कोटिशः
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कोटिशः, पुं, (कोट्या अग्रेण श्यति नाशयति चूर्णीकरोतीत्यर्थः । कोटि + शो + कः ।) लोष्ट- भङ्गसाधनमुद्गरः ॥ इति भरतः ॥ मै इति ख्यात इति केचित् । तत्पर्य्यायः । लेष्टुभेदनः २ । इत्य- मरः । २ । ९ । १२ ॥ लेष्टुघ्नः ३ कोटीशः ४ । इति रत्नकोषः ॥ लेष्टुभेदी ५ चूर्णदण्डः ६ लोष्टभङ्गा- र्थमुद्गरः ७ । इति शब्दरत्नावली ॥ लोष्टघ्नः ८ । इति जटाधरः ॥ (कोटिरस्यास्तीति लोमा- दित्वात् शः । कोटियुक्ते, त्रि ॥ वासुकीवंशीय- नागविशेषः । यथा, महाभारते । १ । ५७ । ५ । “कोटिशो मानसः पूर्णः शलः पालो हलीमकः” ॥)
कोटिशः, [स्] व्य, (कोटि + वारार्थे चशस् ।) कोटिः कोटिः । इति व्याकरणम् । (यथा, रघौ । २ । ४९ । “गाः कोटिशः स्पर्शयता घटोध्नीः” ॥)
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कोटिशः [kōṭiśḥ], ind. By crores, by tens of millions, in innumerable numbers; गां कोटिशः स्पर्शयता घटोध्नीः R.2.49.