क्लीब
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्अमरकोशः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्लीब पुं-नपुं।
नपुंसकम्
समानार्थक:पोटा,तृतीयाप्रकृति,शण्ढ,क्लीब,षण्ड,नपुंसक
2।6।39।2।3
सूतिमासो वैजननो गर्भो भ्रूण इमौ समौ। तृतीया प्रकृतिः शण्ढः क्लीबः पण्डो नपुंसके॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
क्लीब वि।
अविक्रमः
समानार्थक:क्लीब
3।3।214।1।1
क्लीबं नपुंसकं षण्डे वाच्यलिङ्गमविक्रमे। द्वौ विशौ वैश्यमनुजौ द्वौ चराभिमरौ स्पशौ॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्लीब(व)¦ वैकल्ये अप्रागल्भ्ये च भ्वा॰ आत्म॰ अक॰ सेट्। क्लीब (व)ते अक्लीबि(वि)ष्ट। चिक्लीबे(वे)क्लीबि(वि)त्वा। पा॰ मते अयं पवर्ग्यान्त्यः कविक॰ मते अन्त्यस्थान्त्यः। ऋदित् चङि अचिक्लीब(व)त् त।
क्लीब(व)¦ पु॰ न॰। क्लीब(व)--क। पुंस्त्रीभिन्ने तृतीयप्रवृ-तौ षण्डे। स च
“न मूत्रं फेनिलं यस्य विष्ठा चाप्सुनिमज्जति। मेढ्रं चोन्मादशुक्राभ्यां हीनः क्लीवःस उच्यते” इति कात्यायनोक्तलक्षणः। स च चतुर्द्दशविधः नार-देन दर्शितोयथा।
“चतुर्द्दशविधः शास्त्रे षण्डो दृष्टो मनीषिभिः। चिकित्-स्यश्चाचिकित्स्यश्च तेषामुक्तो विधिः क्रमात्। निसर्गष-ण्डो
१ ऽनण्डश्च
२ पक्षषण्ड
३ स्तथैव च। अभिशापात्गुरो
४ रोगात्
५ देवक्रोधत्
६ तथैव च। ईर्ष्याषण्ड्य
७ स्तथासेक्यो
८ वातरेता
९ मुखेभगः
१० । आक्षेप्ता
११ मोघवीजश्च
१२ शालीनो
१३ ऽन्यापति
१४ स्तथा। तत्राद्यावप्रतीकार्य्यौ पक्षाख्यं मासमाचरेत्। अनुक्र-मात्त्रयस्याथ कालः संवत्सरः स्मृतः। ईर्ष्या षण्डा-दयोयेऽन्ये चत्वारः समुदाहृताः। त्यक्तव्यास्ते पतितवत्क्षतयोन्या अपि स्त्रियाः। आक्षेप्तृमोघवीजाभ्यांकृतेऽपि पतिकर्मणि। पतिरन्यः स्मृतोनार्य्या वत्सरार्द्धंप्रतीक्ष्य तु। शालीनस्यापि दृष्टस्त्रीसंयोगादुच्छ्रयेत्[Page2345-b+ 38] ध्वजः। तं हीनवेगमन्यस्त्रीबालाद्याभिरुपाचरेत्। अन्यस्यां यो मनुष्यः स्यादमनुष्यः स्वयोषिति। लभेतस्वाम्यं भर्त्तानोएतकार्य्यं प्रजाकृते। अपत्यार्थं स्त्रियःसृष्टाः स्त्री क्षेत्रं वीजिनो नराः। क्षेत्रं वीजवते देयंसवीजी क्षेत्रमर्हति” अत्र
