केशः
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
केशः, पुं, (के मस्तके शेते । शी + अच् । अलुक्- समासः ।) मज्जजातोपधातुविशेषः । चुल् इति भाषा । स तु गर्भस्थबालकस्य अष्टाभिर्मासै- र्जायते । इति सुखबोधः । (केशादयस्तु पितृतो जायन्ते । यथा, सुश्रुते शारीरस्थाने तृतीये- ऽध्याये । “गर्भस्य केशश्मश्रुलोमास्थिनखदन्त- सिरास्नायुधमनीरेतःप्रभृतीनि स्थिराणि पितृ- जानि” ॥ भावप्रकाशे च । “केशाः श्मश्रु च लोमानि नखा दन्ताः सिरास्तथा । धमन्यः स्नायवः शुक्रमेतानि पितृजानि हि” ॥) तत्पर्य्यायः । चिकुरः २ कुन्तलः ३ वालः ४ कचः ५ शिरोरुहः ६ । इत्यमरः । २ । ६ । ९५ ॥ शिर- सिजः ७ मूर्द्धजः ८ अस्रः ९ वृजिनः १० । इति जटाधरः ॥ (रोगविशेषेणास्योत्पाटनानन्तरमुद्भ- वोपायाश्च । यथा, -- “वटावरोहकेशिन्योश्चूर्णेनादित्यपाचितम् । गुडूचीस्वरसेतैलमभ्यङ्गात्केशरोहणम्” ॥ इति आदित्यपाकगुडचीतैलम् ॥ * ॥ “मधुकेन्दीवरमूर्व्वा तिलाज्यगोक्षीरभृङ्गलेपेन । अचिराद्भवन्ति घनकेशा दृढमूलायतानृजवः” ॥ “चन्दनं मधुकं मूर्व्वा त्रिफला नीलमुत्पलम् । कान्तावटप्ररोहश्च गुडचीविषमेव च ॥ लौहचूर्णं तथाकेशी शारिवे द्वे तथैव च । मार्क्कवस्वरसेनैव तैलं मृद्वग्निना पचेत् ॥ शिरस्युत्पतिताः केशा जायन्ते घनकुञ्चिताः । दृढमूलाश्च स्निग्धाश्च तथा भ्रमरसन्निभाः ॥ नस्येनाकालपलितं निहन्यात्तैलमुत्तमम्” ॥ इति चन्दनाद्यं तैलम् ॥ * ॥ “तैलं सयष्टीमधुकैः क्षीरे धात्रीफलैः शृतम् । नस्ये दत्तं जनयति केशान् श्मश्रूणि चाप्यथ” ॥ पक्कावस्थापन्नस्यास्य कृष्णीकरणोपाया यथा, -- “त्रिफलाचूर्णसंयुक्तं लौहचूर्णं विनिक्षिपेत् । ईषत्पक्वे नारिकेले भृङ्गराजरसान्विते ॥ मासमेकन्तु निःक्षिप्य सम्यग्गर्मात् समुद्धरेत् ततः शिरो मुण्डयित्वा लेपं दद्याद्भिषग्वरः ॥ सम्बेष्ट्य कदलीपत्रै-र्मोचयेत्सप्तमे दिने । क्षालयेत्त्रिफलाक्वाथैः क्षीरमांसवसाशिनः ॥ कपालरञ्जनञ्चैव कृष्णीकरणमुत्तमम्” ॥ “उत्पलं पयसा सार्द्धं मासं भूमौ निधापयेत् । केशानां कृष्णकरणं स्नेहनञ्च विधीयते” ॥ इति वैद्यकचक्रपाणिसंग्रहे क्षुद्ररोगाधिकारे ॥) तत्समूहार्थवाचकाः शब्दाः यथा, -- “वालाः स्युस्तत्पराः पाशो रचनाभार उच्चयः । हस्तः पक्षः कलापश्च केशभूयस्त्ववाचकाः” ॥ इति हेमचन्द्रः ॥ * ॥ (कस्य जलस्य ईशः ।) वरुणः । ह्रीवेरम् । इति मेदिनी ॥ (अस्य पर्य्याया यथा, -- “वालं ह्रीवेरवर्हिष्ठोदीच्यं केशोऽम्बुनाम च” ॥ इति वैद्यकरत्नमालायाम् ॥) दैत्यविशेषः । इति हेमचन्द्रः ॥ (कस्य ब्रह्मणोऽपि ईशः । के जले शेते वा ।) विष्णुः । इति शब्दरत्नावली । (काशते प्रका- शते लोके लोकं काशयति वा । काश + अच् पृषोदरात् एत्वे साधुः । सूर्य्याग्निप्रभृतिरश्मिः । “ब्रह्म-विष्णु-रुद्र-संज्ञाः शक्तयः केशसंज्ञिताः” ॥ इति भागवतोक्तेः परब्रह्मशक्तिः । ब्रह्मा । “केशो योनौ तथा भावे हावलावण्ययोरपि । लम्पटे पुरुषे चैव प्रमदायां विशेषतः” ॥ “प्रजापतौ कचे चैव केशशब्दः प्रकीर्त्त्यते” ॥ इति महाभारतटीकाकृन्नीलकण्ठः ॥)
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
केशः [kēśḥ], [क्लिश्यते क्लिश्नाति वा क्लिश्-अन् लो लोपश्च Uṇ 5.33]
Hair in general; विकीर्णकेशासु परेतभूमिषु Ku.5.68.
