कोटि
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कोटिः, स्त्री, (कोट्यते छिद्यतेऽनया । कुट छेदे । “सर्व्वधातुभ्य इन्” । उणां । ४ । ११७ । इति इन् । बाहुलकात् गुणः ।) अस्त्रादेः कोणः । (यथा, रघुवंशे । ७ । ४६ । “हृतान्यपि श्येननखाग्रकोटि व्यासक्तकेशानि चिरेण पेतुः” ॥) उत्कर्षः । शतलक्षसङ्ख्या । क्रोर इति भाषा ॥ (यदुक्तं अङ्कशास्त्रे । “एकं दशं शतञ्चैव सहस्रमयुतन्तथा । लक्षञ्च नियुतञ्चैव कोटिरर्व्वुदमेव च” ॥) धनुरग्रम् । इत्यमरमेदिनीकरौ ॥ (यथा, महाभारते । १ । ४० । २२ । “तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासृजत् । समुत्क्षिप्य धनुष्कोट्या स चैनं समुपैक्षत” ॥) (रेखा । यथा, कुमारे । २ । २६ । “आवर्ज्जितजटामौलिविलम्बिशशिकोटयः । रुद्राणामपि मूर्द्धानः क्षतहूङ्कारशंसिनः” ॥ वादविचारः । संशयनिर्णयाय पूर्ब्बपक्षः । यथा, गादाधरीसंशयहेतूक्तिः । “विप्रतिपत्तिवाक्यजन्यकोट्युपस्थितिः” । लीलावत्युक्तत्रिकोणादिक्षेत्रावयवरेखाभेदः । यथा, “इष्टाद्बाहोर्यःस्यात् तत्स्पर्द्धिन्यां दिशीतरोबाहुः । त्र्यस्रे चतुरस्रे वा सा कोटिः कीर्त्तिता तज्ज्ञैः” ॥ सिद्धान्तशिरीमण्युक्तराशिचक्रस्य तृतीयांशः । यथा, “त्रिभिर्भैः पदं तानि चत्वारि चक्रे क्रमात् स्याद- युग्युग्मसंज्ञा च तेषां । अयुग्मे पदे यातमेष्यन्तु युग्मे भुजबाहुहीनं त्रिभं कोटिरुक्ता” ॥ छाया- निरूपणार्थं कल्प्यमानक्षेत्रावयवरेखाविशेषः । यथा, सिद्धान्तशिरोमणौ । “दिक्सूत्रसम्पातगतस्य शङ्को- श्छायाग्रपूर्ब्बापरसूत्रमध्यम् । दोर्दोः प्रभा वर्गवियोगमूलं कोटिर्नरात् प्रागपरा ततः स्यात्” ॥ * ॥ “दिक्सम्पातस्थस्य शङ्कोर्भाग्रं यत्र पतति तस्य पूर्ब्बापरसूत्रस्य च यदन्तरं स दोरित्युच्यते । दो- श्छाययोर्वर्गान्तरपदं पूर्ब्बपरा कोटिः” । इति ॥ चन्द्रस्य शृङ्गोन्नतिज्ञानार्थं क्षेत्रावयवविशेषः । यथा, तत्रैव “योऽधो नरो दिनकृतः स विधो- रुदग्रशङ्क्वन्वितो मम मता खलु सैव कोटिः” ॥ अपि च अर्कस्य योऽसौ अधः शङ्कुःयस्य ऊर्द्ध्वशङ्कुना युक्तश्चेत् तर्ह्येव कोटिर्मतेति । यथा, तत्रैव ।
अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कोटि स्त्री।
धनुषः_अन्त्यभागः
समानार्थक:कोटि,अटनी
2।8।84।2।1
कपिध्वजस्य गाण्डीवगाण्डिवौ पुन्नपुंसकौ। कोटिरस्याटनी गोधातले ज्याघातवारणे॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु
कोटि स्त्री।
खड्गादिप्रान्तभागः
समानार्थक:कोण,पाली,अश्रि,कोटि
2।8।93।2।6
वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम्. प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः॥
पदार्थ-विभागः : उपकरणम्,आयुधम्
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कोटि¦ स्त्री कुट--इञ्।
१ धनुषोऽग्रभागे अमरः
२ वस्तुमात्र-स्याग्रभागे,
३ अस्त्राणां कोणे
४ उत्कर्षे
५ शतलक्षामत-संख्यायां,
६ तत्संख्येये च मेदि॰।
७ पृक्कायाम्(पिडिङ्गशाक) अमरः
८ संशयस्यालम्बने, वादे निर्ण-यार्थं कृते
९ पूर्व्वपक्षे, वा ङीप् कोटीत्यप्यत्र।
“धनु-ष्कोट्यातुद्य कर्णेन वीरम्” भा॰ आ॰
१ अ॰।
“तेन[Page2263-a+ 38] मूमिनिहितैककोटि तत्” (कार्म्मुकम्) रघुः।
“आ-वर्जितजटामौलिविलम्बिशशिकोटयः” कुमा॰
“मूर्द्ध्नि-स्खलत्तुहिनदीधितिकोटिमेनम्” माघः