“नष्टे मृते प्रव्रजिते क्लीवे वापतिते पतौ। पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते” इति क्लीवपतिपरित्यागे प्राप्ते क्लीवस्य चिकित्स्याचि-कित्स्यत्वभेदेन द्वैविध्यमुक्त्वा चिकित्स्यस्य कालविशेषपर्य्यन्तं सुश्रुताद्युक्तवाजीकरणादिना उपचर्य्यता अचि-कित्स्यस्य तु सर्वथा त्याज्यता दर्शिता। तत्र निसर्ग-षण्डः मनूक्तो मातापित्रोः समवीर्य्यजातः। अनण्डःअण्डहीनः छिन्नाण्डः कृतक्लीवश्च तौ द्वौ अप्रती-कार्य्यौ अचिकित्स्यौ। पक्षाख्य पक्षव्यापकषण्डमासमाचरेत् चिकित्सेत्। त्रयस्य गुरोरभिशापरो-गदैवकोपकृतकक्लैव्यस्य सवत्सर चिकित्स्यत्वम्। ईर्ष्या-षण्डादयस्तु चत्वारः अचिकित्स्यत्वात् पतिततुल्यत्वेनसर्वथा त्याज्याः न तत्र कालप्रतीक्षा। आक्षप्ता वीजस्यईषत्क्षेप्ता दर्शनमात्रादिना स्खलितवीर्य्यः मोघवीर्य्यःअपत्योत्पादनायोग्यवीजः एतौ द्वौ षण्मासं चिकित्स्यौशालीनस्य तु चिकित्स्यत्वेन अत्याज्यता। अन्यपतेस्तु सर्वथात्याज्यता। अत्र क्षतयोन्या इति विशेषणात् क्लीवपति-त्यागवचनं वागदत्ताविषयमिति कल्पनं निरस्तम्। नष्टेमृतेइत्यादिवचनं युगान्तरविषयम्
“दत्तायाश्चैव कन्यायाःपुनर्दानं वरस्य च” इत्यादित्यपुराणे कलिवर्ज्यधर्म्मे-ष्वभिधानात् इति माधवाचार्य्यः। अन्ये तु कलिधर्म्मप्रक-रणे पराशरेण तथविधानात् स्मृतेः पुराणात् बलवत्त्वेनकलावपि तत्प्रवृत्तिरित्याहुः। साम्प्रदायिकास्तु वेदार्थानुभवजन्यमुनिप्रणीतवाक्यस्य व स्मृतित्वेन पुराणान्त-र्गतधर्म्मविधायकनिषेधवाक्ययोरपि स्मृतित्वात्
“द्वैधेबहूनां वचनमिति” न्यायेन बहूनां तयासम्मत्यभावात् शि-ष्टाचारविरोधाच्च पराशरवाक्यमनादृत्य बहुसम्मत एवपक्ष आदरणीय इत्याहुः। इर्ष्याषण्डादिलक्षणं सुश्रु-तोक्तम्। सुश्रुते तु नपुंसकोत्पत्तिकारणसहितास्तद्भेदाअन्यथा दर्शिता यथा
“पित्रोरत्यल्पवीजत्वादासेक्यः पुरुषो भवेत्। स शुक्रंप्राश्य लभते ध्वजोच्छ्रायमसंशयम्। यः पूतियोनौजायेत स सौगन्धिकसंज्ञितः। स योनिशेफसोर्गन्धमा-घ्राय लभते बलम्। स्वे गुदेऽब्रह्मचर्य्याद्यः स्त्रीषु पुं-[Page2346-a+ 38] वत् प्रवर्त्तते। कुम्भीकः स च विज्ञेय ईर्ष्यकं शृणुचापरम्। दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्त्तते। ईर्व्यकः स च विज्ञयः षण्डकं शृणु पञ्चमम्। यो भा-र्य्यायामृतौ मोहादङ्गनेव प्रवर्त्तते। ततः स्त्रीचेष्टिताकारोजायते षण्डसंज्ञितः। ऋतौ पुरुषवद्वापि प्रवर्त्तेताङ्गनायदि। तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता। आसेक्यश्च सुगन्धी च कुम्भीकश्चेर्ष्यकस्तथा। सरेतस-स्त्वमी ज्ञेया अशुक्रः षण्डसंज्ञितः। अनया विप्रकृत्या तुतेषां शुक्रवहाः सिराः। हर्षात् स्पुटत्वमायान्ति ध्व-जोच्छ्रायस्ततो भवेत्”। तस्य दायानधिकारिता अनंशशब्दे
