यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रकचः, पुं क्ली, ग्रन्थिलवृक्षः । इति मेदिनी ॥ (ज्योतिषोक्तयोगभेदः । तस्य लक्षणं यथा, -- “षष्ठ्यादितिथयो मन्दाद् विलोमं क्रकचः स्मृतः” ॥ अस्य विवृतिर्यथा । “शनौ षष्ठी, शुक्रे सप्तमी, गुरौ अष्टमी, बुधे नवमी, भौमे दशमी, सोमे एकादशी, रवौ द्वादशी, एते योगाः क्रकचाख्या विज्ञेयाः” । यथा, नारदोक्तिः । “त्रयोदशस्युर्मिलने सख्ययोस्तिथिवारयोः । क्रकचो नाम योगोऽयं मङ्गलेष्वतिगर्हितः” ॥ * ॥ क्र इति कृत्वा कचति शब्दायते । कच शब्दे + पचाद्यच् ।) करपत्रम् । काष्ठविदारणास्त्रविशेषः । करात् इति भाषा । इत्यमरः । १ । १० । ३५ ॥ (यथा, महाभारते ३ । २२ । ३४ । “मध्येन पाटयामास क्रकचो दार्व्विवोच्छ्रितम्” ॥) “अथ क्रकचव्यवहारे करणसूत्रं वृत्तम् । पि- ण्डयोगदलमग्रमूलयोर्द्दैर्घसंगुणितमङ्गुलात्मकम् । दारुदारणपथैः समाहतं षट्स्वरेषु विहृतं करा- त्मकम् ॥ उदाहरणम् । मूले नखाङ्गुलमितोऽथ नृपाङ्गुलोऽग्रे पिण्डः शताङ्गुलमितं किल यस्य दैर्घ्यम् । तद्दारुदारणपथेषु चतुर्षु किं स्या- द्धस्तात्मकं वद सखे गणितं द्रुतं मे ॥ न्यासः २० क्राकच्यं दारुविषमं १६ १०० पिण्डयोगदलम् । १८ । दैर्घ्येण । १०० । संगुणितम् । १८०० । दारुदारणपथैः । ४ । गुणितम् । ७२०० । षट्स्वरेषु । ५७६ । विहृतं जातं करात्मकं गणि- तम् । २५/२ ॥ क्रकचान्तरे करणसूत्रं सार्द्धवृत्तम् । छिद्यते तु यदि तिर्य्यगुक्तवत् पिण्डविस्तृतिहते फलं तदा । इष्टिकाचितिदृषच्चितिखातक्राकच- व्यवहृतौ खलु मूल्यम् । कर्म्मकारजनसम्प्रति- पत्त्या तन्मृदुत्वकठिनत्ववशेन ॥ उदाहरणम् । यद्विस्ततिर्द्दन्तमिताङ्गुलानि पिण्डस्तथा षोडश यत्र कोष्ठे । छेदेषु तिर्य्यङ्नवसु प्रचक्ष्व किं स्यात् फलं तत्र करात्मकं मे ॥ विस्तृतिहतिः । ५१२ । दारुदारणमार्ग । ९ । घ्ना । ४६०८ । षट्स्वरेषु । ५७६ । विहृतं जातं फलं हस्ताः । ८ । इति लीलावत्यां क्रकचव्यव- हारः ॥ * ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रकच पुं-नपुं।

शास्त्रादिविदारणशस्त्रम्

समानार्थक:क्रकच,करपत्र

2।10।34।2।1

वृक्षादनी वृक्षभेदी टङ्कः पाषाणदारणः। क्रकचोऽस्त्री करपत्रमारा चर्मप्रभेदिका॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रकच¦ mn. (-चः-चं)
1. A saw.
2. A thorny plant: see करीर। f. (-चा) The Ketaki: see the next. E. क्र an imitative sound, कच् to emit sound, affix अच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रकचः [krakacḥ], 1 A saw; U.4.3; Mv.5.19.

A kind of instrument of war music (जयमङ्गल); Mb.6.43.8; क्रकचानां काहलानां पणवानां च सर्वशः Śiva B.24.54. -चा The Ketaka tree. -Comp. -च्छदः the Ketaka tree.-पत्रः the teak tree. -पाद -पादः m., a lizard. -पृष्ठी The कवयी fish. -व्यवहारः a particular method of computing or rating a heap of wood; Līla.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रकच mn. a saw MBh. etc.

क्रकच m. a kind of musical instrument MBh. vii , 1676 ; ix , 2676

क्रकच m. Ardea virgo Npr.

क्रकच m. N. of a plant (Capparis aphylla L. ) Ka1d.

क्रकच m. of a hell PadmaP.

क्रकच m. of a कापालिकpriest SS3am2kar.

"https://sa.wiktionary.org/w/index.php?title=क्रकच&oldid=497622" इत्यस्माद् प्रतिप्राप्तम्