क्षीण
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षीणः, त्रि, (क्षि + क्तः । “निष्ठायामण्यदर्थे” । ६ । ४ । ६० । इति दीर्घः । “क्षियोदीर्घात्” । ८ । २ । ४६ । इति निष्ठातस्य नः ।) सूक्ष्मः । अबलः । तत्पर्य्यायः । दुर्ब्बलः २ कृशः ३ क्षामः ४ तनुः ५ छातः ६ तलिनः ७ अमांसः ८ पेलवः ९ । इति हेमचन्द्रः ॥ (यथा, गीतायाम् ९ । २१ । “ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति” ॥ राजयक्ष्मान्तर्गतरोगविशेषे, पुं । “क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटीग्रहः” ॥ अस्य चिकित्सा यथा, -- “क्षामः क्षीणः क्षतोरस्कस्त्वनिद्रः सबलेऽनले शृतक्षीररसेनाद्यात् सक्षौद्रघृतशर्करम् ॥ शर्कराञ्च यवक्षौद्रजीवकर्षभकौ मधु । शृतक्षीरानुपानं वा लिह्यात् क्षीणः क्षतः कृशः ॥ क्रव्यादमांसनिर्य्यूहं घृतभृष्टं पिबेच्च सः” ॥ “क्षामक्षीणकृशाङ्गानां एतान्येव घृतानि च । त्वक्क्षीरीशर्करालाजचूर्णैः पानानि योजयेत् । सर्पिर्गुडान् समध्वंशान् जग्ध्वा दद्यात्पयोऽनु च ॥ रेतो वीर्य्यं बलं पुष्टिं तैराशुतरमाप्नुयात्” ॥ “फलाम्लं सर्पिषा भृष्टं विदारीक्षुरसे शृतम् । स्त्रीषु क्षीणः पिबेद्यूषं जीवनं बृंहणं परम् ॥ जीवनीयोपसिद्धं वा घृतभृष्टन्तु जाङ्गलम् । रसं प्रयोजयेत् क्षीणो व्यञ्जनार्थे सशर्करम्” ॥ “यद्यत् सन्तर्पणं शीतमविदाहि हितं लघु । अन्नपानं निषेव्यन्तत् क्षतक्षीणैः सुखार्थिभिः” ॥ इति चिकित्सास्थाने षोडशेऽध्याये चरकेणोक्तम् ॥)
वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षीण¦ त्रि॰ क्षि--क्त।
१ दुर्बले,
२ क्षामे च
“अष्टमांशे चतुर्द्दश्याःक्षीणोभवति चन्द्रमाः” छन्दो॰।
“क्षीणे पुण्ये मर्त्यलोकंविशन्ति” श्रुतिःभावप्र॰ वातादिक्षयभेदेन क्षीणभेदास्तल्लक्षणादिकमुक्तम्
“वातक्षयेऽल्पचेष्टत्वं मन्दवाक्यं विसंज्ञता। पित्तक्षयेऽधिकःश्लेष्मा वह्निमान्द्यं प्रभाक्षयः। सन्धयः शिथिलमूर्च्छारौक्ष्मन्दाहः कफक्षये। हृत्पीडा कण्ठशोथोऽथ त्वक्शून्या तृड् रसक्षये। सिराः श्लथा हिमाम्लेच्छा त्वक्-पारुष्यं क्षयेऽसृजः। गण्डौष्ठकन्धरास्कन्धवक्षोजौरःसन्धिषु। उपस्थशोथपिण्डीषु शुष्कता गात्ररूक्षता। मेदीधमन्यः शिथिलाः भवेयुर्माससंक्षये। प्लीहाभि-वृद्धिः सन्धीनां शून्यता तनुरूक्षता। प्रार्थना स्निग्ध-मांसस्य लिङ्गं स्यान्मेदसः क्षये। अस्थिशूलन्तनौ रौक्ष्यंनखदन्तत्रुटिस्तथा। अस्थिक्षये लिङ्गमेतद्वैद्यैः सर्व्वै-रुदाहृतम्। शुक्राल्पत्यं पूर्व्वभेदस्तोदः शून्यं त्वनस्थिनि। लिङ्गान्येतानि जायन्ते नराणां मज्जसंक्षये। शुक्रक्षयेरतेऽशक्तिर्व्यथा शेफसि सुष्कयोः। चिरेण शुक्रसेकःस्यात्सेके रक्ताल्पशुक्रता। अथौजःक्षयस्य निदानमाह
“ग्रोजः संक्षीयते कोपाच्चिन्ताशोकश्रमादिभिः। रूक्षती[Page2375-a+ 38] क्ष्णोष्णकटुकैः कर्षणैरपरैरपि। अथ क्षीणौज आदीनांलक्षणमाह।