१४
३ पृ॰ उक्ता। तत्रायविशेषः।
“क्लीवोऽथ पतितस्तज्जः पङ्गुरुन्मत्तकोजडः। अन्धोऽचिकित्स्यरोगाद्याभर्त्तव्याः स्युर्निरंश-काः” या॰ व्याख्या मिता॰
“एतेषां विभागात् प्रागेवदोषप्राप्तावनंशत्वत्वं न पुनर्विभक्तानां, विभागोत्तरकालम-प्यौषधादिना दोषनिर्हरणे भागप्राप्तिरस्त्येव
“विभक्तेषुसुतोजातः सवर्ण्णायां विभागभाक्” इत्यस्य समानन्यायात्। क्लीवान्धौ यदि जन्मत आरभ्य तदा विभागानर्हावेव यदित्वत्तरा तदा, तदपगमश्चेदौषधादिना, तर्हि
“दृश्याद्वातद्विभागः स्यादायव्ययविशोधितादिति” रीत्या विभागा-र्हावेवेत्युक्तम्”। अत्रविशषः क्लीवादीनामनंशत्वात्तत्पु-त्राणामप्यनंशत्वे प्राप्त इदमाह” मिता॰
“औरसाःक्षेत्रजास्त्वेषां निर्दोषा भागहारिणः”। या॰
“एतेषांक्लीवादीनामौरसाः क्षेत्रजा वा पुत्रा निर्दोषा अंश-ग्रहणविरोधिक्लेव्यादिदोषरहिता भागहारिणः, अंश-ग्राहिणो भवन्ति। तत्र क्लीवस्य क्षेत्रजः पुत्रः सम्भव-त्यन्येषामौरसा अपि। औरसक्षेत्रजयोर्ग्रहणं इत-रपुत्रव्युदासाथम्। क्लीवादिदुहितॄणां विशेषमाहनिता॰”।
“सुताश्चैषां प्रभर्तव्या यावद्वै भर्तृसात्कृताः”। या॰
“एतेषां क्लीवादीनां सुता दुहितरो यावद्विवाहसंस्कृता न भवन्ति तावद्भरणीयाः। चशब्दात्संस्कार्याश्च। क्लीवादिपत्नीनां विशेषमाह मिता॰
“अपुत्रायाषितश्चैषां भर्त-व्याः साधुवृत्तयः। निर्वास्या व्यभिचारिण्यः प्रतिकूलास्त-थैव च” या॰।
“एषां क्लीवादीनामपुत्राः पत्न्यः साधुवृत्तयःसदाचाराश्चेद्भर्तव्या भरणीयाः। व्यभिचारिण्यस्तुनिर्वात्याः। प्रतिकूलास्तथैवच निर्वास्याभवन्ति भरणीया-श्चाव्यभिच रिण्यश्चेत्। न पुनः प्रातिकूल्यमात्रेण भर-णमपि न कर्त्तव्यम्” मिता॰[Page2346-b+ 38] वीरमित्रोदये विशेष
“क्लीवादीनामपि दारपरिग्रहेण पुत्रसम्भव उक्ती मनुना
“यद्यर्थिता तु दारैः स्यात् क्लीवादीनांकथञ्चन। तेषामुत्पन्नतन्तूनामपत्यं दायमर्हति”। तन्तु-रपत्यम्। नच क्लीवादेरुपनयनाभावेन पतितत्वात् कथंदारसम्बन्ध इति वाच्यम्। उपनयनानर्हतया अनुप-नीतत्वे शूद्रवदपतितत्वात्”। एतच्चिन्त्यं
“मुखेभगाश्च ये केचित् क्लीवप्राया नपुंसकाः। व्रह्मदण्डहता ये च ये च वै ब्राह्मणैर्हताः। महापात-किनो ये च पतितास्ते प्रकीर्त्तिता” शु॰ त॰ ब्रह्मपु॰क्लीवस्य पतितत्वोक्तेः। केचित्तु तत्र उत्तरार्द्धे
“पतितानांन दाहःस्यान्नान्त्येष्टिर्नास्थिसञ्चयः पातः कर्त्तव्यो नचाश्रुनाशौ च मुदकक्रिया” इत्युक्तेरशौचाद्यभावाङ्गमिदं पा-तित्यंनान्यत्र। अतएव अनंशिगणनायां याज्ञवल्क्यादि-भिः पतितात् पृथक् क्लीवस्य कीर्त्तनं सङ्गच्छते इत्याहुः। मनुनाऽस्यापाङ्क्तेयत्वमुक्तम्
