यञ्चात्र खेटो बली लग्ने विशेषतः” ज्यो॰ त॰। केन्द्र-गतग्रहबलञ्च बलशब्दे वक्ष्यते। केन्द्रगतग्रहवशादायुस्तुकेन्द्रायुरित्यभिधीयते तच्चाकरे दृश्यम्।
“आप्नोक्लिमगतेचन्द्रे केन्द्रस्थे सुरपूजिते। योगः केन्द्र इति ख्यातोयातुरिष्टार्थसिद्धिदः” ज्योतिषोक्ते

३ यात्राशुभयोगभेदे पु॰। केन्द्रं स्थानत्वेनास्त्यस्य इनि। केन्द्रिन् तत्स्थे ग्रहे

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केन्द्र¦ n. (-न्द्रं)
1. The centre of a circle.
2. The argument of an equation.
3. The distance of a planet from the first point of its orbit in the fourth, seventh, or tenth degree. (In astronomy.) It is variously applied in combination, as पतनकेन्द्रं argument of the latitude; द्वितीयकेन्द्रं the distance of the higher apsis from a planet in any point of its orbit; शीघ्रकेन्द्रं commutation, the distance of the sun from a superior planet or of an inferior planet from the sun; मन्दकेन्द्रं argument of anomaly.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केन्द्रम् [kēndram], 1 The centre of a circle.

The argument of a circle.

The argument of an equation.

Distance of a planet from the first point of its orbit in the 4th, 7th or 1th degree.

The first, fourth, seventh and tenth lunar mansion.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


केन्द्र n. (borrowed fr. Gk. ?) , the centre of a circle

केन्द्र n. the equation of the centre

केन्द्र n. the argument of a circle

केन्द्र n. the argument of an equation W.

केन्द्र n. the distance of a planet from the first point of its orbit in the fourth , seventh , or tenth degree Su1ryas. etc.

केन्द्र n. the first , fourth , seventh , and tenth lunar mansion VarBr2S. VarBr2. (See. द्वितीय-क्, पतन-क्, मन्द-क्, शीघ्र-क्.)

"https://sa.wiktionary.org/w/index.php?title=केन्द्र&oldid=497258" इत्यस्माद् प्रतिप्राप्तम्