“विप्रतिपत्तिवा-क्यजन्यकोट्युपस्थितिः” संशयहेतूक्तौ गदाधरः।
“इष्टा-द्वाहोर्यः स्यात्तत्स्पर्द्धिन्यां दिशीतरोबाहुः। त्र्यस्रे चतु-रस्रे वा सा कोटिः कीर्त्तिता तज्ज्ञैः”
१० लीलावत्युक्तेत्रिकोणादिक्षेत्रावयवरेखाभेदे स्त्री
“तथायते तद्भुजकोटिवातः” लीला॰
“त्रिनिर्मैः पदं तानि चत्वारि चक्रे क्र-मात् स्यादयुग्युग्मसंज्ञा च तेषाम्। अयुग्ये पदे यातम्एष्यन्तु युग्मे भुजोबाहुहीनं त्रिमं कोटिरुक्ता” सि॰ शि॰उक्ते राशिचक्रस्य
११ वृतीयांशे
१२ तत्रोक्ते छायानि-रूपणार्थे कल्प्यमानक्षेत्रावयवरेस्वाभेदे यथा
“दिक्सूत्र-सम्पातगतस्य शङ्कोश्छायाग्रपूर्व्वापरसूत्रमध्यम्। दोर्दोः-प्रभावर्गवियोनमूलं कोटिर्नरात् प्रानपरा ततः स्यात्” सि॰ शि॰”
“दिक्संपातस्थस्य शङ्कोर्भाग्रं यत्र पततितस्य पर्ब्बापरसूत्रस्य च यदन्तरं स दोरित्युच्यते देश्छा-ययोर्वर्गान्तरपदं पूर्ब्बापरा कोटिरिति” प्रमि॰
१३ चन्द्रस्यशृङ्गोन्नतिज्ञानार्थं तत्रैव दर्शिते क्षेत्रावयवभेदे च यथा
“योऽधो नरो दिनकृतः स विधोरुदग्रशङ्क्वन्वितो मममता खलु सैव कोटिः” सि॰ शि॰
“यो रवेरधः शङ्कुरसौ विधोरूर्ध्वशङ्कुना युतः सैव को-टिर्मम मता अत्रोपपत्तिः। इहार्केन्द्वोर्याम्योत्तरभावेनयदन्तरं स भुजः। ऊर्ध्वाधरभावेन यदन्तरं मा कोटिः। सा चैवं भवति। उदयेऽस्ते वा यदि शृङ्गोन्नतिस्तदारविशङ्कोरभावाच्छशिवङ्कुरेव कोटिः। यदा निशि रवेर-धः शङ्कुस्तदा स शङ्कु र्वधोरुदयशङ्कुना युतो यावांस्ता-वत् तयोर्यत्रस्थयारूर्द्धावरमन्तरं सैव कोटिरुचिता। यतो द्रष्ट्रा पुरुषेणात्मनोऽवस्थानवशेन शशिनः शृङ्गमुन्नतमवलोक्यम्। अतः स्वावस्थानसमसूत्रादूध्वेरूपिण्याकोट्या भवितव्यम्। भुजकोटिकर्णकृतं त्र्यस्रं दृष्टेरग्रतआदर्शवत् संमुखं यथा भवति तथा कल्प्यम्” प्रमि॰तत्रैवोक्ते
१४ उदयास्तसूत्रकल्पितक्षेत्रावयवभेदे यथा
“सूत्राद्दिवाशप्रुतलं यमंशं याम्यां गतं हि द्युनिशंकुजोर्द्धे। अधश्च सौम्यां निशि सौम्यमस्मात् सद्युक्ति-युक्तं नृतल निरुक्तम्। सौन्याग्रकाग्रान्नृतलं हियाम्यं याम्याग्रकाग्रात् पुनरेव याम्यम्। तदन्तरैक्यंसमवृत्तखेटमध्यांशजीवां भुवि बाहुमाहुः। दृग्ज्यां श्रुतिंचाथ तयोस्तु कोटिं पूर्वापरां वर्गवियोगमूलम्” सि॰ शि॰[Page2263-b+ 38]
“क्षितिजस्याहोरात्रवृत्तसंपातयोर्बद्धं सूत्रमुदयास्तसूत्रम्। ग्रहस्थानाल्लम्बः शङ्कुः! तस्य तलमुदयास्तसूत्राद्दक्षिणतोभवति। यतः क्षितिजादुपरि दक्षिणतोऽहोरात्रवृत्तं ग-तम्। अधस्तूत्तरतो गतम्। अतो निश्युत्तरं नृतलम्। अथ भुज उच्यते। उत्तरगोलेऽग्रीत्तरा नृतल याम्य-मतस्तेनोनाग्रा बाहुभेवति। बाहुर्नाम शङ्कुप्राच्यपर-सूत्रयोरन्तरम्। यदाऽग्रा शङ्कुतलादूना तदा तयोन्तरंदक्षिणं शङ्कुतलं बाहुः स्यात्। एवं समवृत्तप्रवेशादुपरिदक्षिणगोले त्वग्रा याम्या शङ्कुतलं च याम्यं तयोर्योगेकृते बाहुः स्यात्। रविसमसण्डलयोरन्तरांशानां ज्याबाहुः। तत्र या दृग्ज्या सृ कर्णः। तयोर्वर्गान्तरपदंपूर्व्वापरा कोटिः” प्रमि॰
“शतं शतसहखाणां केटिमाहुर्मनीषिणः” रामा॰। तत्र संख्यायाम्
“योनिकोटिसहस्रेषु सृतिं चास्याहुरा-त्मनः” मनुः।
“कोटिकोटिगुणितं दिवि दायि” नैष॰। संख्यान्विते
“कोटीश्च{??}स्रोदश चाहरेति” रघुः। ततो वारेकृत्वसुच्। कोटिकृत्वस् कोटिवारार्थे अव्य॰। कारकार्थवृ-त्तेस्ततः वीप्सायां शम्। कोटिशस् वीप्सान्वितकारकरूपेतदर्थे अव्य॰ कोटिशोददाति।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कोटि¦ f. (-टिः)