“आचारहीनः क्लीवश्च नि-त्ययाचनकस्तथा” इत्युपक्रमे
“एतान् विगर्हिताचारान-पाङ्क्तेयान्द्विजाधमान्” इति।
“अस्योत्पत्तौ कारणमुक्तंमनुना।
“पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिकस्त्रियाः। साम्येऽपुमान् पुंस्त्रियौ वा क्षीणाल्पे च विप-र्य्ययः”
“पुंसोवोजे अधिकेऽयुग्मास्वपि पुत्रो जायते स्त्री-वीजेऽधिके युग्मास्वपि दुहितैव। अतोवृष्याहारादिनानिजवीजाधिक्यं भार्य्यायाश्चाहारलाघवादिना विजाल्पत्वमवगम्यायुग्मास्वपि पुत्रार्थिना गन्तव्यमिति दर्शितंस्त्रीपुंसायोस्तु वीजसाम्येऽपुमान् नंपुसकं जायते पुं-स्त्रियाविति यमौ निःसारेऽल्पे चोभयोरेव वीजे गर्भस्या-सम्भवः” कुल्लू॰। कर्त्तव्यकर्म्मसु
२ निरुद्साहे
३ अधीरे
४ विक्रमहीने अमरःतस्य भावः ष्यञ्। क्लेव्य न॰। तल् क्लीवता स्त्री। त्वक्लीवत्व न॰ तद्भावे
“मा क्लेव्यं गच्छ कौन्तेय! नैतत्-त्वय्युपपद्यते” गीता।
“पुनरक्लावतया प्रकाश्यताम्” रघुः।
“अक्लीवतया धैर्य्येण” मल्लि॰।
“कोहि धर्म्मोऽस्तिते भीष्म! ब्रह्मचर्य्यमिद वृथा। यद्धारयसि मोहाद्भाक्लीवत्वाद्वा न संशयः” भा॰ स॰
४० अ॰। क्लैव्यञ्च पुंस्त्वे-न्द्रियोपघातः अशक्तिशब्दे
४७
३ पृ॰ उदा॰। जातस्यक्लीवताकारणं च सुश्रुतेदर्शितं यथा
“शुक्रवहेद्वे धमन्यौतयोर्तूलं स्तनौ वृषणौ च तत्र विद्धस्य क्लीवता चिरात्प्रसेको रक्तशुक्रता च”।
“क्लीवरूपांस्तिरीटिनः” अथ॰
८ ,
६ ,
७ , क्लीवैवाचरति ङ्यः क्विप् वा। क्लीवायते। क्वा-[Page2347-a+ 38] वपि आत्म॰ क्लीबते मुग्ध॰।
४ शब्दनिष्ठधर्म्मभेदे तद्विवृतिःशब्दार्थरत्ने यथा
“लिङ्गत्वञ्च प्राकृतगुणगतावस्थात्मकोधर्म्मएव तद्विशेषश्चपुंनपुंसकत्वादिः। तथा हि सर्व्वेषां त्रिगुणप्रकृतिका-र्य्यतया शब्दानामपि तथात्वे न गुणगतविशेषाच्छब्देषुलिङ्गविशेष इति कल्प्यते स च विशेषः शास्त्रे इत्थमभ्यधायि। विकृतसत्वादीनां तुल्यरूपेणावस्थानात् नपुसं-कत्वं सत्वस्याधिक्ये पुंस्त्वम्, रजआध्यिक्ये स्त्रीत्वमिति। एवञ्च लिङ्गस्य शब्दधर्म्मत्वेऽपि शब्देन सहार्थाभेदा-रोपात् असति वाधके अर्थेऽपि साक्षात् तत्पारतन्त्र्येणवा सर्व्वत्र तस्य विशेषणत्वम् शाब्दवोधे शब्दभानस्येष्ट-त्वाच्च शब्दस्य नामार्थतावत् तद्गतलिङ्गस्यापि नामार्थतौ-चित्यात्
“न सोऽस्ति प्रत्ययीलोके यः शब्दानुगमादृते” इतिप्रागुक्तेः