“बिभेति दुर्बलोऽभीक्ष्णंचिन्तयेद्व्यथितेन्द्रि-यः। अभ्युत्थानोन्मना रूक्षः क्षामः स्यादोजसः क्षये। पुरीषस्य क्षये पार्श्वे हृदये च व्यथा भवेत्। सशब्दस्यानि-लस्यीर्द्धगमनं कुक्षिसंवृतिः”। कुक्षिसंवृतिः उदरसङ्कोचः
“मूत्रक्षयेऽल्पमूत्रत्वं वस्तौ तोदश्च जायते। स्वेदनाशेत्वचो रौक्ष्यञ्चक्षुषोरपि रूक्षता। स्तब्धाश्च रो{??}कूपाःस्युर्लिङ्गं स्वेदक्षये भवेत्। आर्त्तवस्य स्वकाले चाभावस्त-स्याल्पताथ वा। जायते वेदना योनौ लिङ्गं स्यादार्त्त-वक्षये। अभावः स्वल्पता वा स्यात् स्वप्नस्य भवतस्तथा। म्लानौ पयोधरावेतल्लक्षणं स्तन्यसंक्षये। अनुन्नतो भवेत्-कुक्षिर्गर्भस्यास्पन्दनन्तथा। इति गर्भक्षये प्राज्ञैर्लक्षणंसमुदाहृतम्”। अथ क्षीणानां धातुदोषमलानां वर्द्धन-माह।
“तत्तत्संवर्द्धनाहारविहारातिनिषेवणात्। तत्तत् प्राप्य नरः शीघ्रं तत्तत्क्षयमपोहति। ओजस्तुवर्द्धते नॄणां सुस्निग्धस्वादुभिस्तथा। वृष्यैरन्यैर्विशेषात्तुक्षीरमांसरसादिभिः”। अन्यच्च
“दोषधातुमलक्षीणोबलक्षीणोऽपि मानवः। तत्तत्संवर्द्धनं यत्तदन्नपानं प्रका-ज्ञति। यद्यदाहारजातन्तु क्षीणः प्रार्थयते नरः। तस्यतस्य स लाभेन तत्तत्क्षयमपोहति”। तत्र केन क्षीणःकिङ्खाङ्क्षतीत्याकाङ्क्षायामाह
“कषायकटुतिक्तानि रूक्ष-शीतलघूनि च। यवमुद्गप्रियङ्गूंश्च वातक्षीणोऽभिकाङ्क्ष-ति”। पित्तक्षीणः किं काङ्खतीत्याकाङ्क्षायामाह
“तिल-माषकुलत्थादिपिष्टान्नविकृतिन्तथा। मस्तुशुक्लाम्लतक्राणिकाञ्जिकञ्च तथा दधि। कट्वम्ललवणोष्णानि तीक्ष्णंक्रोधं विदाहि च। समयं देशमुष्णञ्च पित्तक्षीणोऽभिका-ङ्क्षाति। मधुरस्निग्धशीतानि लवणाम्लगुरूणि च। दधि क्षीरं दिवास्वप्नं कफक्षीणोभिकाङ्क्षति। रस-क्षीणो नरः काङ्क्षत्यम्भोऽतिशिशिरं मुहुः। रात्रिनिद्रां हिमं चन्द्रं भोक्तुञ्च मधुरं रसम्। इक्षुं मांस रसंमन्थं मधुसर्पिर्गुडौदनम्। द्राक्षादाडिमशुक्तानि स-स्नेहलवणानि च। रक्तसिद्धानि मांसानि रक्तक्षीणो-ऽभिकाङ्क्षति। अन्नानि दधिसिद्धानि षाडवांश्चबहूनपि। स्थूलक्रव्यादमांसानि मांसक्षीणोऽभिकाङ्-क्षति”। षाडवा मधुराम्लादिरससंयोगपाचिताः गुडप्रभृतयः।
“मेदःसिद्धानि मांसानि ग्राम्यानूपौदकानिच। सक्षाराणि विशेषेण मेदःक्षीणोऽभिकाङ्क्षति। अस्थिक्षीणस्तथा मांसं मज्जास्थिस्नेहसंयुतम्। स्वा-[Page2375-b+ 38] द्वम्लसंयुतं द्रव्यं मज्जाक्षीणोऽभिकाङ्क्षति। शिखिनःकुक्वुटस्याण्डं हंससारसयोस्तथा। ग्राम्यानूपौदकानाञ्चशुक्रक्षीणोऽभिकाङ्क्षति। यवान्नं यावकान्नञ्च शाकानिविविधानि च। मसूरमाषयूषञ्च मलक्षीणोऽभिकाङ्क्षति। पेयमिक्षुरसं क्षीरं समुडं वदरोदकम्। मूत्रक्षीणोऽभि-लषति त्रपुसेर्वारुकाणि च। अभ्यङ्गोद्वर्त्तने मद्यं निवा-तशयनासने। गुरु प्रावरणं चैव स्वेदक्षीणोऽभिकाङ्क्ष-ति। कट्वम्ललवणोष्णानि विदाहीनि गुरूणि च। फ-लशाकानि पानानि स्त्री काङ्खत्यार्त्तवक्षये। सुराशा-ल्यन्नमांसानि गोक्षीरं शर्करान्तथा। आसवं दधि हृद्यानिस्तन्यक्षीणाऽभिवाञ्छति। मृगाजाविवराहाणां गर्भा-न्वाञ्छति संस्कतान्। वसाशूल्यप्रकारादीन् भोक्तुगर्भपरिक्षये”।