Especially, the hair of the head; केशेषु गृहीत्वा or केश- ग्राहं युध्यन्ते Sk.; मुक्तकेशा Ms.7.91; केशव्यपरोपणादिव R.3.56;2.8.
The mane of a horse or lion.
A ray of light.
An epithet of Varuṇa.
A kind of perfume.
An epithet of Viṣṇu.
शी A lock of hair (on the crown of the head.)
An epithet of Durgā.
Comp. अन्तः the tip of the hair.
long hair hanging down, a lock of tuft of hair.
cutting of the hair as a religious ceremony; केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्वयधिके ततः ॥ Ms.2.65. -अन्तिक a.
extending to the end of the hair as far as the forehead.
relating to the ceremony of final tonsure. -अरिः m. N. of a plant (Mar. नागकेशर). -अर्हा f. N. of a plant (Mar. थोरनीली).-उच्चयः much or handsome hair. -कर्मन् n. dressing or arranging the hair (of the head) -कलापः a mass or quantity of hair. -कारम् a sort of sugar-cane.-कारिन् a. dressing or arranging the hair of the head; निहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारिणीम् Mb.4.14.34. -कीटः a louse.
गर्भः a braid of hair.
an epithet of Varuṇa. -गृहीत a. seized by the hair. -ग्रन्थिः m. a tie of hair; Bhāg.1.39.14. -ग्रहः, -ग्रहणम् pulling the hair, seizing (one) by the hair (both in amorous sports and in fighting); केशग्रहः खलु तदा द्रुपदात्मजायाः Ve.3.11, 29; Me.52; so यत्र रतेषु केशग्रहाः K.8 (that is, not in battles). -घ्न morbid baldness. -छिद् m. a hair-dresser, barber. -जाहम् the root of the hair. -धारणम् keeping (not cutting) the hair; दूरेवार्ययनं तीर्थं लावण्यं केशधारणम् Bhāg.12.2.6. -प्रसारः cleaning the hair; Bhāg.1. 59.46. -पक्षः, -पाशः, -हस्तः much (or ornamented) तं केशपाशं प्रसमीक्ष्य कुर्युर्बालप्रियत्वं शिथिलं चमर्यः Ku.1.48;7. 57; Śi.8.27. 'the hair for a hand' (केशहस्तः) is another interpretation; cf. कचपक्ष, कचहस्त &c.
बन्धः a hair-band; (विराजसे) मुकुटेन विचित्रेण केशबन्धेन शोभिना Mb. 4.6.12.
a particular position of hands in dancing.-भूः, -भूमिः f. the head or any other part of the body on which hair grows. -प्रसाधनी, -मार्जकम्, -मार्जनम् a comb. -रचना dressing the hair; कुर्वन्ति केशरचनामपरा- स्तरुण्यः Ṛs.4.15. -लुञ्चकः a Jaina ascetic. -वपनम् shaving or cutting the hair. -वेशः a tress of fillet of hair. -वेष्टः the parting of the hair. -व्यपरोपणम् putting the hair; चुकोप तस्मै स भृशं सुरश्रियः प्रसह्य केशव्यपरोपणादिव R.3.56.-शूला a harlot (वेश्या); केशशूलाः स्त्रियश्चापि भविष्यन्ति युगक्षये Mb.3.19.52. -शूलम् disease of the hair; Mb.3; hair on the head and face केशश्मश्रु वपति Mbh. on I.3.1.-संवाहनम् dressing of hair; cf. पादसंवाहने वज्री केशसंवाहने फणी । अहो भाग्यं पुरन्ध्रीणां दधिसंमथने रविः ॥ Subh. Ratn. (स्त्रीप्रशंसा 17).