1. The edge or point of a sword.
2. The curved end of a bow.
3. A number, a Krore or ten millions.
4. Eminence, excell- ence.
5. The upright side of a triangle.
6. The complement of an arc to 90º.
7. A plant, Piring or Asparac, (Medicago esculenta.)
8. A department.
9. The horn of the moon
10. one side of a deba- table question. E. कुट् to be crooked, and इण् Unadi affix; also कोटी।
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कोटि [kōṭi] टी [ṭī] शः [śḥ], (टी) शः A harrow.
कोटिः [kōṭiḥ] टी [ṭī], टी f. [कुट्-इञ्]
The curved end of a bow; भूमिनिहितैककोटिकार्मुकम् R.11.81; U.4.29.
The end or extremity, edge or point in general; सहचरीं दन्तस्य कोट्या लिखन् Māl.9.32; अङ्गदकोटिलग्नम् R.6.14;7.46;8.36.
The edge or point of a weapon.
The highest point, excess, pitch, climax, excellence; परां कोटिमानन्दस्याध्यगच्छन् K.369; so कोपकोटिमापन्ना Pt.4; excessively angry; कल्याणीं कलयामि कञ्जनिलयां कल्याणकोटिस्थिताम् Viś. Guṇā.275.
The horns or digits of the moon; आवर्जितजटामौलिविलम्बिशशि- कोटयः Ku.2.26.
Ten millions, a crore; वित्तस्य विद्यापरि- संख्यया मे कोटीश्चतस्रो दश चाहरेति R.5.21;12.82; Ms.6.63.
The complement of an arc to 9˚ (in math.).
The perpendicular side of a right-angled triangle (in math.).
A class, department, kingdom; मनुष्य˚, प्राणि˚ &c.
One side of a question in dispute, an alternative.
The pinnacle, peak (शिखर); कोटिं तस्य समुद्रस्य काञ्चनीं शतयोजनाम् Rām.4.42.19. -Comp. -ईश्वरः a millionaire; ततः कोटीश्वराख्येन वणिजा स समं ययौ Ks.56.64; नवनवतिशतद्रव्यकोटीश्वरास्ते नन्दाः ... हताः पश्यतो राक्षसस्य Mu.-जित् m. an epithet of Kālidāsa. -जीवा, -ज्या the cosine of an angle in a right-angled triangle (in math.).-द्वयम् two alternatives. -पात्रम् a rudder. -पालः the guard of a stronghold. -वर्षम् N. of the capital of the demon-chief Bāṇa. -वेधिन् a. (lit.) striking a point; (fig.) performing the most difficult things; कोटिवेधिनि सिद्धे हि Rāj. T.1.11. -श्रीः an epithet of Durgā.-होमः a kind of sacrificial offering.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कोटि f. the curved end of a bow or of claws , etc. , end or top of anything , edge or point (of a sword) , horns or cusps (of the moon) MBh. etc.
कोटि f. the highest point , eminence , excellence Pan5cat. Ratna7v. Sarvad.
कोटि f. " a point or side in an argument or disputation " , (if there are two) " alternative "See. -द्वयbelow
कोटि f. the highest number in the older system of numbers (viz. a Krore or ten millions) Mn. Ya1jn5. MBh. etc.
कोटि f. the complement of an arc to 90 degrees
कोटि f. the perpendicular side of a right-angled triangle Su1ryas.
कोटि f. Medicago esculenta L.