शब्दसागरः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षीण¦ mfn. (-णः-णा-णं)
1. Thin, emaciated, feeble.
2. Thin, slender.
3. Wasted, diminished, worn away, expended.
4. Destroyed, lost.
5. Injured, broken, torn.
6. Subdued, suppressed.
7. Poor, miserable. E. क्षि to waste, affix क्त, deriv. irr.
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षीण [kṣīṇa], p. p. [क्षि-क्त]
Thin, emaciated, waned, become lean, diminished, worn away, expended; भार्यां क्षीणेषु वित्तेषु (जानीयात्) H.1.7; so क्षीणः क्षीणो$पि शशी; K. P. क्षीणे पुण्ये मर्त्यलोकं विशन्ति Bg.9.21.
Slender, delicate; क्षीणेन मध्ये$पि सतोदरेण N.7.81.
Small, little.
Poor, miserable; यो वै प्रियसुखे क्षीणः Mb.12.295.13.
Powerless, weak.
Wasted away, decreased, lost, diminished.
Dead, destroyed; अक्षीणभक्तिः क्षीणे$पि नन्दे Mu.2.21.
Injured, broken, torn; -Comp. -कोश a. One whose wealth is exhausted; आरब्धै- र्व्यसनैंर्भूम्ना क्षीणकोशः क्षणे क्षणे Rāj. T.5.166. -चन्द्रः the moon on the wane. -धन a. reduced to poverty, impoverished. -पाप a. one who is purified after having suffered the consequence of sin. -पुण्य a. one who has enjoyed all his stock of merit, and must work to acquire more in another birth. -मध्य a. slender-waisted.-वासिन् a. inhabiting a dilapidated house. (-m.) a dove or pigeon. -विक्रान्त a. destitute of courage or prowess-वृत्ति a. deprived of the means of support, out of employ; Ms.8.341. -शक्ति, -बल a. weakened in strength, subsided (as a disease); उपेक्षितः क्षीणबलो$पि शत्रुः Pt.1.235.
क्षीण [kṣīṇa], See under क्षि.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
क्षीण mfn. diminished , wasted , expended , lost , destroyed , worn away , waning (as the moon) S3Br. Mun2d2Up. S3vetUp. Mn. etc.
क्षीण mfn. weakened , injured , broken , torn , emaciated , feeble Mn. vii , 166 Sus3r. Ka1s3. on Pa1n2. 6-4 , 61 and viii , 2 , 46 etc.
क्षीण mfn. delicate , slender S3ak. Gi1t. iv , 21 Naish. vii , 81
क्षीण mfn. poor , miserable Pan5cat. iv , 16 and 32
क्षीण n. N. of a disease of the pudenda muliebria Gal.
क्षीण See. 4. क्षि.