“शब्दोऽपि यदि भेदेन विवक्षा स्यात्तदा तथा। नो चेत् श्रोत्रादिभिः सिद्धोऽप्यसावर्थेऽवभासते” इतिहर्य्यु-क्तश्च शब्दाना नामार्थतावगतेः। तथा प्रातिपदिकार्थः। अभेदविवक्षायां तु श्रोल्त्रादिभिरेव सिद्धः ज्ञातः सत् अर्थेप्रकारतया भासते इति तदर्थः। युक्तञ्चैतत् पुंलिङ्गः श-ब्दैतिव्यवहारात्
“स्वमोर्नपुंसकादिति” पा॰ सूत्रे शब्दस्यैवनपुंसकत्वव्यपदेशात् दारानित्यादौ पुंस्त्वान्वयबाधाच्च लि-ङ्गस्य शब्दधर्म्मत्वमन्यथैतेषु लिङ्गाद्यनन्वयापत्तेर्व्यवहा-रसूत्रनिर्द्देशासङ्गत्यापत्तेश्च। तथा अर्थभेदाच्छब्दभेद-वत् लिङ्गभेदादपि शब्दभेदैति कल्प्यते प्रागुक्तधर्म्म विशे-षरूपभेदकसद्भावात्। उक्तञ्च भाष्ये
“एकार्थे शब्दान्यत्वाद्दृष्टं लिङ्गान्यत्वमिति”। एवञ्च तटादिशब्दानामगेकलि-ङ्गत्वव्यवहारः समानानुपूर्व्वीकत्वेनैव वस्तुतस्तषां भिन्ना-नामव भिन्नलिङ्गत्वमिति दिक्”।
“अकारादि क्षकारा-न्तान् क्लीवहीनान् लिखेत्ततः। ॠऋवर्ण्णद्वयं ऌॡद्वयं क्लीबं प्रचक्षते” अकडमचक्रे तन्त्रसारोक्ते ऋ-कारादिवर्णचतुष्के च
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्लीब [klība] व [v] , (व) a.
Impotent, neuter, emasculated; Ms. 3.15,4.25; Y.1.223.
Unmanly, timid, weak, weak-minded; R.8.84; क्लीबान् पालयिता Mk.9.5.
Cowardly.
Mean, base.
Idle.
Of the neuter gender.
Desireless (कामहीन); विद्वान्क्लीबः पश्यति प्रीतियोगात् Mb.12.292.23.
बः, बम् (वः, वम्) An impotent man, a eunuch; न मूत्रं फेनिलं यस्य विष्टा चाप्सु निमज्जति । मेढ्रं चोन्मादशुक्राभ्यां हीनं क्लीबः स उच्यते ॥ Kātyāyana quoted in Dāyabhāga.
The neuter gender.
क्लीबता, क्लैब्यम् (व्यम्) Impotence (lit.); बरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् Pt.1.
Unmanliness, timidity, cowardice; क्लैब्यं मा स्म गमः पार्थ Bg.2.3.
Impotence, powerlessness; यत्रोत्पलदलक्लैब्यमस्त्राण्यापुः सुरद्विषाम् R.12.86.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्लीब mf( आ)n. ( Pa1n2. 3-1 , 11 Va1rtt. 3 ) impotent , emasculated , a eunuch AV. VS. TS. S3Br. Mn. etc.
क्लीब mf( आ)n. unmanly , timorous , weak , idle , a coward MBh. Mr2icch. BhP. etc.
क्लीब mf( आ)n. having no water (as a cloud) Das3.
क्लीब mf( आ)n. (in lexicography) of the neuter gender
क्लीब n. (in lexicography) the neuter gender.